TransLiteral Foundation

उत्तरस्थान - अध्याय १४

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १४
विध्येत् सु-जातं निष्-प्रेक्ष्यं लिङ्ग-नाशं कफोद्भवम् ।
आवर्तक्य्-आदिभिः षड्भिर् विवर्जितम् उपद्रवैः ॥१॥

सो ऽ-संजातो हि विषमो दधि-मस्तु-निभस् तनुः ।
शलाकयावकृष्टो ऽपि पुनर् ऊर्ध्वं प्रपद्यते ॥२॥

१४.२ पुनर् ऊर्ध्वं प्रवर्तते करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः ।
श्लेष्मलैः पूर्यते चाशु सो ऽन्यैः सोपद्रवश् चिरात् ॥३॥

१४.३ सो ऽन्यैः सोपद्रवैश् चिरात् श्लैष्मिको लिङ्ग-नाशो हि सित-त्वाछ्लेष्मणः सितः ।
तस्यान्य-दोषाभिभवाभवत्य् आ-नील-ता गदः ॥४॥

१४.४ भवत्य् आ-नील-ता गदे १४.४ भवत्य् आ-नीलिका गदे तत्रावर्त-चला दृष्टिर् आवर्तक्य् अरुणासिता ।
शर्करार्क-पयो-लेश-निचितेव घनाति च ॥५॥

१४.५ आवर्तक्य् अरुणा सिता राजी-मती दृङ् निचिता शालि-शूकाभ-राजिभिः ।
विषम-च्छिन्न-दग्धाभा स-रुक् छिन्नांशुका स्मृता ॥६॥

दृष्टिः कांस्य-सम-च्छाया चन्द्रकी चन्द्रकाकृतिः ।
छत्त्राभा नैक-वर्णा च छत्त्रकी नाम नीलिका ॥७॥

न विध्येअ-सिरार्हाणां न तृट्-पीनस-कासिनाम् ।
ना-जीर्णि-भीरु-वमित-शिरः-कर्णाक्षि-शूलिनाम् ॥८॥

१४.८ न दृक्-पीनस-कासिनाम् अथ साधारणे काले शुद्ध-संभोजितात्मनः ।
देशे प्रकाशे पूर्वाह्णे भिषग् जानूच्च-पीठ-गः ॥९॥

यन्त्रितस्योपविष्टस्य स्विन्नाक्षस्य मुखानिलैः ।
अङ्गुष्ठ-मृदिते नेत्रे दृष्टौ दृष्ट्वोत्प्लुतं मलम् ॥१०॥

स्वां नासां प्रेक्षमाणस्य निष्-कम्पं मूर्ध्नि धारिते ।
कृष्णाअर्धाङ्गुलं मुक्त्वा तथार्धार्धम् अपाङ्गतः ॥११॥

१४.११ स्व-नासां प्रेक्षमाणस्य १४.११ तअर्धार्धम् अपाङ्गतः तर्जनी-मध्यमाङ्गुष्ठैः शलाकां निश्-चलं धृताम् ।
दैव-च्छिद्रं नयेत् पार्श्वाऊर्ध्वम् आमन्थयन् इव ॥१२॥

सव्यं दक्षिण-हस्तेन नेत्रं सव्येन चेतरत् ।
विध्येत् सु-विद्धे शब्दः स्याअ-रुक् चाम्बु-लव-स्रुतिः ॥१३॥

सान्त्वयन्न् आतुरं चानु नेत्रं स्तन्येन सेचयेत् ।
शलाकायास् ततो ऽग्रेण निर्लिखेन् नेत्र-मण्डलम् ॥१४॥

१४.१४ निर्लिखेदृष्टि-मण्डलम् अ-बाधमानः शनकैर् नासां प्रति नुदंस् ततः ।
उच्छिङ्घनाचापहरेदृष्टि-मण्डल-गं कफम् ॥१५॥

१४.१५ उच्छिङ्खनाचापहरेस्थिरे दोषे चले वाति स्वेदयेअक्षि बाह्यतः ।
अथ दृष्टेषु रूपेषु शलाकाम् आहरेछनैः ॥१६॥

१४.१६ स्थिरे दोषे चले वापि घृताप्लुतं पिचुं दत्त्वा बद्धाक्षं शाययेत् ततः ।
विद्धाअन्येन पार्श्वेन तम् उत्तानं द्वयोर् व्यधे ॥१७॥

१४.१७ व्यधाअन्येन पार्श्वेन निवाते शयने ऽभ्यक्त-शिरः-पादं हिते रतम् ।
क्षवथुं कासम् उद्गारं ष्ठीवनं पानम् अम्भसः ॥१८॥

१४.१८ -शिरो-गात्रं हिते रतम् अधो-मुख-स्थितिं स्नानं दन्त-धावन-भक्षणम् ।
सप्ताहं नाचरेत् स्नेह-पीत-वचात्र यन्त्रणा ॥१९॥

शक्तितो लङ्घयेत् सेको रुजि कोष्णेन सर्पिषा ।
स-व्योषामलकं वाट्यम् अश्नीयात् स-घृतं द्रवम् ॥२०॥

विलेपीं वा त्र्य्-अहाचास्य क्वाथैर् मुक्त्वाक्षि सेचयेत् ।
वात-घ्नैः सप्तमे त्व् अह्नि सर्व-थैवाक्षि मोचयेत् ॥२१॥

यन्त्रणाम् अनुरुध्येत दृष्टेर् आ-स्थैर्य-लाभतः ।
रूपाणि सूक्ष्म-दीप्तानि सहसा नावलोकयेत् ॥२२॥

शोफ-राग-रुजादीनाम् अधिमन्थस्य चोद्भवः ।
अ-हितैर् वेध-दोषाच यथा-स्वं तान् उपाचरेत् ॥२३॥

१४.२३ अ-हितैर् वेध्य-दोषाच १४.२३ यथा-स्वं तान् उपक्रमेत् कल्किताः स-घृता दूर्वा-यव-गैरिक-शारिवाः ।
मुखालेपे प्रयोक्तव्या रुजा-रागोपशान्तये ॥२४॥

स-सर्षपास् तिलास् तद्-वन् मातुलुङ्ग-रसाप्लुताः ।
पयस्या-शारिवा-पत्त्र-मञ्जिष्ठा-मधुयष्टिभिः ॥२५॥

अजा-क्षीर-युतैर् लेपः सुखोष्णः शर्म-कृत् परम् ।
लोध्र-सैन्धव-मृद्वीका-मधुकैश् छागलं पयः ॥२६॥

१४.२६ अजा-क्षीरान्वितैर् लेपः शृतम् आश्च्योतनं योज्यं रुजा-राग-विनाशनम् ।
मधुकोत्पल-कुष्ठैर् वा द्राक्षा-लाक्षा-सितान्वितैः ॥२७॥

१४.२७ मधुकोत्पल-कुष्ठैला- १४.२७ द्राक्षा-लाक्षा-रसान्वितैः १४.२७ -द्राक्षा-लाक्षा-सितान्वितैः १४.२७ -द्राक्षा-लाक्षा-रसान्वितैः वात-घ्न-सिद्धे पयसि शृतं सर्पिश् चतुर्-गुणे ।
पद्मकादि-प्रतीवापं सर्व-कर्मसु शस्यते ॥२८॥

सिरां तथान्-उपशमे स्निग्ध-स्विन्नस्य मोक्षयेत् ।
मन्थोक्तां च क्रियां कुर्यावेधे रूढे ऽञ्जनं मृदु ॥२९॥

१४.२९ व्यधे रूढे ऽञ्जनं मृदु आढकी-मूल-मरिच-हरिताल-रसाञ्जनैः ।
विद्धे ऽक्ष्णि स-गुडा वर्तिर् योज्या दिव्याम्बु-पेषिता ॥३०॥

जाती-शिरीष-धव-मेषविषाणि-पुष्प-वैडूर्य-मौक्तिक-फलं पयसा सु-पिष्टम् ।
आजेन ताम्रम् अमुना प्रतनु प्रदिग्धं सप्ताहतः पुनर् इदं पयसैव पिष्टम् ॥३१॥
१४.३१ जाती-शिरीष-धव-मेषविषाण-पुष्प- पिण्डाञ्जनं हितम् अन्-आतप-शुष्कम् अक्ष्णि विद्धे प्रसाद-जननं बल-कृच दृष्टेः ।
स्रोतो-ज-विद्रुम-शिलाम्बु-धि-फेन-तीक्ष्णैर् अस्यैव तुल्यम् उदितं गुण-कल्पनाभिः ॥
३२॥

१४.३२ स्रोतो-ज-विद्रुम-शिलार्णव-फेन-तीक्ष्णैर्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:14.7130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शख् ‍ स

  • पु. मनुष्य ; माणूस ; व्यक्ती . [ अर . शख् ‍ स् ‍ ] 
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.