TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ३२

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३२
विस्रावयेज् जलौकोभिर् अ-पक्वाम् अजगल्लिकाम् ।
स्वेदयित्वा यव-प्रख्यां विलयाय प्रलेपयेत् ॥१॥

दारु-कुष्ठ-मनोह्वालैर् इत्य् आ-पाषाण-गर्दभात् ।
विधिस् तांश् चाचरेत् पक्वान् व्रण-वत् साजगल्लिकान् ॥२॥

लोध्र-कुस्तुम्बुरु-वचाः प्रलेपो मुख-दूषिके ।
वट-पल्लव-युक्ता वा नारिकेलोत्थ-शुक्तयः ॥३॥

३२.३ लोध्र-कुस्तुम्बुरु-वचा- ३२.३ -प्रलेपो मुख-दूषिके अ-शान्तौ वमनं नस्यं ललाटे च सिरा-व्यधः ।
निम्बाम्बु-वान्तो निम्बाम्बु-साधितं पद्म-कण्टके ॥४॥

पिबेत् क्षौद्रान्वितं सर्पिर् निम्बारग्वध-लेपनम् ॥५अ॥
३२.५ निम्बारग्वध-लेपनः विवृतादींस् तु जालान्तांश् चिकित्सेत् सेरिवेल्लिकान् ॥५च्॥
३२.५ चिकित्सेइरिवेल्लिकाम् पित्त-विसर्प-वत् तद्-वत् प्रत्याख्यायाग्नि-रोहिणीम् ॥५एf ॥
विलङ्घनं रक्त-विमोक्षणं च विरूक्षणं काय-विशोधनं च ।
धात्री-प्रयोगाञ् छिशिर-प्रदेहान् कुर्यात् सदा जालक-गर्दभस्य ॥६॥

३२.६ विरूक्षणं काय-विरेचनं च ३२.६ धात्री-प्रदेहाञ् छिशिर-प्रयोगान् विदारिकां हृते रक्ते श्लेष्म-ग्रन्थि-वआचरेत् ।
मेदो-ऽर्बुद-क्रियां कुर्यात् सु-तरां शर्करार्बुदे ॥७॥

प्रवृद्धं सु-बहु-च्छिद्रं स-शोफं मर्मणि स्थितम् ।
वल्मीकं हस्त-पादे च वर्जयेइतरत् पुनः ॥८॥

३२.८ वर्जयेइतरं पुनः शुद्धस्यास्रे हृते लिम्पेत् स-पट्व्-आरेवतामृतैः ।
श्यामा-कुलत्थिका-मूल-दन्ती-पलल-सक्तुभिः ॥९॥

३२.९ स-पट्व्-आरग्वधामृतैः पक्वे तु दुष्ट-मांसानि गतीः सर्वाश् च शोधयेत् ।
शस्त्रेण सम्यग् अनु च क्षारेण ज्वलनेन वा ॥१०॥

शस्त्रेणोत्कृत्य निः-शेषं स्नेहेन कदरं दहेत् ।
निरुद्ध-मणि-वत् कार्यं रुद्ध-पायोश् चिकित्सितम् ॥११॥

३२.११ शस्त्रेणोद्धृत्य निः-शेषं चिप्यं शुद्ध्या जितोष्माणं साधयेछस्त्र-कर्मणा ।
दुष्टं कु-नखम् अप्य् एवं चरणाव् अलसे पुनः ॥१२॥

धान्याम्ल-सिक्तौ कासीस-पटोली-रोचना-तिलैः ।
स-निम्ब-पत्त्रैर् आलिम्पेदहेत् तु तिल-कालकान् ॥१३॥

मषांश् च सूर्य-कान्तेन क्षारेण यदि वाग्निना ।
तद्-वउत्कृत्य शस्त्रेण चर्म-कील-जतू-मणी ॥१४॥

लाञ्छनादि-त्रये कुर्यायथासन्नं सिरा-व्यधम् ।
लेपयेत् क्षीर-पिष्टैश् च क्षीरि-वृक्ष-त्वग्-अङ्कुरैः ॥१५॥

३२.१५ न्यच्छादि-त्रितये कुर्याव्यङ्गेषु चार्जुन-त्वग् वा मञ्जिष्ठा वा स-माक्षिका ।
लेपः स-नव-नीता वा श्वेताश्व-खुर-जा मषी ॥१६॥

३२.१६ व्यङ्गेषु वार्जुन-त्वग् वा रक्त-चन्दन-मञ्जिष्ठा-कुष्ठ-लोध्र-प्रियङ्गवः ।
वटाङ्कुरा मसूराश् च व्यङ्ग-घ्ना मुख-कान्ति-दाः ॥१७॥

