उत्तरस्थान - अध्याय ९

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


कृच्छ्रोन्मीले पुराणाज्यं द्राक्षा-कल्काम्बु-साधितम् ।
स-सितं योजयेत् स्निग्धं नस्य-धूमाञ्जनादि च ॥१॥

कुम्भीका-वर्त्म-लिखितं सैन्धव-प्रतिसारितम् ।
यष्टी-धात्री-पटोलीनां क्वाथेन परिषेचयेत् ॥२॥

निवाते ऽधिष्ठितस्याप्तैः शुद्धस्योत्तान-शायिनः ।
बहिः कोष्णाम्बु-तप्तेन स्वेदितं वर्त्म वाससा ॥३॥

निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुली-घृतम् ।
न स्रंसते चलति वा वर्त्मैवं सर्वतस् ततः ॥४॥

९.४ न स्रंसते न चलति मण्डलाग्रेण तत् तिर्यक् कृत्वा शस्त्र-पदाङ्कितम् ।
लिखेत् तेनैव पत्त्रैर् वा शाक-शेफालिकादि-जैः ॥५॥

९.५ शाक-शेफालिकादिकैः ९.५ शाक-शेफालिकादिभिः फेनेन तोय-राशेर् वा पिचुना प्रमृजन्न् असृक् ।
स्थिते रक्ते सु-लिखितं स-क्षौद्रैः प्रतिसारयेत् ॥६॥

यथा-स्वम् उक्तैर् अनु च प्रक्षाल्योष्णेन वारिणा ।
घृतेन सिक्तम् अभ्यक्तं बध्नीयान् मधु-सर्पिषा ॥७॥

९.७ घृतेनासिक्तम् अभ्यक्तं ऊर्ध्वाधः कर्णयोर् दत्त्वा पिण्डीं च यव-सक्तुभिः ।
द्वितीये ऽहनि मुक्तस्य परिषेकं यथा-यथम् ॥८॥

कुर्याचतुर्थे नस्यादीन् मुञ्चेएवाह्नि पञ्चमे ।
समं नख-निभं शोफ-कण्डू-घर्षाद्य-पीडितम् ॥९॥

विद्यात् सु-लिखितं वर्त्म लिखेभूयो विपर्यये ।
रुक्-पक्ष्म-वर्त्म-सदन-स्रंसनान्य् अति-लेखनात् ॥१०॥

स्नेह-स्वेदादिकस् तस्मिन्न् इष्टो वात-हरः क्रमः ।
अभ्यज्य नव-नीतेन श्वेत-लोध्रं प्रलेपयेत् ॥११॥

एरण्ड-मूल-कल्केन पुट-पाके पचेत् ततः ।
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोटली-कृतम् ॥१२॥

स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्र-सेचनम् ।
शालि-तण्डुल-कल्केन लिप्तं तद्-वत् परिष्कृतम् ॥१३॥

९.१३ स्त्रियाः क्षीरे छागले वा कुर्यान् नेत्रे ऽति-लिखिते मृदितं दधि-मस्तुना ।
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः ॥१४॥

पिटिका व्रीहि-वक्त्रेण भित्त्वा तु कठिनोन्नताः ।
निष्पीडयेअनु विधिः परिशेषस् तु पूर्व-वत् ॥१५॥

९.१५ पिटिकां व्रीहि-वक्त्रेण ९.१५ भित्त्वा तु कठिनोन्नताम् लेखने भेदने चायं क्रमः सर्व-त्र वर्त्मनि ।
पित्तास्रोत्क्लिष्टयोः स्वादु-स्कन्ध-सिद्धेन सर्पिषा ॥१६॥

सिरा-विमोक्षः स्निग्धस्य त्रिवृछ्रेष्ठं विरेचनम् ।
लिखिते स्रुत-रक्ते च वर्त्मनि क्षालनं हितम् ॥१७॥

९.१७ त्रिवृछ्रेष्ठा विरेचने ९.१७ लिखिते निःसृते रक्ते यष्टी-कषायः सेकस् तु क्षीरं चन्दन-साधितम् ।
पक्ष्मणां सदने सूच्या रोम-कूपान् विकुट्टयेत् ॥१८॥

९.१८ यष्टी-क्वाथेन सेकस् तु ग्राहयेवा जलौकोभिः पयसेक्षु-रसेन वा ।
वमनं नावनं सर्पिः शृतं मधुर-शीतलैः ॥१९॥

संचूर्ण्य पुष्प-कासीसं भावयेत् सुरसा-रसैः ।
ताम्रे दशाहं परमं पक्ष्म-शाते तअञ्जनम् ॥२०॥

पोथकीर् लिखिताः शुण्ठी-सैन्धव-प्रतिसारिताः ।
उष्णाम्बु-क्षालिताः सिञ्चेत् खदिराढकि-शिग्रुभिः ॥२१॥

९.२१ पोथकीं लिखितं शुण्ठी- ९.२१ -सैन्धव-प्रतिसारिताम् ९.२१ उष्णाम्बु-क्षालितां सिञ्चेत् अप्-सिद्धैर् द्वि-निषा-श्रेष्ठा-मधुकैर् वा स-माक्षिकैः ।
कफोत्क्लिष्टे विलिखिते स-क्षौद्रैः प्रतिसारणम् ॥२२॥

