TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ५

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ५
भूतं जयेअ-हिंसेच्छं जप-होम-बलि-व्रतैः ।
तपः-शील-समाधान-दान-ज्ञान-दयादिभिः ॥१॥

५.१ भूतं जयेअ-हिंसोत्थं ५.१ तपः-शील-समाध्यान- हिङ्गु-व्योषाल-नेपाली-लशुनार्क-जटा-जटाः ।
अजलोमी स-गोलोमी भूतकेशी वचा लता ॥२॥

५.२ -लशुनार्क-जटामयाः ५.२ भूतकेशी-वचा-लताः ५.२ भूतकेशी वचा बला कुक्कुटी सर्पगन्धाख्या तिलाः काण-विकाणिके ।
वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्ल्य् अपि ॥३॥

५.३ तिलाः काल-विकाणिके ५.३ तिलाः काण-विषाणिके ५.३ तथा काण-विकाणिके ५.३ वज्रप्रोक्ता वयःस्था वा स्रोतो-जाञ्जन-रक्षोघ्नं रक्षो-घ्नं चान्यऔषधम् ।
खराश्व-श्वाविद्-उष्ट्रर्क्ष-गोधा-नकुल-शल्यकात् ॥४॥

५.४ -गोधा-नकुल-मत्स्यकात् द्वीपि-मार्जार-गो-सिंह-व्याघ्र-सामुद्र-सत्-त्वतः ।
चर्म-पित्त-द्वि-ज-नखा वर्गे ऽस्मिन् साधयेघृतम् ॥५॥

पुराणम् अथ-वा तैलं नवं तत् पान-नस्ययोः ।
अभ्यङ्गे च प्रयोक्तव्यम् एषां चूर्णं च धूपने ॥६॥

एभिश् च गुटिकां युञ्ज्याअञ्जने सावपीडने ।
प्रलेपे कल्कम् एतेषां क्वाथं च परिषेचने ॥७॥

५.७ अञ्जने सावपीडके प्रयोगो ऽयं ग्रहोन्मादान् सापस्माराञ् छमं नयेत् ।
गजाह्वा-पिप्पली-मूल-व्योषामलक-सर्षपान् ॥८॥

गोधा-नकुल-मार्जार-झष-पित्त-प्रपेषितान् ।
नावनाभ्यङ्ग-सेकेषु विदधीत ग्रहापहान् ॥९॥

५.९ -शश-पित्त-प्रपेषितान् ५.९ -ऋक्ष-पित्त-प्रपेषितान् सिद्धार्थक-वचा-हिङ्गु-प्रियङ्गु-रजनी-द्वयम् ।
मञ्जिष्ठा श्वेत-कटभी वरा श्वेताद्रिकर्णिका ॥१०॥

५.१० मञ्जिष्ठा-श्वेत-कटभी- ५.१० -वरा-श्वेताद्रिकर्णिकाः निम्बस्य पत्त्रं बीजं तु नक्तमाल-शिरीषयोः ।
सुराह्वं त्र्य्-ऊषणं सर्पिर् गो-मूत्रे तैश् चतुर्-गुणे ॥११॥

५.११ गो-मूत्रे च चतुर्-गुणे सिद्धं सिद्धार्थकं नाम पाने नस्ये च योजितम् ।
ग्रहान् सर्वान् निहन्त्य् आशु विशेषाआसुरान् ग्रहान् ॥१२॥

कृत्या-लक्ष्मी-विषोन्माद-ज्वरापस्मार-पाप्म च ।
एभिर् एवौषधैर् बस्त-वारिणा कल्पितो ऽ-गदः ॥१३॥

५.१३ -ज्वरापस्मार-पाप्म-नुत् पान-नस्याञ्जनालेप-स्नानोद्घर्षण-योजितः ।
गुणैः पूर्व-वउद्दिष्टो राज-द्वारे च सिद्धि-कृत् ॥१४॥

५.१४ स गुणैः पूर्व-वदिष्टो सिद्धार्थक-व्योष-वचाश्वगन्धा निशा-द्वयं हिङ्गु-पलाण्डु-कन्दः ।
बीजं करञ्जात् कुसुमं शिरीषात् फलं च वल्कं च कपित्थ-वृक्षात् ॥१५॥