द्वे जीरके कृष्ण-तिलाः सर्षपाः पयसा सह ।
पिष्टाः कुर्वन्ति वक्त्रेन्दुम् अपास्त-व्यङ्ग-लाञ्छनम् ॥१८॥

क्षीर-पिष्टा घृत-क्षौद्र-युक्ता वा भृष्ट-निस्-तुषाः ।
मसूराः क्षीर-पिष्टा वा तीक्ष्णाः शाल्मलि-कण्टकाः ॥१९॥

स-गुडः कोल-मज्जा वा शशासृक्-क्षौद्र-कल्कितः ।
सप्ताहं मातुलुङ्ग-स्थं कुष्ठं वा मधुनान्वितम् ॥२०॥

३२.२० कुष्ठं वा मधुकान्वितम् पिष्टा वा छाग-पयसा स-क्षौद्रा मौसली जटा ।
गोर् अस्थि मुसली-मूल-युक्तं वा साज्य-माक्षिकम् ॥२१॥

जम्ब्व्-आम्र-पल्लवा मस्तु हरिद्रे द्वे नवो गुडः ।
लेपः स-वर्ण-कृत् पिष्टं स्व-रसेन च तिन्दुकम् ॥२२॥

उत्पलम् उत्पल-कुष्ठं प्रियङ्गु-कालीयकं बदर-मज्जा ।
इदम् उद्वर्तनम् आस्यं करोति शतपत्त्र-संकाशम् ॥२३॥

३२.२३ उत्पल-पत्त्रं तगरं ३२.२३ करोति शतपत्त्रकाकारम् एभिर् एवौषधैः पिष्टैर् मुखाभ्यङ्गाय साधयेत् ।
यथा-दोषर्तुकान् स्नेहान् मधुक-क्वाथ-संयुतैः ॥२४॥

यवान् सर्ज-रसं लोध्रम् उशीरं मदनं मधु ।
घृतं गुडं च गो-मूत्रे पचेआ-दर्वि-लेपनात् ॥२५॥

३२.२५ उशीरं चन्दनं मधु तअभ्यङ्गान् निहन्त्य् आशु नीलिका-व्यङ्ग-दूषिकान् ।
मुखं करोति पद्माभं पादौ पद्म-दलोपमौ ॥२६॥

३२.२६ नीलिका-व्यङ्ग-दूषकान् कुङ्कुमोशीर-कालीय-लाक्षा-यष्ट्य्-आह्व-चन्दनम् ।
न्यग्रोध-पादांस् तरुणान् पद्मकं पद्म-केसरम् ॥२७॥

स-नीलोत्पल-मञ्जिष्ठं पालिकं सलिलाढके ।
पक्त्वा पादावशेषेण तेन पिष्टैश् च कार्षिकैः ॥२८॥

लाक्षा-पत्तङ्ग-मञ्जिष्ठा-यष्टीमधुक-कुङ्कुमैः ।
अजा-क्षीरं द्वि-गुणितं तैलस्य कुडवं पचेत् ॥२९॥

३२.२९ अजा-क्षीर-द्वि-गुणितं नीलिका-पलित-व्यङ्ग-वली-तिलक-दूषिकान् ।
हन्ति तन् नस्यम् अभ्यस्तं मुखोपचय-वर्ण-कृत् ॥३०॥

मञ्जिष्ठा शबरोद्भवस् तुबरिका लाक्षा हरिद्रा-द्वयं ॥३१॥
नेपाली हरिताल-कुङ्कुम-गदा गो-रोचना गैरिकम् ॥३१॥
३२.३१ नेपाली हरिताल-कुङ्कुम-गदं गो-रोचना गैरिकम् पत्त्रं पाण्डु वटस्य चन्दन-युगं कालीयकं पारदं ॥३१॥
पत्तङ्गं कनक-त्वचं कमल-जं बीजं तथा केसरम् ॥३१॥
सिक्थं तुत्थं पद्मकाद्यो वसाज्यं मज्जा क्षीरं क्षीरि-वृक्षाम्बु चाग्नौ ।
सिद्धं सिद्धं व्यङ्ग-नील्य्-आदि-नाशे वक्त्रे छायाम् ऐन्दवीं चाशु धत्ते ॥३२॥

मार्कव-स्व-रस-क्षीर-तोयानीष्टानि नावने ।
प्रसुप्तौ वात-कुष्ठोक्तं कुर्यादाहं च वह्निना ॥३३॥

३२.३३ -तोय-पिष्टानि नावने उत्कोठे कफ-पित्तोक्तं कोठे सर्वं च कौष्ठिकम् ॥३३ऊ̆अ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:18.1470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जुंज-झ

  • n  Fight, contest, battle. 
RANDOM WORD

Did you know?

Request for Anagha Ashtami Puja vrat Sagrasangit Puja
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site