TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय १६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १६
प्राग्-रूप एव स्यन्देषु तीक्ष्णं गण्डूष-नावनम् ।
कारयेउपवासं च कोपाअन्य-त्र वात-जात् ॥१॥

दाहोपदेह-रागाश्रु-शोफ-शान्त्यै बिडालकम् ।
कुर्यात् सर्व-त्र पत्त्रैला-मरिच-स्वर्ण-गैरिकैः ॥२॥

स-रसाञ्जन-यष्ट्य्-आह्व-नत-चन्दन-सैन्धवैः ।
सैन्धवं नागरं तार्क्ष्यं भृष्टं मण्डेन सर्पिषः ॥३॥

१६.३ घृष्टं मण्डेन सर्पिषः बदरी-पत्त्र-यष्ट्य्-आह्व-पथ्यामलक-तुत्थकम् ।
अन्तर्-धूमं दहेत् सद्यः कोपे तच्-चूर्णं वात-जे ॥३.१-१॥

वात-जे घृत-भृष्टं वा योज्यं शबर-देश-जम् ।
मांसी-पद्मक-कालीय-यष्ट्य्-आह्वैः पित्त-रक्तयोः ॥४॥

१६.४ योज्यं शाबर-देश-जम् १६.४ मांसी-पद्मक-काकोली- मनोह्वा-फलिनी-क्षौद्रैः कफे सर्वैस् तु सर्व-जे ॥५अ॥
सित-मरिच-भागम् एकं चतुर्-मनोह्वं द्विर् अष्ट-शाबरकम् ॥५च्॥
संचूर्ण्य वस्त्र-बद्धं प्रकुपित-मात्रे ऽवगुण्ठनं नेत्रे ॥५एf ॥
१६.५एव् संचूर्ण्यम् अति-प्रबद्धं १६.५fव् प्रकुपित-मात्रे ऽवगुण्ठनम् इदं नेत्रे धातु-शुण्ठ्य्-अभया-तार्क्ष्यं बहिर्-लेपो ऽक्षि-रोग-हा ॥५.१(१)-१अ॥
१६.५.१(१)-१ धातु-शुण्ठ्य्-अभया-तार्क्ष्य- १६.५.१(१)-१ -बहिर्-लेपो ऽक्षि-रोग-हा हरीतकी-सैन्धव-तार्क्ष्य-शीलैः स-गैरिकैः स्व-स्व-कर-प्रमृष्टैः ।
बहिः-प्रलेपं नयनस्य कुर्यात् सर्वाक्षि-रोग-प्रशमार्थम् एतत् ॥५.१(२)-१॥

आरण्याश् छगण-रसे पटावबद्धाः सु-स्विन्ना नख-वि-तुषी-कृताः कुलत्थाः ।
तच्-चूर्णं सकृअवचूर्णनान् निशीथे नेत्राणां विधमति सद्य एव कोपम् ॥६॥

१६.६ आरण्याश् छगण-रसे पटावनद्धाः घोषाभया-तुत्थक-यष्टि-लोध्रैर् मूती सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः ।
ताम्र-स्थ-धान्याम्ल-निमग्न-मूर्तिर् अर्तिं जयत्य् अक्षिणि नैक-रूपाम् ॥७॥

१६.७ घोषाभया-तुत्थक-यष्टि-लोध्रैः १६.७ व्योषाभया-तुत्थक-यष्टि-लोध्रैर् १६.७ गुण्डी सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः १६.७ पिष्टैः सु-सूक्ष्मैः श्लथ-वस्त्र-बद्धैः १६.७ ताम्राच्छ-धान्याम्ल-निमग्न-मूर्तिर् षो-डशभिः सलिल-पलैः पलं तथैकं कटङ्कटेर्याः सिद्धम् ।
सेको ऽष्ट-भाग-शिष्टः क्षौद्र-युतः सर्व-दोष-कुपिते नेत्रे ॥८॥

१६.८ क्षौद्र-युतः सर्व-दोष-प्रकुपिते नेत्रे वात-पित्त-कफ-संनिपात-जां नेत्रयोर् बहु-विधाम् अपि व्यथाम् ।
शीघ्रम् एव जयति प्रयोजितः शिग्रु-पल्लव-रसः स-माक्षिकः ॥९॥