५.१५ निशा-द्वयं हिङ्गु-पलाण्डु-कन्दम् ५.१५ फलं च कल्कश् च कपित्थ-वृक्षात् ५.१५ फलं च पुष्पं च कपित्थ-वृक्षात् ५.१५ फलं च वल्कश् च कपित्थ-वृक्षात् स-माणिमन्थं स-नतं स-कुष्ठं श्योणाक-मूलं किणिही सिता च ।
बस्तस्य मूत्रेण सु-भावितं तत् पित्तेन गव्येन गुडान् विदध्यात् ॥१६॥

दुष्ट-व्रणोन्माद-तमो-निशान्धान् उद्बन्धकान् वारि-निमग्न-देहान् ।
दिग्धाहतान् दर्पित-सर्प-दष्टांस् ते साधयन्त्य् अञ्जन-नस्य-लेपैः ॥१७॥

५.१७ दुष्ट-व्रणोन्माद-तमो-निशान्ध्यम् ५.१७ उद्बद्धकान् वारि-निमग्न-देहान् ५.१७ तान् साधयन्त्य् अञ्जन-नस्य-लेपैः ५.१७ ते साधयन्त्य् अञ्जन-पान-लेपैः कार्पासास्थि-मयूर-पत्त्र-बृहती-निर्माल्य-पिण्डीतक-॥१८॥
५.१८ कार्पासास्थि-मयूर-पिच्छ-बृहती-निर्माल्य-पिण्डीतक- -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोककैः ॥१८॥
५.१८ -त्वग्-वांशी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः ५.१८ -त्वग्-वांशी-वृष-दंश-विण्-नख-वचा-केशाहि-निर्मोचनैः ५.१८ -त्वङ्-मांसी-वृष-दंश-विट्-तुष-वचा-केशाहि-निर्मोचनैः नागेन्द्र-द्वि-ज-शृङ्ग-हिङ्गु-मरिचैस् तुल्यैः कृतं धूपनं ॥१८॥
स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ज्वर-घ्नं परम् ॥१८॥
५.१८ स्कन्दोन्माद-पिशाच-राक्षस-सुरावेश-ग्रह-घ्नं परम् त्रि-कटुक-दल-कुङ्कुम-ग्रन्थिक-क्षार-सिंही-निशा-दारु-सिद्धार्थ-युग्माम्बु-शक्राह्व् अयैः ॥१९॥
सित-लशुन-फल-त्रयोशीर-तिक्ता-वचा-तुत्थ-यष्टी-बला-लोहितैला-शिला-पद्मकैः ॥१९॥
दधि-तगर-मधूक-सार-प्रियाह्वा-विषाख्या-विषा-तार्क्ष्य-शैलैः स-चव्यामयैः कल्कितैः ॥१९॥
घृतम् अ-नवम् अ-शेष-मूत्रांश-सिद्धं मतं भूत-रावाह्वयं पानतस् तग्रह-घ्नं परम् ॥१९॥

नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटली-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी-॥२०॥
५.२० नत-मधुक-करञ्ज-लाक्षा-पटोली-समङ्गा-वचा-पाटला-हिङ्गु-सिद्धार्थ-सिंही-निशा-युग् -लता-रोहिणी-
-बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बु देन्द्राह्वयैः ॥२०॥
५.२० -बदर-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२० -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२० मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धा-सुराङ्कोल्ल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः ५.२० -मदन-कटु-फल-त्रिका-काण्ड-दारु-कृमिघ्नाजगन्धामृता-कोल-कोशातकी-शिग्रु-निम्बा म्बुदेन्द्राह्वयैः गद-शुकतरु-पुष्प-बीजोग्र-यष्ट्य्-अद्रिकर्णी-निकुम्भाग्नि-बिल्वैः समैः कल्कितैर् मूत्र-वर्गेण सिद्धं घृतं ॥२०॥
विधि-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् ॥२०॥
५.२० विधि-वन् निहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत- रावं स्मृतम् ५.२० चिर-विनिहितम् आशु सर्वैः क्रमैर् योजितं हन्ति सर्व-ग्रहोन्माद-कुष्ठ-ज्वरांस् तन् महा-भूत-रावं स्मृतम् ग्रहा गृह्णन्ति ये येषु तेषां तेषु विशेषतः ।
दिनेषु बलि-होमादीन् प्रयुञ्जीत चिकित्सकः ॥२१॥

स्नान-वस्त्र-वसा-मांस-मद्य-क्षीर-गुडादि च ।
रोचते ययदा येभ्यस् तत् तेषाम् आहरेत् तदा ॥२२॥

५.२२ स्नानं वस्त्रं वसा मांसं ५.२२ मद्यं क्षीर-गुडानि वा रत्नानि गन्ध-माल्यानि बीजानि मधु-सर्पिषी ।
भक्ष्याश् च सर्वे सर्वेषां सामान्यो विधिर् इत्य् अयम् ॥२३॥

५.२३ रक्तानि गन्ध-माल्यानि ५.२३ भक्षाश् च सर्वे सर्वेषां सुरर्षि-गुरु-वृद्धेभ्यः सिद्धेभ्यश् च सुरालये ।
दिश्य् उत्तरस्यां तत्रापि देवायोपहरेबलिम् ॥२४॥

पश्चिमायां यथा-कालं दैत्य-भूताय चत्वरे ।
गन्धर्वाय गवां मार्गे स-वस्त्राभरणं बलिम् ॥२५॥

पितृ-नाग-ग्रहे नद्यां नागेभ्यः पूर्व-दक्षिणे ।
यक्षाय यक्षायतने सरितोर् वा समागमे ॥२६॥

५.२६ पितृ-नाम-ग्रहे नद्यां चतुष्-पथे राक्षसाय भीमेषु गहनेषु च ।
रक्षसां दक्षिणस्यां तु पूर्वस्यां ब्रह्म-रक्षसाम् ॥२७॥

५.२७ भीमेषु गहनेषु वा शून्यालये पिशाचाय पश्चिमां दिशम् आस्थिते ।
शुचि-शुक्लानि माल्यानि गन्धाः क्षैरेयम् ओदनम् ॥२८॥

५.२८ पश्चिमां दिशम् आश्रिते ५.२८ पश्चिमायां दिशि स्थिते दधि च्छत्त्रं च धवलं देवानां बलिर् इष्यते ।
हिङ्गु-सर्षप-षड्ग्रन्था-व्योषैर् अर्ध-पलोन्मितैः ॥२९॥

चतुर्-गुणे गवां मूत्रे घृत-प्रस्थं विपाचयेत् ।
तत्-पान-नावनाभ्यङ्गैर् देव-ग्रह-विमोक्षणम् ॥३०॥

नस्याञ्जनं वचा-हिङ्गु-लशुनं बस्त-वारिणा ।
दैत्ये बलिर् बहु-फलः सोशीर-कमलोत्पलः ॥३१॥

५.३१ नस्याञ्जने वचा-हिङ्गु- नागानां सुमनो-लाज-गुडापूप-गुडौदनैः ।
परमान्न-मधु-क्षीर-कृष्ण-मृन्-नागकेसरैः ॥३२॥

वचा-पद्म-पुरोशीर-रक्तोत्पल-दलैर् बलिः ।
श्वेतपत्त्रं च लोध्रं च तगरं नाग-सर्षपाः ॥३३॥

५.३३ वचा-पाठा-पुरोशीर- शीतेन वारिणा पिष्टं नावनाञ्जनयोर् हितम् ।
यक्षाणां क्षीर-दध्य्-आज्य-मिश्रकौदन-गुग्गुलु ॥३४॥

देवदारूत्पलं पद्मं उशीरं वस्त्र-काञ्चनम् ।
हिरण्यं च बलिर् योज्यो मूत्राज्य-क्षीरम् एकतः ॥३५॥

५.३५ उशीरं वस्त्र-चन्दनम् ५.३५ उशीरं वस्त्र-कम्बलम् सिद्धं समोन्मितं पान-नावनाभ्यञ्जने हितम् ।
हरीतकी हरिद्रे द्वे लशुनो मरिचं वचा ॥३६॥

५.३६ सिद्धं पलोन्मितं पान- निम्ब-पत्त्रं च बस्ताम्बु-कल्कितं नावनाञ्जनम् ।
ब्रह्म-रक्षो-बलिः सिद्धं यवानां पूर्णम् आढकम् ॥३७॥

५.३७ यवानां चूर्णम् आढकम् तोयस्य कुम्भः पललं छत्त्रं वस्त्रम् विलेपनम् ।
गायत्री-विंशति-पल-क्वाथे ऽर्ध-पलिकैः पचेत् ॥३८॥

५.३८ तोय-कुम्भं च पललं त्र्य्-ऊषण-त्रि-फला-हिङ्गु-षड्ग्रन्था-मिशि-सर्षपैः ।
स-निम्ब-पत्त्र-लशुनैः कुडवान् सप्त सर्पिषः ॥३९॥

गो-मूत्रे त्रि-गुणे पान-नस्याभ्यङ्गेषु तधितम् ।
रक्षसां पललं शुक्लं कुसुमं मिश्रकौदनम् ॥४०॥

५.४० गो-मूत्रे त्रि-गुणे सिद्धं ५.४० पानाभ्यङ्गेषु तधितम् ५.४० कुसुमं मिश्रकौदनः बलिः पक्वाम-मांसानि निष्पावा रुधिरोक्षिताः ।
नक्तमाल-शिरीष-त्वङ्-मूल-पुष्प-फलानि च ॥४१॥

५.४१ -मूलं पुष्पं फलानि च ५.४१ -मूले पुष्पं फलानि च तद्-वच कृष्ण-पाटल्या बिल्व-मूलं कटु-त्रिकम् ।
हिङ्ग्व्-इन्द्रयव-सिद्धार्थ-लशुनामलकी-फलम् ॥४२॥

नावनाञ्जनयोर् योज्यो बस्त-मूत्र-युतो ऽ-गदः ।
एभिर् एव घृतं सिद्धं गवां मूत्रे चतुर्-गुणे ॥४३॥

५.४३ बस्त-मूत्र-हृतो ऽ-गदः ५.४३ बस्त-मूत्र-द्रुतो ऽ-गदः रक्षो-ग्रहान् वारयते पानाभ्यञ्जन-नावनैः ।
पिशाचानां बलिः सीधुः पिण्याकः पललं दधि ॥४४॥

मूलकं लवणं सर्पिः स-भूतौदन-यावकम् ।
हरिद्रा-द्वय-मञ्जिष्ठा-मिशि-सैन्धव-नागरम् ॥४५॥

५.४५ प्रभूतौदन-यावकम् ५.४५ प्राग्-भूतौदन-यावकम् ५.४५ -मिशि-सैन्धव-नागरैः हिङ्गु-प्रियङ्गु-त्रि-कटु-लशुन-त्रि-फला वचा ।
पाटली-श्वेत-कटभी-शिरीष-कुसुमैर् घृतम् ॥४६॥

५.४६ -लशुन-त्रि-फला-वचाः ५.४६ पटोली-श्वेत-कटभी- ५.४६ पाटला-श्वेत-कटभी- गो-मूत्र-पादिकं सिद्धं पानाभ्यञ्जनयोर् हितम् ।
बस्ताम्बु-पिष्टैस् तैर् एव योज्यम् अञ्जन-नावनम् ॥४७॥

देवर्षि-पितृ-गन्धर्वे तीक्ष्णं नस्यादि वर्जयेत् ।
सर्पिः-पानादि मृद्व् अस्मिन् भैषज्यम् अवचारयेत् ॥४८॥

ऋते पिशाचात् सर्वेषु प्रतिकूलं च नाचरेत् ।
स-वैद्यम् आतुरं घ्नन्ति क्रुद्धास् ते हि महौजसः ॥४९॥

ईश्वरं द्वा-दश-भुजं नाथम् आर्यावलोकितम् ।
सर्व-व्याधि-चिकित्सां च जपन् सर्व-ग्रहान् जयेत् ॥५०॥

५.५० सर्व-व्याधि-चिकित्सन्तं ५.५० सर्व-व्याधि-चिकित्सं च ५.५० सर्व-व्याधि-चिकित्सितं तथोन्मादान् अपस्मारान् अन्यं वा चित्त-विप्लवम् ।
महा-विद्यां च मायूरीं शुचिं तं श्रावयेत् सदा ॥५१॥

५.५१ अन्यान् वा चित्त-विभ्रमान् ५.५१ शुचिस् तं श्रावयेत् सदा भूतेशं पूजयेत् स्थाणुं प्रमथाख्यांश् च तद्-गणान् ।
जपन् सिद्धांश् च तन्-मन्त्रान् ग्रहान् सर्वान् अपोहति ॥५२॥

यचान्-अन्तरयोः किञ्-चिवक्ष्यते ऽध्याययोर् हितम् ।
यचोक्तम् इह तत् सर्वं प्रयुञ्जीत परस्-परम् ॥५३॥

५.५३ यथोक्तम् इह तत् सर्वं

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:11.3770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मार-मार देणें

  • जिंकणें. 
  • एखाद्यास चोपणें, ठोकणें. 
RANDOM WORD

Did you know?

घर के मंदिर में कौनसी बातों का ध्यान रखना चाहिये?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site