TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय १३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १३
तिमिरं काच-तां याति काचो ऽप्य् आन्ध्यम् उपेक्षया ।
नेत्र-रोगेष्व् अतो घोरं तिमिरं साधयेद्रुतम् ॥१॥

तुलां पचेत जीवन्त्या द्रोणे ऽपां पाद-शेषिते ।
तत्-क्वाथे द्वि-गुण-क्षीरं घृत-प्रस्थं विपाचयेत् ॥२॥

१३.२ तत्-क्वाथे द्वि-गुणं क्षीरं प्रपौण्डरीक-काकोली-पिप्पली-लोध्र-सैन्धवैः ।
शताह्वा-मधुक-द्राक्षा-सिता-दारु-फल-त्रयैः ॥३॥

कार्षिकैर् निशि तत् पीतं तिमिरापहरं परम् ।
द्राक्षा-चन्दन-मञ्जिष्ठा-काकोली-द्वय-जीवकैः ॥४॥

१३.४ तिमिराणां हरं परम् सिता-शतावरी-मेदा-पुण्ड्राह्व-मधुकोत्पलैः ।
पचेज् जीर्ण-घृत-प्रस्थं सम-क्षीरं पिचून्मितैः ॥५॥

१३.५ पचेज् जीर्णं घृत-प्रस्थं हन्ति तत् काच-तिमिर-रक्त-राजी-शिरो-रुजः ।
पटोल-निम्ब-कटुका-दार्वी-सेव्य-वरा-वृषम् ॥६॥

स-धन्वयास-त्रायन्ती-पर्पटं पालिकं पृथक् ।
प्रस्थम् आमलकानां च क्वाथयेन् नल्वणे ऽम्भसि ॥७॥

तद्-आढके ऽर्ध-पलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ।
मुस्त-भूनिम्ब-यष्ट्य्-आह्व-कुटजोदीच्य-चन्दनैः ॥८॥

१३.८ तद्-आढके ऽर्ध-पलिकैर् १३.८ घृत-प्रस्थं विपाचयेत् स-पिप्पलीकैस् तत् सर्पिर् घ्राण-कर्णास्य-रोग-जित् ।
विद्रधि-ज्वर-दुष्टारुर्-विसर्पापचि-कुष्ठ-नुत् ॥९॥

१३.९ स-व्योष-चव्यैस् तत् सर्पिर् १३.९ घ्राण-कर्णाक्षि-रोग-जित् १३.९ विद्रधि-ज्वर-दुष्टास्र- विशेषाछुक्र-तिमिर-नक्तान्ध्योष्णाम्ल-दाह-हृत् ।
त्रि-फलाष्ट-पलं क्वाथ्यं पाद-शेषं जलाढके ॥१०॥

१३.१० -नक्तान्ध्योष्णाम्ल-दाह-नुत् १३.१० पाद-शेषे जलाढके तेन तुल्य-पयस्केन त्रि-फला-पल-कल्क-वान् ।
अर्ध-प्रस्थो घृतात् सिद्धः सितया माक्षिकेण वा ॥११॥

युक्तं पिबेत् तत् तिमिरी तद्-युक्तं वा वरा-रसम् ।
यष्टीमधु-द्वि-काकोली-व्याघ्री-कृष्णामृतोत्पलैः ॥१२॥

पालिकैः स-सिता-द्राक्षैर् घृत-प्रस्थं पचेत् समैः ।
अजा-क्षीर-वरा-वसा-मार्कव-स्व-रसैः पृथक् ॥१३॥

महा-त्रैफलम् इत्य् एतत् परं दृष्टि-विकार-जित् ।
त्रैफलेनाथ हविषा लिहानस् त्रि-फलां निशि ॥१४॥

१३.१४ परं दृष्टि-विकार-नुत् यष्टीमधुक-संयुक्तां मधुना च परिप्लुताम् ।
मासम् एकं हिताहारः पिबन्न् आमलकोदकम् ॥१५॥

सौपर्णं लभते चक्षुर् इत्य् आह भग-वान् निमिः ।
ताप्यायो-हेम-यष्ट्य्-आह्व-सिता-जीर्णाज्य-माक्षिकैः ॥१६॥

संयोजिता यथा-कामं तिमिर-घ्नी वरा वरा ।
स-घृतं वा वरा-क्वाथं शीलयेत् तिमिरामयी ॥१७॥

अपूप-सूप-सक्तून् वा त्रि-फला-चूर्ण-संयुतान् ।
पायसं वा वरा-युक्तं शीतं स-मधु-शर्करम् ॥१८॥

१३.१८ अपूप-तक्र-सक्तून् वा प्रातर् भक्तस्य वा पूर्वम् अद्यात् पथ्यां पृथक् पृथक् ।
मृद्वीका-शर्करा-क्षौद्रैः सततं तिमिरातुरः ॥१९॥

१३.१९ प्रातर् भुक्तस्य वा पूर्वम् स्रोतो-जांशांश् चतुः-षष्टिं ताम्रायो-रूप्य-काञ्चनैः ।
युक्तान् प्रत्य्-एकम् एकांशैर् अन्ध-मूषोदर-स्थितान् ॥२०॥

ध्मापयित्वा समावृत्तं ततस् तच निषेचयेत् ।
रस-स्कन्ध-कषायेषु सप्त-कृत्वः पृथक् पृथक् ॥२१॥

वैडूर्य-मुक्ता-शङ्खानां त्रिभिर् भागैर् युतं ततः ।
चूर्णाञ्जनं प्रयुञ्जीत तत् सर्व-तिमिरापहम् ॥२२॥

१३.२२ तत् सर्वं तिमिरापहम् मांसी-त्रि-जातकायः-कुङ्कुम-नीलोत्पलाभया-तुत्थैः ।
सित-काच-शङ्ख-फेनक-मरिचाञ्जन-पिप्पली-मधुकैः ॥२३॥

चन्द्रे ऽश्विनी-स-नाथे सु-चूर्णितैर् अञ्जयेयुगलं अक्ष्णोः ।
तिमिरार्म-रक्त-राजी-कण्डू-काचादि-शमम् इच्छन् ॥२४॥

मरिच-वर-लवण-भागौ भागौ द्वौ कण-समुद्र-फेनाभ्याम् ।
सौवीर-भाग-नवकं चित्रायां चूर्णितं कफामय-जित् ॥२५॥

१३.२५ चित्रा-संचूर्णितं कफामय-जित् मनोह्वा-तुत्थ-कस्तूरी-मांसी-मलय-रोचनाः ।
दश-कर्पूर-संयुक्तम् अशीति-गुणम् अञ्जनम् ॥२५-१-॥
१३.२५-१-च्व् दर-कर्पूर-संयुक्तम् पिष्टं चित्राश्विनी-पुष्ये षड्-विधे तिमिरे हितम् ।
प्रसादनं च दृष्टेः स्याचक्षुषेणावभाषितम् ॥२५-२-॥
द्राक्षा-मृणाली-स्व-रसे क्षीर-मद्य-वसासु च ।
पृथक् दिव्याप्सु स्रोतो-जं सप्त-कृत्वो निषेचयेत् ॥२६॥

तचूर्णितं स्थितं शङ्खे दृक्-प्रसादनम् अञ्जनम् ।
शस्तं सर्वाक्षि-रोगेषु विदेह-पति-निर्मितम् ॥२७॥

१३.२७ तचूर्णितं घृतं शङ्खे निर्दग्धं बादराङ्गारैस् तुत्थं चेत्थं निषेचितम् ।
क्रमाअजा-पयः-सर्पिः-क्षौद्रे तस्मात् पल-द्वयम् ॥२८॥

१३.२८ तुत्थं चैवं निषेचितम् १३.२८ क्रमाछाग-पयः-सर्पिः- कार्षिकैस् ताप्य-मरिच-स्रोतो-ज-कटुका-नतैः ।
पटु-लोध्र-शिला-पथ्या-कणैलाञ्जन-फेनकैः ॥२९॥

युक्तं पलेन यष्ट्याश् च मूषान्तर्-ध्मात-चूर्णितम् ।
हन्ति काचार्म-नक्तान्ध्य-रक्त-राजीः सु-शीलितः ॥३०॥

चूर्णो विशेषात् तिमिरं भास्-करो भास्-करो यथा ।
त्रिंशद्-भागा भुजङ्गस्य गन्ध-पाषाण-पञ्चकम् ॥३१॥

शुल्ब-तालकयोर् द्वौ द्वौ वङ्गस्यैको ऽञ्जनात् त्रयम् ।
अन्ध-मूषी-कृतं ध्मातं पक्वं वि-मलम् अञ्जनम् ॥३२॥

१३.३२ शुल्ब-तारकयोर् द्वौ द्वौ १३.३२ अन्ध-मूषा-गतं ध्मातं तिमिरान्त-करं लोके द्वितीय इव भास्-करः ॥३३अ॥
१३.३३ तिमिरापहरं लोके गो-मूत्रे छगण-रसे ऽम्ल-काञ्जिके च स्त्री-स्तन्ये ॥३३॥
१३.३३ गो-मूत्रे छगल-रसे ऽम्ल-काञ्जिके च हविषि विषे च माक्षिके च ॥३३॥
यत् तुत्थं ज्वलितम् अनेक-शो निषिक्तं ॥३३ए ॥
तत् कुर्यागरुड-समं नरस्य चक्षुः ॥३३f ॥
तुत्थं स-काशं कनकं स-फलं शङ्ख-शिला-गैरिकम् अञ्जनं च ।
नरः कपाल-सहि-कूङ्कुडाण्डं सप्त-द्वि-सप्त-त्रि-समयो गतः ॥३३-१॥

भृङ्गोद्भव-स्व-रस-भावितम् आज-दुग्धे मूत्रे गवाम् पयसि च त्रि-फला-कषाये ।
द्राक्षा-रसे च परिशुद्धम् इति क्रमेण सौवीरम् अञ्जनम् इदं तिमिरं निहन्ति ॥३३-२॥
श्रेष्ठा-जलं भृङ्ग-रसं स-विषाज्यम् अजा-पयः ।
यष्टी-रसं च यत् सीसं सप्त-कृत्वः पृथक् पृथक् ॥३४॥

१३.३४ श्रेष्ठा-रसं भृङ्ग-रसं तप्तं तप्तं पायितं तच्-छलाका नेत्रे युक्ता साञ्जनान्-अञ्जना वा ।
तैमिर्यार्म-स्राव-पैच्छिल्य-पैल्लं कण्डूं जाड्यं रक्त-राजीं च हन्ति ॥३५॥

रसेन्द्र-भुजगौ तुल्यौ तयोस् तुल्यम् अथाञ्जनम् ।
ईषत्-कर्पूर-संयुक्तम् अञ्जनं तिमिरापहम् ॥३६॥

१३.३६ ईषत्-कर्पूर-सहितम् १३.३६ अञ्जनं तिमिरे वरम् १३.३६ अञ्जनं नयनामृतम् यो गृध्रस् तरुण-रवि-प्रकाश-गल्लस् तस्यास्यं समय-मृतस्य गो-शकृद्भिः ।
निर्दग्धं सम-घृतम् अञ्जनं च पेष्यं योगो ऽयं नयन-बलं करोति गार्ध्रम् ॥३७॥
कृष्ण-सर्प-वदने स-हविष्कं दग्धम् अञ्जन-निःसृत-धूमम् ।
चूर्णितं नलद-पत्त्र-विमिश्रं भिन्न-तारम् अपि रक्षति चक्षुः ॥३८॥

१३.३८ दग्धम् अञ्जन-निर्गत-धूमम् १३.३८ योजितं नलद-पत्त्र-विमिश्रं नागाञ्जनाश्माल-शिलार्क-वङ्गैस् त्रिंशद्-द्वि-पञ्च-द्वयम् अ-द्विकैकैः ।
अन्ध-मूषी-कृतैश् छाग-पयो-निषिक्तैर् दृष्टेर् इदं भास्-करम् अञ्जनं स्यात् ॥३८-१॥

स्रोतो-ऽश्म-वीरं ... वेष्ट्याजमोदा-वट-च्छदैः ।
षट्कं तिमिर-जित् क्लिष्टं मृल्-लिप्तं गो-मयाग्निना ॥३८-२॥

ताम्रायस्-कान्त-गन्धाह्वा-तार्क्षा यत् सु-च्छलं रजः ।
लोहे भृङ्गरजो भृष्टं सप्ताहं दृष्टि-रोग-जित् ॥३८-३॥

१३.३८-३ -तार्क्ष्या यत् सु-च्छलं रजः कृष्ण-सर्पं मृतं न्यस्य चतुरश् चापि वृश्चिकान् ।
क्षीर-कुम्भे त्रि-सप्ताहं क्लेदयित्वा प्रमन्थयेत् ॥३९॥

१३.३९ क्लेदयित्वानु मन्थयेत् १३.३९ क्लेदयित्वाथ मन्थयेत् तत्र यन् नव-नीतं स्यात् पुष्णीयात् तेन कुक्कुटम् ।
अन्धस् तस्य पुऋईषेण प्रेक्षते ध्रुवम् अञ्जनात् ॥४०॥

कृष्ण-सर्प-वसा शङ्खः कतकात् फलम् अञ्जनम् ।
रस-क्रियेयम् अ-चिराअन्धानां दर्शन-प्रदा ॥४१॥

मरिचानि दशार्ध-पिचुस् ताप्यात् तुत्थात् पलं पिचुर् यष्ट्याः ।
क्षीरार्द्र-दग्धम् अञ्जनम् अ-प्रतिसाराख्यम् उत्तमं तिमिरे ॥४२॥

१३.४२ मरिचानि दश द्वि-पलं अक्ष-बीज-मरिचामलक-त्वक्-तुत्थ-यष्टिमधुकैर् जल-पिष्टैः ।
छाययैव गुटिकाः परिशुष्का नाशयन्ति तिमिराण्य् अ-चिरेण ॥४३॥

मरिचामलक-जलोद्भव-तुत्थाञ्जन-ताप्य-धातुभिः क्रम-वृद्धैः ।
षण्-माक्षिक इति योगस् तिमिरार्म-क्लेद-काच-कण्डू-हन्ता ॥४४॥

१३.४४ तिमिरार्म-क्लेद-काच-कण्डू-हा १३.४४ तिमिरार्म-क्लेद-काच-कण्डू-घ्नः रत्नानि रूप्यं स्फटिकं सुवर्णं स्रोतो-ऽञ्जनं ताम्रम् अयः स-शङ्खं ।
कु-चन्दनं लोहित-गैरिकं च चूर्णाञ्जनं सर्व-दृग्-आमय-घ्नम् ॥४५॥

तिल-तैलम् अक्ष-तैलं भृङ्ग-स्व-रसो ऽसनाच निर्यूहः ।
आयस-पात्र-विपक्वं करोति दृष्टेर् बलं नस्यम् ॥४६॥

१३.४६ करोति दृष्टेर् बलं नस्यात् दोषानुरोधेन च नैक-शस् तं स्नेहास्र-विस्रावण-रेक-नस्यैः ।
उपाचरेअञ्जन-मूर्ध-वस्ति-वस्ति-क्रिया-तर्पण-लेप-सेकैः ॥४७॥

सामान्यं साधनम् इदं प्रति-दोषम् अतः शृणु ॥४८अ॥
वात-जे तिमिरे तत्र दश-मूलाम्भसा घृतम् ।
क्षीरे चतुर्-गुणे श्रेष्ठा-कल्क-पक्वं पिबेत् ततः ॥४९॥

त्रि-फला-पञ्च-मूलानां कषायं क्षीर-संयुतम् ।
एरण्ड-तैल-संयुक्तं योजयेच विरेचनम् ॥५०॥

१३.५० एरण्ड-तैल-संमिश्रं १३.५० योजयेत विरेचनम् स-मूल-जाल-जीवन्ती-तुलां द्रोणे ऽम्भसः पचेत् ।
अष्ट-भाग-स्थिते तस्मिंस् तैल-प्रस्थं पयः-समे ॥५१॥

१३.५१ तैल-प्रस्थं पयः-समम् बला-त्रितय-जीवन्ती-वरी-मूलैः पलोन्मितैः ।
यष्टी-पलैश् चतुर्भिश् च लोह-पात्रे विपाचयेत् ॥५२॥

१३.५२ बला-त्रि-जात-जीवन्ती- लोह एव स्थितं मासं नावनाऊर्ध्व-जत्रु-जान् ।
वात-पित्तामयान् हन्ति तविशेषादृग्-आश्रयान् ॥५३॥

१३.५३ लोह-पात्र-स्थितं मासं १३.५३ तविशेषादृग्-आमयान् केशास्य-कन्धरा-स्कन्ध-पुष्टि-लावण्य-कान्ति-दम् ।
सितैरण्ड-जटा-सिंही-फल-दारु-वचा-नतैः ॥५४॥

१३.५४ -पुष्टि-लावण्य-कान्ति-कृत् घोषया बिल्व-मूलैश् च तैलं पक्वं पयो-ऽन्वितम् ।
नस्यं सर्वोर्ध्व-जत्रूत्थ-वात-श्लेष्मामयार्ति-जित् ॥५५॥

१३.५५ शताह्वा-बिल्व-मूलैश् च वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते ।
गृध्राहि-कुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥५६॥

प्रत्यञ्जने च स्रोतो-जं रस-क्षीर-घृते क्रमात् ।
निषिक्तं पूर्व-वयोज्यं तिमिर-घ्नम् अन्-उत्तमम् ॥५७॥

१३.५७ रस-क्षीर-घृतैः क्रमात् न चेएवं शमं याति ततस् तर्पणम् आचरेत् ।
शताह्वा-कुष्ठ-नलद-काकोली-द्वय-यष्टिभिः ॥५८॥

प्रपौण्डरीक-सरल-पिप्पली-देवदारुभिः ।
सर्पिर् अष्ट-गुण-क्षीरं पक्वं तर्पणम् उत्तमम् ॥५९॥

मेदसस् तद्-वऐणेयादुग्ध-सिद्धात् खजाहतात् ।
उद्धृतं साधितं तेजो मधुकोशीर-चन्दनैः ॥६०॥

श्वाविच्-छल्यक-गोधानां दक्ष-तित्तिरि-बर्हिणाम् ।
पृथक् पृथग् अनेनैव विधिना कल्पयेवसाम् ॥६१॥

१३.६१ श्वाविच्-छल्यक-गोधानाम् १३.६१ श्वा-विष्किराक-गोधानाम् १३.६१ ऋक्ष-तित्तिरि-बर्हिणाम् प्रसादनं स्नेहनं च पुट-पाकं प्रयोजयेत् ।
वात-पीनस-वचात्र निरूहं सानुवासनम् ॥६२॥

१३.६२ निरूहं चानुवासनम् पित्त-जे तिमिरे सर्पिर् जीवनीय-फल-त्रयैः ।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत् सिराम् ॥६३॥

शर्करैला-त्रिवृच्-चूर्णैर् मधु-युक्तैर् विरेचयेत् ।
सु-शीतान् सेक-लेपादीन् युञ्ज्यान् नेत्रास्य-मूर्धसु ॥६४॥

शारिवा-पद्मकोशीर-मुक्ता-शाबर-चन्दनैः ।
वर्तिः शस्ताञ्जने चूर्णस् तथा पत्त्रोत्पलाञ्जनैः ॥६५॥

१३.६५ वर्तिः शस्ताञ्जनं चूर्णस् १३.६५ तथा पद्मोत्पलाञ्जनैः स-नागपुष्प-कर्पूर-यष्ट्य्-आह्व-स्वर्ण-गैरिकैः ।
सौवीराञ्जन-तुत्थक-शृङ्गी-धात्री-फल-स्फटिक-कर्पूरम् ॥६६॥

पञ्चांशं पञ्चांशं त्र्य्-अंशम् अथैकांशम् अञ्जनं तिमिर-घ्नम् ।
नस्यं चाज्यं शृतं क्षीर-जीवनीय-सितोत्पलैः ॥६७॥

श्लेष्मोद्भवे ऽमृता-क्वाथ-वरा-कण-शृतं घृतम् ।
विध्येत् सिरां पीत-वतो दद्याचानु विरेचनम् ॥६८॥

क्वाथं पूगाभया-शुण्ठी-कृष्णा-कुम्भ-निकुम्भ-जम् ।
ह्रीवेर-दारु-द्वि-निशा-कृष्णा-कल्कैः पयो-ऽन्वितैः ॥६९॥

द्वि-पञ्च-मूल-निर्यूहे तैलं पक्वं च नावनम् ।
शङ्ख-प्रियङ्गु-नेपाली-कटु-त्रिक-फल-त्रिकैः ॥७०॥

दृग्-वैमल्याय वि-मला वर्तिः स्यात् कोकिला पुनः ।
कृष्ण-लोह-रजो-व्योष-सैन्धव-त्रि-फलाञ्जनैः ॥७१॥

१३.७१ वर्तिः स्यात् कौलिका पुनः शश-गो-खर-सिंहोष्ट्र-द्वि-जा लालाटम् अस्थि च ।
श्वेत-गो-वाल-मरिच-शङ्ख-चन्दन-फेनकम् ॥७२॥

पिष्टं स्तन्याज्य-दुग्धाभ्यां वर्तिस् तिमिर-शुक्र-जित् ।
रक्त-जे पित्त-वत् सिद्धिः शीतैश् चास्रं प्रसादयेत् ॥७३॥

मधूक-साराञ्जन-ताम्र-त्रि-कटुक-विडङ्ग-पौण्डरीकाणि ।
स-लवण-तुत्थ-त्रि-फला-लोध्राणि नभो-ऽम्बु-पिष्टानि ॥७३-१॥

वर्तिश् चतुर्-दशाङ्गी नयनामय-नाशनी शिला-स्तम्भे ।
लिखिता हिताय जगतस् तिमिरापहरी विशेषेण ॥७३-२॥

एक-गुणा मागधिका द्वि-गुणा च हरीतकी सलिल-पिष्टा ।
वर्तिर् इयं तिमिर-पटल-काच-कण्ड्व्-अस्र-हरी ॥७३-३॥

द्राक्षया नलद-लोध्र-यष्टिभिः शङ्ख-ताम्र-हिम-पद्म-पद्मकैः ।
सोत्पलैश् छगल-दुग्ध-वर्तितैर् अस्र-जं तिमिरम् आशु नश्यति ॥७४॥

१३.७४ द्राक्षया नलद-लोध्र-यष्टिका- १३.७४ -शङ्ख-ताम्र-हिम-पद्म-पद्मकैः १३.७४ -शङ्ख-ताम्र-हिम-पद्म-पत्त्रकैः संसर्ग-संनिपातोत्थे यथा-दोषोदयं क्रिया ।
सिद्धं मधूक-कृमिजिन्-मरिचामरदारुभिः ॥७५॥

स-क्षीरं नावनं तैलं पिष्टैर् लेपो मुखस्य च ।
नत-नीलोत्पलानन्ता-यष्ट्य्-आह्व-सुनिषण्णकैः ॥७६॥

साधितं नावने तैलं शिरो-वस्तौ च शस्यते ।
दद्याउशीर-निर्यूहे चूर्णितं कण-सैन्धवम् ॥७७॥

१३.७७ साधितं नावनं तैलं तत् स्रुतं स-घृतं भूयः पचेत् क्षौद्रं घने क्षिपेत् ।
शीते चास्मिन् हितम् इदं सर्व-जे तिमिरे ऽञ्जनम् ॥७८॥

१३.७८ तछृतं स-घृतं भूयः अस्थीनि मज्ज-पूर्णानि सत्-त्वानां रात्रि-चारिणाम् ।
स्रोतो-जाञ्जन-युक्तानि वहत्य् अम्भसि वासयेत् ॥७९॥

१३.७९ स्रोतो-ऽञ्जनेन युक्तानि मासं विंशति-रात्रं वा ततश् चोद्धृत्य शोषयेत् ।
स-मेषशृङ्गी-पुष्पाणि स-यष्ट्य्-आह्वानि तान्य् अनु ॥८०॥

१३.८० स-यष्ट्य्-आह्वानि तानि तु चूर्णितान्य् अञ्जनं श्रेष्ठं तिमिरे सांनिपातिके ।
काचे ऽप्य् एषा क्रिया मुक्त्वा सिरां यन्त्र-निपीडिताः ॥८१॥

१३.८१ सिरा यन्त्र-निपीडिताः १३.८१ सिरां यन्त्र-निपीडनात् आन्ध्याय स्युर् मला दद्यात् स्राव्ये त्व् अस्रे जलौकसः ।
गुडः फेनो ऽञ्जनं कृष्णा मरिचं कुङ्कुमारजः ॥८२॥

१३.८२ आन्ध्याय स्युर् अतो दद्यात् रस-क्रियेयं स-क्षौद्रा काच-यापनम् अञ्जनम् ।
नकुलान्धे त्रि-दोषोत्थे तैमिर्य-विहितो विधिः ॥८३॥

१३.८३ तैमिर्य-विधि-वत् क्रियाः रस-क्रिया घृत-क्षौद्र-गो-मय-स्व-रस-द्रुतैः ।
तार्क्ष्य-गैरिक-तालीशैर् निशान्धे हितम् अञ्जनम् ॥८४॥

१३.८४ निशान्ध्ये हितम् अञ्जनम् दध्ना विघृष्टं मरिचं रात्र्य्-अन्धे ऽञ्जनम् उत्तमम् ।
करञ्जिकोत्पल-स्वर्ण-गैरिकाम्भो-ज-केसरैः ॥८५॥

१३.८५ रात्र्य्-अन्धाञ्जनम् उत्तमम् १३.८५ कारञ्जिकोत्पल-स्वर्ण- पिष्टैर् गो-मय-तोयेन वर्तिर् दोषान्ध-नासिनी ।
अजा-मूत्रेण वा कौन्ती-कृष्णा-स्रोतो-ज-सैन्धवैः ॥८६॥

१३.८६ वर्तिर् दोषान्ध्य-नासिनी कालानुसारी-त्रि-कटु-त्रि-फलाल-मनःशिलाः ।
स-फेनाश् छाग-दुग्धेन रात्र्य्-अन्धे वर्तयो हिताः ॥८७॥

१३.८७ रात्र्य्-आन्ध्ये वर्तयो हिताः संनिवेश्य यकृन्-मध्ये पिप्पलीर् अ-दहन् पचेत् ।
ताः शुष्का मधुना घृष्टा निशान्धे श्रेष्ठम् अञ्जनम् ॥८८॥

१३.८८ निशान्ध्ये श्रेष्ठम् अञ्जनम् १३.८८ नक्तान्ध्ये श्रेष्ठम् अञ्जनम् खादेच प्लीह-यकृती माहिषे तैल-सर्पिषा ।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ॥८९॥

तथातिमुक्तकैरण्ड-शेफाल्य्-अभीरु-जानि च ।
भृष्टं घृतं कुम्भयोनेः पत्त्रैः पाने च पूजितम् ॥९०॥

१३.९० सिद्धं घृतं कुम्भ-योनेः १३.९० पत्त्रैः पाने ऽति-पूजितम् धूमराख्याम्ल-पित्तोष्ण-विदाहे जीर्ण-सर्पिषा ।
स्निग्धं विरेचयेछीतैः शीतैर् दिह्याच सर्वतः ॥९१॥

गो-शकृद्-रस-दुग्धाज्यैर् विपक्वं शस्यते ऽञ्जनम् ।
स्वर्ण-गैरिक-तालीश-चूर्णावापा रस-क्रिया ॥९२॥

मेदा-शाबरकानन्ता-मञ्जिष्ठा-दार्वि-यष्टिभिः ।
क्षीराष्टांशं घृतं पक्वं स-तैलं नावनं हितम् ॥९३॥

तर्पणं क्षीर-सर्पिः स्याअ-शाम्यति सिरा-व्यधः ।
चिन्ताभिघात-भी-शोक-रौक्ष्यात् सोत्कटकासनात् ॥९४॥

१३.९४ -रूक्षाम्ल-कटुकाशनात् विरेक-नस्य-वमन-पुट-पाकादि-विभ्रमात् ।
विदग्धाहार-वमनात् क्षुत्-तृष्णादि-विधारणात् ॥९५॥

अक्षि-रोगावसानाच पश्येत् तिमिर-रोगि-वत् ।
यथा-स्वं तत्र युञ्जीत दोषादीन् वीक्ष्य भेषजम् ॥९६॥

सूर्योपरागानल-विद्युद्-आदि-विलोकनेनोपहतेक्षणस्य ।
संतर्पणं स्निग्ध-हिमादि कार्यं तथाञ्जनं हेम घृतेन घृष्टम् ॥९७॥

चक्षू-रक्षायां सर्व-कालं मनुष्यैर् यत्नः कर्तव्यो जीविते यावइच्छा ।
व्यर्थो लोको ऽयं तुल्य-रात्रिन्-दिवानां पुंसाम् अन्धानां विद्यमाने ऽपि वित्ते ॥९८॥

त्रि-फला रुधिर-स्रुतिर् विशुद्धिर् मनसो निर्वृतिर् अञ्जनं स-नस्यम् ।
शकुनाशन-ता स-पाद-पूजा घृत-पानं च सदैव नेत्र-रक्षा ॥९९॥

१३.९९ मनसो निर्वृतिर् अञ्जनं च नस्यम् १३.९९ शयनासन-ता स-पाद-पूजा १३.९९ शयनासन-तोष-पाद-पूजा अ-हिताअशनात् सदा निवृत्तिर् भृश-भास्-वच्-चल-सूक्ष्म-वीक्षणाच ।
मुनिना निमिनोपदिष्टम् एतत् परमं रक्षणम् ईक्षणस्य पुंसाम् ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:14.4300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

isokurtic

  • अककुदी 
  • समवशिंडी 
RANDOM WORD

Did you know?

हिंदू स्त्रियांच्या मंगळसूत्रातील काळ्या मण्यांचे महत्त्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.