तरुणम् उरुबूक-पत्त्रं मूलं च विभिद्य सिद्धम् आजे क्षीरे ।
वाताभिष्यन्द-रुजं सद्यो विनिहन्ति सक्तु-पिण्डिका चोष्णा ॥१०॥

१६.१० मूलं च विचूर्ण्य सिद्धम् आजे क्षीरे आश्च्योतनं मारुत-जे क्वाथो बिल्वादिभिर् हितः ।
कोष्णः सहैरण्ड-जटा-बृहती-मधु-शिग्रुभिः ॥११॥

ह्रीवेर-वक्र-शार्ङ्गष्टोदुम्बर-त्वक्षु साधितम् ।
साम्भसा पयसाजेन शूलाश्च्योतनम् उत्तमम् ॥१२॥

१६.१२ ंदुम्बर-त्वक्-प्रसाधितम् १६.१२ ंदुम्बर-प्लक्ष-साधितम् लोध्रामलक-रसाञ्ज[न]-बिम्बितिका-पत्त्र-तुबरिका-तुत्थैः ।
आश्च्योतनम् इदम् अक्ष्णोः प्रसह्य सद्यः प्रकोप-हरम् ॥१२-१॥

मञ्जिष्ठा-रजनी-लाक्षा-द्राक्षर्द्धि-मधुकोत्पलैः ।
क्वाथः स-शर्करः शीतः सेचनं रक्त-पित्त-जित् ॥१३॥

१६.१३ -द्राक्षा-द्वि-मधुकोत्पलैः कसेरु-यष्ट्य्-आह्व-रजस् तान्तवे शिथिलं स्थितम् ।
अप्सु दिव्यासु निहितं हितं स्यन्दे ऽस्र-पित्त-जे ॥१४॥

१६.१४ तान्तवे शिथिले स्थितम् पुण्ड्र-यष्टी-निशा-मूती प्लुता स्तन्ये स-शर्करे ।
छाग-दुग्धे ऽथ-वा दाह-रुग्-रागाश्रु-निवर्तनी ॥१५॥

श्वेत-लोध्रं स-मधुकं घृत-भृष्टं सु-चूर्णितम् ।
वस्त्र-स्थं स्तन्य-मृदितं पित्त-रक्ताभिघात-जित् ॥१६॥

नागर-त्रि-फला-निम्ब-वासा-लोध्र-रसः कफे ।
कोष्णम् आश्च्योतनं मिश्रैर् भेषजैः सांनिपातिके ॥१७॥

१६.१७ -वासा-लोध्र-रसाः कफे १६.१७ -वासा-लोध्र-रसं कफे सर्पिः पुराणं पवने पित्ते शर्करयान्वितम् ।
व्योष-सिद्धं कफे पीत्वा यव-क्षारावचूर्णितम् ॥१८॥

१६.१८ पित्ते शर्करया युतम् स्रावयेरुधिरं भूयस् ततः स्निग्धं विरेचयेत् ।
आनूप-वेसवारेण शिरो-वदन-लेपनम् ॥१९॥

उष्णेन शूले दाहे तु पयः-सर्पिर्-युतैर् हिमैः ।
तिमिर-प्रतिषेधं च वीक्ष्य युञ्ज्यायथा-यथम् ॥२०॥

अयम् एव विधिः सर्वो मन्थादिष्व् अपि शस्यते ।
अ-शान्तौ सर्व-था मन्थे भ्रुवोर् उपरि दाहयेत् ॥२१॥

रूप्यं रूक्षेण गो-दध्ना लिम्पेन् नील-त्वम् आगते ।
शुष्के तु मस्तुना वर्तिर् वाताक्ष्य्-आमय-नाशिनी ॥२२॥

१६.२२ लिप्तं नील-त्वम् आगते १६.२२ लिप्ते नील-त्वम् आगते सुमनः-कोरकाः शङ्खस् त्रि-फला मधुकं बला ।
पित्त-रक्तापहा वर्तिः पिष्टा दिव्येन वारिणा ॥२३॥

१६.२३ सुमनः-क्षारकाः शङ्खस् सैन्धवं त्रि-फला व्योषं शङ्खनाभिः समुद्र-जः ।
फेन ऐलेयकं सर्जो वर्तिः श्लेष्माक्षि-रोग-नुत् ॥२४॥

प्रपौण्डरीकं यष्ट्य्-आह्वं दार्वी चाष्ट-पलं पचेत् ।
जल-द्रोणे रसे पूते पुनः पक्वे घने क्षिपेत् ॥२५॥

पुष्पाञ्जनादश-पलं कर्षं च मरिचात् ततः ।
कृतश् चूर्णो ऽथ-वा वर्तिः सर्वाभिष्यन्द-संभवान् ॥२६॥

हन्ति राग-रुजा-घर्षान् सद्यो दृष्टिं प्रसादयेत् ।
अयं पाशुपतो योगो रहस्यं भिषजां परम् ॥२७॥

शुष्काक्षि-पाके हविषः पानम् अक्ष्णोश् च तर्पणम् ।
घृतेन जीवनीयेन नस्यं तैलेन वाणुना ॥२८॥

१६.२८ नस्यं तैलेन चाणुना परिषेको हितश् चात्र पयः कोष्णं स-सैन्धवम् ।
सर्पिर्-युक्तं स्तन्य-पिष्टम् अञ्जनं च महौषधम् ॥२९॥

१६.२९ सर्पिर्-युक्तं स्तन्य-घृष्टम् वसा वानूप-सत्-त्वोत्था किञ्-चित्-सैन्धव-नागरा ।
घृताक्तान् दर्पणे घृष्टान् केशान् मल्लक-संपुटे ॥३०॥

१६.३० वसा चानूप-सत्-त्वोत्था दग्ध्वाज्य-पिष्टा लोह-स्था सा मषी श्रेष्ठम् अञ्जनम् ।
स-शोफे वाल्प-शोफे च स्निग्धस्य व्यधयेत् सिराम् ॥३१॥

१६.३१ स-शोफे चाल्प-शोफे च रेकः स्निग्धे पुनर् द्राक्षा-पथ्या-क्वाथ-त्रिवृद्-घृतैः ।
श्वेत-लोध्रं घृते भृष्टं चूर्णितं तान्तव-स्थितम् ॥३२॥

१६.३२ श्वेत-लोध्रं घृत-भृष्टं उष्णाम्बुना विमृदितं सेकः शूल-हरः परम् ।
दार्वी-प्रपौण्डरीकस्य क्वाथो वाश्च्योतने हितः ॥३३॥

१६.३३ दार्व्याः प्रपौण्डरीकस्य यष्टी-हिमोत्पल-क्षीरैः कुर्यान् मूर्धस्य लेपनम् ॥३३-१अ॥
संधावांश् च प्रयुञ्जीत घर्ष-रागाश्रु-रुग्-घरान् ॥३३ऊ̆अ॥
ताम्रं लोहे मूत्र-घृष्टं प्रयुक्तं नेत्रे सर्पिर्-धूपितं वेदना-घ्नम् ।
ताम्रे घृष्टो गव्य-दध्नः सरो वा युक्तः कृष्णा-सैन्धवाभ्यां वरिष्ठः ॥३४॥

शङ्खं ताम्रे स्तन्य-घृष्टं घृताक्तैः शम्याः पत्त्रैर् धूपितं तयवैश् च ।
नेत्रे युक्तं हन्ति संधाव-संज्ञं क्षिप्रं घर्षं वेदनां चाति-तीव्राम् ॥३५॥

उदुम्बर-फलं लोहे घृष्टं स्तन्येन धूपितम् ॥३६अ॥
साज्यैः शमी-च्छदैर् दाह-शूल-रागाश्रु-हर्ष-जित् ।
शिग्रु-पल्लव-निर्यासः सु-घृष्टस् ताम्र-संपुटे ॥३७॥

१६.३७ शिग्रु-पल्लव-निर्यासो १६.३७ घृष्टस् ताम्रस्य संपुटे द्वि-निशा-त्रि-फला-मुस्तैः प्रमदा-दुग्ध-पेषितैः ।
सेकः स-शर्करा-क्षौद्रैर् अभिघात-रुजापहः ॥३७.१-१॥

१६.३७.१-१ प्रमदा-दुग्ध-कल्कितैः निषिक्तं तुत्थकं वारान् गो-जले पञ्च-विंशतिम् ।
स्तन्ये वा छाग-दुग्धे वा सद्यः-कोपे तअञ्जनम् ॥३७.१-२॥

घृतेन धूपितो हन्ति शोफ-घर्षाश्रु-वेदनाः ।
तिलाम्भसा मृत्-कपालं कांस्ये घृष्टं सु-धूपितम् ॥३८॥

निम्ब-पत्त्रैर् घृताभ्यक्तैर् घर्ष-शूलाश्रु-राग-जित् ।
संधावेनाञ्जिते नेत्रे विगतौषध-वेदने ॥३९॥

स्तन्येनाश्च्योतनं कार्यं त्रिः परं नाञ्जयेच तैः ।
तालीश-पत्त्र-चपला-नत-लोह-रजो-ऽञ्जनैः ॥४०॥

१६.४० -नत-लोह-रसाञ्जनैः जाती-मुकुल-कासीस-सैन्धवैर् मूत्र-पेषितैः ।
ताम्रम् आलिप्य सप्ताहं धारयेत् पेषयेत् ततः ॥४१॥

मूत्रेणैवानु गुटिकाः कार्याश् छाया-विशोषिताः ।
ताः स्तन्य-घृष्टा घर्षाश्रु-शोफ-कण्डू-विनाशनाः ॥४२॥

१६.४२ मूत्रेण चानु गुटिकाः १६.४२ कुर्याछाया-विशोषिताः व्याघ्री-त्वङ्-मधुकं ताम्र-रजो ऽजा-क्षीर-कल्कितम् ।
शम्य्-आमलक-पत्त्राज्य-धूपितं शोफ-रुक्-प्रणुत् ॥४३॥

१६.४३ -रजो ऽजा-क्षीर-पेषितम् अम्लोषिते प्रयुञ्जीत पित्ताभिष्यन्द-साधनम् ।
उत्क्लिष्टाः कफ-पित्तास्र-निचयोत्थाः कुकूणकः ॥४४॥

पक्ष्मोपरोधं शुष्काक्षि-पाकः पूयालसो बिसः ।
पोथक्य्-अम्लोषितो ऽल्पाख्यः स्यन्द-मन्था विनानिलात् ॥४५॥

एते ऽष्टा-दश पिल्लाख्या दीर्घ-कालानुबन्धिनः ।
चिकित्सा पृथग् एतेषां स्वं स्वम् उक्ताथ वक्ष्यते ॥४६॥

१६.४६ स्वं स्वम् उक्ताथ कथ्यते पिल्ली-भूतेषु सामान्याअथ पिल्लाख्य-रोगिणः ।
स्निग्धस्य छर्दित-वतः सिरा-व्यध-हृतासृजः ॥४७॥

१६.४७ अथ पिल्लाक्षि-रोगिणः विरिक्तस्य च वर्त्मानु निर्लिखेआ-विशुद्धितः ।
तुत्थकस्य पलं श्वेत-मरिचानि च विंशतिः ॥४८॥

१६.४८ विरिक्तस्य तु वर्त्मानु १६.४८ विलिखेआ-विशुद्धितः त्रिंशता काञ्जिक-पलैः पिष्ट्वा ताम्रे निधापयेत् ।
पिल्लान् अ-पिल्लान् कुरुते बहु-वर्षोत्थितान् अपि ॥४९॥

तत् सेकेनोपदेहाश्रु-कण्डू-शोफांश् च नाशयेत् ।
करञ्ज-बीजं सुरसं सुमनः-कोरकाणि च ॥५०॥

१६.५० सुमनः-क्षारकाणि च संक्षुद्य साधयेत् क्वाथे पूते तत्र रस-क्रिया ।
अञ्जनं पिल्ल-भैषज्यं पक्ष्मणां च प्ररोहणम् ॥५१॥

रसाञ्जनं सर्ज-रसो रीति-पुष्पं मनःशिला ।
समुद्र-फेनो लवणं गैरिकं मरिचानि च ॥५२॥

१६.५२ जाती-पुष्पं मनःशिला १६.५२ समुद्र-फेनं लवणं अञ्जनं मधुना पिष्टं क्लेद-कण्डू-घ्नम् उत्तमम् ।
अभया-रस-पिष्टं वा तगरं पिल्ल-नाशनम् ॥५३॥

भावितं बस्त-मूत्रेण स-स्नेहं देवदारु च ।
सैन्धव-त्रि-फला-कृष्णा-कटुका-शङ्खनाभयः ॥५४॥

१६.५४ स-स्नेहं देवदारु वा स-ताम्र-रजसो वर्तिः पिल्ल-शुक्रक-नाशिनी ।
पुष्प-कासीस-चूर्णो वा सुरसा-रस-भावितः ॥५५॥

ताम्रे दशाहं तत् पैल्ल्य-पक्ष्म-शात-जिअञ्जनम् ॥५५ऊ̆अ॥
अलं च सौवीरकम् अञ्जनं च ताभ्यां समं ताम्र-रजः सु-सूक्ष्मम् ।
पिल्लेषु रोमाणि निषेवितो ऽसौ चूर्णः करोत्य् एक-शलाकयापि ॥५६॥

१६.५६ ताभ्यां समं ताम्र-रजश् च सूक्ष्मम् १६.५६ पिल्लेषु रोमाणि निषेवितो ऽयं लाक्षा-निर्गुण्डी-भृङ्ग-दार्वी-रसेन श्रेष्ठं कार्पासं भावितं सप्त-कृत्वः ।
दीपः प्रज्वाल्यः सर्पिषा तत्-समुत्था श्रेष्ठा पिल्लानां रोपणार्थे मषी सा ॥५७॥

१६.५७ श्रेष्ठा पिल्लानां रोपणार्थं मषी सा वर्त्मावलेखं बहु-शस् तद्-वछोणित-मोक्षणम् ॥५८अ॥
पुनः पुनर् विरेकं च नित्यम् आश्च्योतनाञ्जनम् ।
नावनं धूम-पानं च पिल्ल-रोगातुरो भजेत् ॥५९॥

पूयालसे त्व् अ-शान्ते ऽन्ते दाहः सूक्ष्म-शलाकया ।
चतुर्-णवतिर् इत्य् अक्ष्णो हेतु-लक्षण-साधनैः ॥६०॥

१६.६० पूयालसे त्व् अ-शान्ते तु १६.६० चतुर्-णवतिर् इत्य् अक्ष्णोर् परस्-परम् अ-संकीर्णाः कार्त्स्न्येन गदिता गदाः ।
सर्व-दा च निषेवेत स्वस्थो ऽपि नयन-प्रियः ॥६१॥

पुराण-यव-गोधूम-शालि-षष्टिक-कोद्रवान् ।
मुद्गादीन् कफ-पित्त-घ्नान् भूरि-सर्पिः-परिप्लुतान् ॥६२॥

शाकं चैवं-विधं मांसं जाङ्गलं दाडिमं सिताम् ।
सैन्धवं त्रि-फलां द्राक्षां वारि पाने च नाभसम् ॥६३॥

आतप-त्रं पद-त्राणं विधि-वदोष-शोधनम् ।
वर्जयेवेग-संरोधम् अ-जीर्णाध्यशनानि च ॥६४॥

१६.६४ अ-जीर्णाध्यशनादि च क्रोध-शोक-दिवा-स्वप्न-रात्रि-जागरणातपान् ।
विदाहि विष्टम्भ-करं यचेहाहार-भेषजम् ॥६५॥

१६.६५ -निशा-जागरणानि च १६.६५ विदाह-विष्टम्भ-करं १६.६५ ययआहार-भेषजम् १६.६५ विहाराहार-भेषजम् द्वे पाद-मध्ये पृथु-संनिवेशे सिरे गते ते बहु-धा च नेत्रे ।
ता म्रक्षणोद्वर्तन-लेपनादीन् पाद-प्रयुक्तान् नयने नयन्ति ॥६६॥

१६.६६ द्वे पाद-मध्ये पृथु-संनिविष्टे १६.६६ पाद-प्रयुक्तान् नयनं नयन्ति मलौष्ण्य-संघट्टन-पीडनाद्यैस् ता दूषयन्ते नयनानि दुष्टाः ।
भजेत् सदा दृष्टि-हितानि तस्माउपानद्-अभ्यञ्जन-धावनानि ॥६७॥

१६.६७ तलोष्ण-संघट्टन-पीडनाद्यैस् १६.६७ मृल्-लोष्ट-संघट्टन-पीडनाद्यैस्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:15.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बह्वंशीं

  • क्रि.वि. बहुतेक . [ बहु + अंशीं ] 
RANDOM WORD

Did you know?

Sarva namaskar havet.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site