सूक्ष्मैः सैन्धव-कासीस-मनोह्वा-कण-तार्क्ष्य-जैः ।
वमनाञ्जन-नस्यादि सर्वं च कफ-जिधितम् ॥२३॥

कर्तव्यं लगणे ऽप्य् एतअ-शान्ताव् अग्निना दहेत् ।
कुकूणे खदिर-श्रेष्ठा-निम्ब-पत्त्र-शृतं घृतम् ॥२४॥

९.२४ -निम्ब-पत्त्रैः शृतं घृतम् स्विन्नां भित्त्वा विनिष्पीड्य भिषग् अञ्जन-नामिकाम् ।
शिलैला-सैन्धव-नतैः स-क्षौद्रैः प्रतिसारयेत् ॥२४.१-१-॥
९.२४.१-१-अव् स्विन्नां भित्त्वा विनिष्पीड्योत्ं ९.२४.१-१-ब्व् ंसङ्गां चाञ्जन-नामिकाम् पीत्वा धात्री वमेत् कृष्णा-यष्टी-सर्षप-सैन्धवैः ।
अभया-पिप्पली-द्राक्षा-क्वाथेनैनां विरेचयेत् ॥२५॥

मुस्ता-द्वि-रजनी-कृष्णा-कल्केनालेपयेत् स्तनौ ।
धूपयेत् सर्षपैः साज्यैः शुद्धां क्वाथं च पाययेत् ॥२६॥

पटोल-मुस्त-मृद्वीका-गुडूची-त्रि-फलोद्भवम् ।
शिशोस् तु लिखितं वर्त्म स्रुतासृग् वाम्बु-जन्मभिः ॥२७॥

धात्र्य्-अश्मन्तक-जम्बूत्थ-पत्त्र-क्वाथेन सेचयेत् ।
प्रायः क्षीर-घृताशि-त्वाबालानां श्लेष्म-जा गदाः ॥२८॥

तस्मावमनम् एवाग्रे सर्व-व्याधिषु पूजितम् ।
सिन्धूत्थ-कृष्णापामार्ग-बीजाज्य-स्तन्य-माक्षिकम् ॥२९॥

चूर्णो वचायाः स-क्षौद्रो मदनं मधुकान्वितम् ।
क्षीरं क्षीरान्नम् अन्नं च भजतः क्रमतः शिशोः ॥३०॥

९.३० भजतः क्रम-शः शिशोः वमनं सर्व-रोगेषु विशेषेण कुकूणके ।
सप्तला-रस-सिद्धाज्यं योज्यं चोभय-शोधनम् ॥३१॥

द्वि-निशा-लोध्र-यष्ट्य्-आह्व-रोहिणी-निम्ब-पल्लवैः ।
कुकूणके हिता वर्तिः पिष्टैस् ताम्र-रजो-ऽन्वितैः ॥३२॥

क्षीर-क्षौद्र-घृतोपेतं दग्धं वा लोह-जं रजः ।
एला-लशुन-कतक-शङ्खोषण-फणिज्जकैः ॥३३॥

९.३३ दग्धं वा लोध्र-जं रजः वर्तिः कुकूण-पोथक्योः सुरा-पिष्टैः स-कट्फलैः ।
पक्ष्म-रोधे प्रवृद्धेषु शुद्ध-देहस्य रोमसु ॥३४॥

उत्सृज्य द्वौ भ्रुवो ऽधस्-ताभागौ भागं च पक्ष्मतः ।
यव-मात्रं यवाकारं तिर्यक् छित्त्वार्द्र-वाससा ॥३५॥

अपनेयम् असृक् तस्मिन्न् अल्पी-भवति शोणिते ।
सीव्येत् कुटिलया सूच्या मुद्ग-मात्रान्तरैः पदैः ॥३६॥

बद्ध्वा ललाटे पट्टं च तत्र सीवन-सूत्रकम् ।
नाति-गाढ-श्लथं सूच्या निक्षिपेअथ योजयेत् ॥३७॥

मधु-सर्पिः-कवलिकां न चास्मिन् बन्धम् आचरेत् ।
न्यग्रोधादि-कषायैश् च स-क्षीरैः सेचयेरुजि ॥३८॥

पञ्चमे दिवसे सूत्रम् अपनीयावचूर्णयेत् ।
गैरिकेण व्रणं युञ्ज्यात् तीक्ष्णं नस्याञ्जनादि च ॥३९॥

९.३९ तीक्ष्ण-नस्याञ्जनादि च ९.३९ तीक्ष्ण-नस्याञ्जनानि च ९.३९ तीक्ष्णं नस्याञ्जनानि च दहेअ-शान्तौ निर्भुज्य वर्त्म-दोषाश्रयां वलीम् ।
संदंशेनाधिकं पक्ष्म हृत्वा तस्याश्रयं दहेत् ॥४०॥

सूच्य्-अग्रेणाग्नि-वर्णेन दाहो बाह्यालजेः पुनः ।
भिन्नस्य क्षार-वह्निभ्यां सु-च्छिन्नस्यार्बुदस्य च ॥४१॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP