TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ३

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३
पुरा गुहस्य रक्षार्थं निर्मिताः शूल-पाणिना ।
मनुष्य-विग्रहाः पञ्च सप्त स्त्री-विग्रहा ग्रहाः ॥१॥

स्कन्दो विशाखो मेषाख्यः श्व-ग्रहः पितृ-संज्ञितः ।
शकुनिः पूतना शीत-पूतना-दृष्टि-पूतना ॥२॥

३.२ स्कन्दो विशाखो मेषास्यः मुख-मण्डितिका तद्-वरेवती शुष्क-रेवती ।
तेषां ग्रहीष्यतां रूपं प्रततं रोदनं ज्वरः ॥३॥

३.३ मुख-मण्डनिका तद्-व३.३ मुख-मण्डिनिका तद्-वसामान्यं रूपम् उत्त्रास-जृम्भा-भ्रू-क्षेप-दीन-ताः ।
फेन-स्रावोर्ध्व-दृष्ट्य्-ओष्ठ-दन्त-दंश-प्रजागराः ॥४॥

३.४ -जृम्भा-भ्रूत्क्षेप-दीन-ताः रोदनं कूजनं स्तन्य-विद्वेषः स्वर-वैकृतम् ।
नखैर् अ-कस्मात् परितः स्व-धात्र्य्-अङ्ग-विलेखनम् ॥५॥

तत्रैक-नयन-स्रावी शिरो विक्षिपते मुहुः ।
हतैक-पक्षः स्तब्धाङ्गः स-स्वेदो नत-कन्धरः ॥६॥

३.६ शिरो विक्षेपते मुहुः ३.६ शिरो विक्षिप्यते मुहुः दन्त-खादी स्तन-द्वेषी त्रस्यन् रोदिति वि-स्वरम् ।
वक्र-वक्त्रो वमन् लालां भृशम् ऊर्ध्वं निरीक्षते ॥७॥

३.७ त्रसन् रोदिति वि-स्वरम् ३.७ वक्र-वक्त्रो वमेल् लालां वसासृग्-गन्धिर् उद्विग्नो बद्ध-मुष्टि-शकृछिशुः ।
चलितैकाक्षि-गण्ड-भ्रूः संरक्तोभय-लोचनः ॥८॥

स्कन्दार्तस् तेन वैकल्यं मरणं वा भवेध्रुवम् ।
संज्ञा-नाशो मुहुः केश-लुञ्चनं कन्धरा-नतिः ॥९॥

३.९ मरणं वा भवेद्रुतम् ३.९ संज्ञा-नाशो भवेत् केश- विनम्य जृम्भमाणस्य शकृन्-मूत्र-प्रवर्तनम् ।
फेनोद्वमनम् ऊर्ध्वेक्षा हस्त-भ्रू-पाद-नर्तनम् ॥१०॥

स्तन-स्व-जिह्वा-संदंश-संरम्भ-ज्वर-जागराः ।
पूय-शोणित-गन्धश् च स्कन्दापस्मार-लक्षणम् ॥११॥

आध्मानं पाणि-पादस्य स्पन्दनं फेन-निर्वमः ।
तृण्-मुष्टि-बन्धातीसार-स्वर-दैन्य-वि-वर्ण-ताः ॥१२॥

३.१२ आध्मानं पाणि-पादास्य- ३.१२ -स्पन्दनं फेन-निर्वमः ३.१२ स्पन्दनं फेन-निर्गमः ३.१२ स्पन्दनं हननं भ्रमः कूजनं स्तननं छर्दिः कास-हिध्मा-प्रजागराः ।
ओष्ठ-दंशाङ्ग-संकोच-स्तम्भ-बस्ताभ-गन्ध-ताः ॥१३॥

३.१३ कूजनं श्वसनं छर्दिः ३.१३ कूजनं स्तम्भनं छर्दिः ३.१३ कूजनं स्वननं छर्दिः ऊर्ध्वं निरीक्ष्य हसनं मध्ये विनमनं ज्वरः ।
मूर्छैक-नेत्र-शोफश् च नैगमेष-ग्रहाकृतिः ॥१४॥

कम्पो हृषित-रोम-त्वं स्वेदश् चक्षुर्-निमीलनम् ।
बहिर्-आयामनं जिह्वा-दंशो ऽन्तः-कण्ठ-कूजनम् ॥१५॥

३.१५ कम्पो हर्षित-रोम-त्वं धावनं विट्-स-गन्ध-त्वं क्रोशनं च श्व-वछुनि ।
रोम-हर्षो मुहुस् त्रासः सहसा रोदनं ज्वरः ॥१६॥

३.१६ क्रोशनं श्वान-वछुनि ३.१६ रोम-हर्षो मुहुः श्वासः कासातीसार-वमथु-जृम्भा-तृट्-शव-गन्ध-ताः ।
अङ्गेष्व् आक्षेप-विक्षेप-शोष-स्तम्भ-वि-वर्ण-ताः ॥१७॥

मुष्टि-बन्धः स्रुतिश् चाक्ष्णोर् बालस्य स्युः पितृ-ग्रहे ।
स्रस्ताङ्ग-त्वम् अतीसारो जिह्वा-तालु-गले व्रणाः ॥१८॥

स्फोटाः स-दाह-रुक्-पाकाः संधिषु स्युः पुनः पुनः ।
निश्य् अह्नि प्रविलीयन्ते पाको वक्त्रे गुदे ऽपि वा ॥१९॥

भयं शकुनि-गन्ध-त्वं ज्वरश् च शकुनि-ग्रहे ।
पूतनायां वमिः कम्पस् तन्द्रा रात्रौ प्रजागरः ॥२०॥

हिध्माध्मानं शकृद्-भेदः पिपासा मूत्र-निग्रहः ।
स्रस्त-हृष्टाङ्ग-रोम-त्वं काक-वत् पूति-गन्धि-ता ॥२१॥

शीत-पूतनया कम्पो रोदनं तिर्यग्-ईक्षणम् ।
तृष्णान्त्र-कूजो ऽतीसारो वसा-वविस्र-गन्ध-ता ॥२२॥

पार्श्वस्यैकस्य शीत-त्वम् उष्ण-त्वम् अपरस्य च ।
अन्ध-पूतनया छर्दिर् ज्वरः कासो ऽल्प-निद्र-ता ॥२३॥

३.२३ ज्वरः कासो ऽल्प-वह्नि-ता वर्चसो भेद-वैवर्ण्य-दौर्गन्ध्यान्य् अङ्ग-शोषणम् ।
दृष्टेः सादाति-रुक्-कण्डू-पोथकी-जन्म-शून-ताः ॥२४॥

३.२४ दृष्टि-प्रसादो रुक्-कण्डू- ३.२४ दृष्टि-सादो ऽक्षि-रुक्-कण्डू- ३.२४ दृष्टि-सादो ऽति-रुक् कण्डूः ३.२४ दृष्टि-सादो ऽति-रुक्-कण्डू- ३.२४ दृष्टेः सादो ऽक्षि-रुक्-कण्डू- ३.२४ पोथकी-जन्म शून-ता ३.२४ -पोथकी-जन्म शून-ता ३.२४ -पोथकी-जन्म शून्य-ता हिध्मोद्वेग-स्तन-द्वेष-वैवर्ण्य-स्वर-तीक्ष्ण-ताः ।
वेपथुर् मत्स्य-गन्ध-त्वम् अथ-वा साम्ल-गन्ध-ता ॥२५॥

३.२५ -वैवर्ण्यं स्वर-तीक्ष्ण-ता ३.२५ वमथुर् मत्स्य-गन्ध-त्वम् मुख-मण्डितया पाणि-पादास्य-रमणीय-ता ।
सिराभिर् असिताभाभिर् आचितोदर-ता ज्वरः ॥२६॥

३.२६ मुख-मण्डिकया पाणि- ३.२६ -पादस्य रमणीय-ता अ-रोचको ऽङ्ग-ग्लपनं गो-मूत्र-सम-गन्ध-ता ।
रेवत्यां श्याव-नील-त्वं कर्ण-नासाक्षि-मर्दनम् ॥२७॥

३.२७ रेवत्या श्याव-नील-त्वं कास-हिध्माक्षि-विक्षेप-वक्र-वक्त्र-त्व-रक्त-ताः ।
बस्त-गन्धो ज्वरः शोषः पुरीषं हरितं द्रवम् ॥२८॥

जायते शुष्क-रेवत्यां क्रमात् सर्वाङ्ग-संक्षयः ।
केश-शातो ऽन्न-विद्वेषः स्वर-दैन्यं वि-वर्ण-ता ॥२९॥

३.२९ जायते शुष्क-रेवत्या नाना-वर्ण-पुरीष-त्वम् उदरे ग्रन्थयः सिराः ॥२९-१अ॥
रोदनं गृध्र-गन्ध-त्वं दीर्घ-कालानुवर्तनम् ।
उदरे ग्रन्थयो वृत्ता यस्य नाना-विधं शकृत् ॥३०॥

जिह्वाया निम्न-ता मध्ये श्यावं तालु च तं त्यजेत् ।
भुञ्जानो ऽन्नं बहु-विधं यो बालः परिहीयते ॥३१॥

३.३१ जिह्वायां निम्न-ता मध्ये तृष्णा-गृहीतः क्षामाक्षो हन्ति तं शुष्क-रेवती ।
हिंसा-रत्य्-अर्चनाकाङ्क्षा ग्रह-ग्रहण-कारणम् ॥३२॥

तत्र हिंसात्मके बालो महान् वा स्रुत-नासिकः ।
क्षत-जिह्वः क्वणेबाढम् अ-सुखी साश्रु-लोचनः ॥३३॥

३.३३ क्षत-जिह्वः क्वणन् बाढम् ३.३३ क्षत-जिह्वः क्वणेगाढम् ३.३३ क्षत-जिह्वो वमेबाढम् ३.३३ अ-सुखी सास्र-लोचनः दुर्-वर्णो हीन-वचनः पूति-गन्धिश् च जायते ।
क्षामो मूत्र-पुरीषं स्वं मृद्नाति न जुगुप्सते ॥३४॥

३.३४ पूति-गन्धिस् तु जायते ३.३४ गृह्णाति न जुगुप्सते हस्तौ चोद्यम्य संरब्धो हन्त्य् आत्मानं तथा परम् ।
तद्-वच शस्त्र-काष्ठाद्यैर् अग्निं वा दीप्तम् आविशेत् ॥३५॥

३.३५ हस्तौ चोद्यम्य संक्रुद्धो अप्सु मज्जेत् पतेत् कूपे कुर्याअन्यच तद्-विधम् ।
तृड्-दाह-मोहान् पूयस्य च्छर्दनं च प्रवर्तयेत् ॥३६॥

३.३६ तृड्-दाह-मोहाः पूयस्य रक्तं च सर्व-मार्गेभ्यो रिष्टोत्पत्तिं च तं त्यजेत् ।
रहः-स्त्री-रति-संलाप-गन्ध-स्रग्-भूषण-प्रियः ॥३७॥

३.३७ रिष्टोत्पत्तिश् च तं त्यजेत् हृष्टः शान्तश् च दुः-साध्यो रति-कामेन पीडितः ।
दीनः परिमृशन् वक्त्रं शुष्कौष्ठ-गल-तालुकः ॥३८॥

३.३८ दीनः परिमृशेवक्त्रं शङ्कितं वीक्षते रौति ध्यायत्य् आयाति दीन-ताम् ।
अन्नम् अन्नाभिलाषे ऽपि दत्तं नाति बुभुक्षते ॥३९॥

गृहीतं बलि-कामेन तं विद्यात् सुख-साधनम् ।
हन्तु-कामं जयेधोमैः सिद्ध-मन्त्र-प्रवर्तितैः ॥४०॥

३.४० गृहीतं मह-कामेन इतरौ तु यथा-कामं रति-बल्य्-आदि-दानतः ।
अथ साध्य-ग्रहं बालं विविक्ते शरणे स्थितम् ॥४१॥

त्रिर् अह्नः सिक्त-संमृष्टे सदा संनिहितानले ।
विकीर्ण-भूति-कुसुम-पत्त्र-बीजान्न-सर्षपे ॥४२॥

३.४२ त्रिर् अह्नं सिक्त-संमृष्टे ३.४२ त्रिर् अह्नः सिक्त-संसृष्टे ३.४२ त्रिर् अह्नि सिक्त-संमृष्टे ३.४२ त्रिर् अह्नि सिक्त-संसृष्टे ३.४२ विकीर्ण-भूरि-कुसुम- रक्षो-घ्न-तैल-ज्वलित-प्रदीप-हत-पाप्मनि ।
व्यवाय-मद्य-पिशित-निवृत्त-परिचारके ॥४३॥

३.४३ -प्रदीपे हत-पाप्मनि पुराण-सर्पिषाभ्यक्तं परिषिक्तं सुखाम्बुना ।
साधितेन बला-निम्ब-वैजयन्ती-नृपद्रुमैः ॥४४॥

पारिभद्रक-कट्वङ्ग-जम्बू-वरुण-कट्तृणैः ।
कपोतवङ्कापामार्ग-पाटला-मधु-शिग्रुभिः ॥४५॥

३.४५ -पाटली-मधुशिग्रुभिः ३.४५ -मालती-मधुशिग्रुभिः काकजङ्घा-महाश्वेता-कपित्थ-क्षीरि-पादपैः ।
स-कदम्ब-करञ्जैश् च धूपं स्नातस्य चाचरेत् ॥४६॥

३.४६ -कपित्थ-क्षीर-पादपैः द्वीपि-व्याघ्राहि-सिंहर्क्ष-चर्मभिर् घृत-मिश्रितैः ।
पूति-दशाङ्ग-सिद्धार्थ-वचा-भल्लात-दीप्यकैः ॥४७॥

३.४७ पूति-दशाङ्गी-सिद्धार्थ- स-कुष्ठैः स-घृतैर् धूपः सर्व-ग्रह-विमोक्षणः ।
सर्षपा निम्ब-पत्त्राणि मूलम् अश्वखुरा वचा ॥४८॥

३.४८ स-कुष्ठैः साधितो धूपः ३.४८ मूत्रम् अश्वखुरा वचा ३.४८ मूलम् अश्वखुरं वचा भूर्ज-पत्त्रं घृतं धूपः सर्व-ग्रह-निवारणः ।
अनन्ताम्रास्थि-तगरं मरिचं मधुरो गणः ॥४९॥

३.४९ सर्व-ग्रह-निबर्हणः ३.४९ अनन्ताम्रास्थि-तगर- ३.४९ -मरिचं मधुरो गणः शृगालविन्ना मुस्ता च कल्कितैस् तैर् घृतं पचेत् ।
दश-मूल-रस-क्षीर-युक्तं तग्रह-जित् परम् ॥५०॥

रास्ना-द्व्य्-अंशुमती-वृद्ध-पञ्च-मूल-बला-घनात् ।
क्वाथे सर्पिः पचेत् पिष्टैः शारिवा-व्योष-चित्रकैः ॥५१॥

३.५१ रास्ना-द्व्य्-अंशुमती-पत्त्र- ३.५१ रास्ना-द्व्य्-अंशुमती-लोध्र- ३.५१ -पञ्च-मूल-वचा-घनात् पाठा-विडङ्ग-मधुक-पयस्या-हिङ्गु-दारुभिः ।
स-ग्रन्थिकैः सेन्द्रयवैः शिशोस् तत् सततं हितम् ॥५२॥

३.५२ शिशोस् तु सततं हितम् सर्व-रोग-ग्रह-हरं दीपनं बल-वर्ण-दम् ।
शारिवा-सुरभि-ब्राह्मी-शङ्खिनी-कुष्ठ-सर्षपैः ॥५३॥

३.५३ दीपनं बल-वर्धनम् ३.५३ -शङ्खिनी-कृष्ण-सर्षपैः वचाश्वगन्धा-सुरस-युक्तैः सर्पिर् विपाचयेत् ।
तन् नाशयेग्रहान् सर्वान् पानेनाभ्यञ्जनेन च ॥५४॥

३.५४ वचाश्वगन्धा-सुरसा- गो-शृङ्ग-चर्म-वालाहि-निर्मोकं वृष-दंश-विट् ।
निम्ब-पत्त्राज्य-कटुका-मदनं बृहती-द्वयम् ॥५५॥

३.५५ गो-शृङ्ग-चर्म-वालास्थि- ३.५५ गो-शृङ्ग-रोम-वालाहि- कार्पासास्थि-यव-च्छाग-रोम-देवाह्व-सर्षपम् ।
मयूर-पत्त्र-श्रीवासं तुष-केशं स-रामठम् ॥५६॥

३.५६ कार्पासास्थि-यव-वचा- ३.५६ कार्पासास्थि-वचा-बिल्व- ३.५६ कार्पासास्थि-वचा-लोध्र- ३.५६ मयूर-पिच्छ-श्रीवास- ३.५६ मयूर-पिच्छ-श्रीवासं ३.५६ -लोध्र-देवाह्व-सर्षपम् ३.५६ -देवाह्वं यव-सर्षपम् ३.५६ मयूर-पत्त्र-श्रीवास- ३.५६ -नर-केशं स-रामठम् मृद्-भाण्डे बस्त-मूत्रेण भावितं श्लक्ष्ण-चूर्णितम् ।
धूपनं च हितं सर्व-भूतेषु विषम-ज्वरे ॥५७॥

३.५७ धूपनार्थं हितं सर्व- घृतानि भूत-विद्यायां वक्ष्यन्ते यानि तानि च ।
युञ्ज्यात् तथा बलिं होमं स्नपनं मन्त्र-तन्त्र-वित् ॥५८॥

पूति-करञ्ज-त्वक्-पत्त्रं क्षीरिभ्यो बर्बराअपि ।
तुम्बी-विशालारलुक-शमी-बिल्व-कपित्थतः ॥५९॥

३.५९ पूति-करञ्ज-त्वक्-पत्त्र- ३.५९ पूति-करञ्जात् त्वक्-पत्त्रं ३.५९ -क्षीरिभ्यो वेदराअपि ३.५९ -मूलेभ्यो बर्बराअपि ३.५९ -मूलेभ्यो वर्धराअपि ३.५९ -शमी-बिल्व-कपित्थकम् उत्क्वाथ्य तोयं तरात्रौ बालानां स्नपनं शिवम् ।
अनुबन्धान् यथा-कृच्छ्रं ग्रहापाये ऽप्य् उपद्रवान् ॥६०॥

३.६० ग्रह-व्यापद्य् उपद्रवान् बालामय-निषेधोक्त-भेषजैः समुपाचरेत् ॥६०ऊ̆अ॥
३.६०ऊ̆ब्व् -भैषज्यैः समुपाचरेत्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:11.0330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कछवा

  • स्त्री. ( संगीत ) एक सतार ; यांतील भोपळा कासवाच्या पाठीसारखा असून क्वचित लांकडी असतो . तारांची संख्या , तारा मिळविण्याची पद्धति , पडदे वगैरे सर्व बाबी सतारी . सारख्याच असतात . यांतहि रागदारीच्या व लयकारीच्या गती वाजवितात . ( सं . कच्छ ) 
RANDOM WORD

Did you know?

Is there any reference in Vedas or puranas for eating non-veg food?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.