TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय २०

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २०
सर्वेषु पीनसेष्व् आदौ निवातागार-गो भजेत् ।
स्नेहन-स्वेद-वमन-धूम-गण्डूष-धारणम् ॥१॥

२०.१ निवातागार-गो भवेत् वासो गुरूष्णं शिरसः सु-घनं परिवेष्टनम् ।
लघ्व्-अम्ल-लवणं स्निग्धम् उष्णं भोजनम् अ-द्रवम् ॥२॥

२०.२ लघ्व्-अम्ल-लवण-स्निग्धम् २०.२ लघ्व् अम्लं लवणं स्निग्धम् धन्व-मांस-गुड-क्षीर-चणक-त्रि-कटूत्कटम् ।
यव-गोधूम-भूयिष्ठं दधि-दाडिम-सारिकम् ॥३॥

२०.३ दधि-दाडिम-साधितम् बाल-मूलक-जो यूषः कुलत्थोत्थश् च पूजितः ।
कवोष्णं दश-मूलाम्बु जीर्णां वा वारुणीं पिबेत् ॥४॥

जिघ्रेचोरक-तर्कारी-वचाजाज्य्-उपकुञ्चिकाः ।
व्योष-तालीश-चविका-तिन्तिडीकाम्ल-वेतसम् ॥५॥

मनःशिला-विडङ्गाल-वचा-त्रि-कटु-हिङ्गुभिः ।
चूर्णी-कृत्य समाघ्रातः प्रतिश्यायो विनश्यति ॥५.१-१॥

तद्-वदोरक-वल्ल्य्-एला-लवा-तार्क्ष्य-द्वि-जीरकैः ॥५.१-२अ॥
साग्न्य्-अजाजि द्वि-पलिकं त्वग्-एला-पत्त्र-पादिकम् ।
जीर्णागुडात् तुलार्धेन पक्वेन वटकी-कृतम् ॥६॥

पीनस-श्वास-कास-घ्नं रुचि-स्वर-करं परम् ।
शताह्वा-त्वग्-बला मूलं श्योणाकैरण्ड-बिल्व-जम् ॥७॥

सारग्वधं पिबेधूमं वसाज्य-मदनान्वितम् ।
अथ-वा स-घृतान् सक्तून् कृत्वा मल्लक-संपुटे ॥८॥

त्यजेत् स्नानं शुचं क्रोधं भृशं शय्यां हिमं जलम् ।
पिबेवात-प्रतिश्याये सर्पिर् वात-घ्न-साधितम् ॥९॥

पटु-पञ्चक-सिद्धं वा विदार्य्-आदि-गणेन वा ।
स्वेद-नस्यादिकां कुर्यात् चिकित्साम् अर्दितोदिताम् ॥१०॥

पित्त-रक्तोत्थयोः पेयं सर्पिर् मधुरकैः शृतम् ।
परिषेकान् प्रदेहांश् च शीतैः कुर्वीत शीतलान् ॥११॥

धव-त्वक्-त्रि-फला-श्यामा-श्रीपर्णी-यष्टि-तिल्वकैः ।
क्षीरे दश-गुणे तैलं नावनं स-निशैः पचेत् ॥१२॥

२०.१२ -श्रीपर्णी-यष्टि-बिल्वकैः कफ-जे लङ्घनं लेपः शिरसो गौर-सर्षपैः ।
स-क्षारं वा घृतम् पीत्वा वमेत् पिष्टैस् तु नावनम् ॥१३॥

२०.१३ स-क्षारं च घृतं पीत्वा २०.१३ स-क्षारं तु घृतं पीत्वा बस्ताम्बुना पटु-व्योष-वेल्ल-वत्सक-जीरकैः ।
कटु-तीक्ष्णैर् घृतैर् नस्यैः कवडैः सर्व-जं जयेत् ॥१४॥

यक्ष्म-कृमि-क्रमं कुर्वन् यापयेदुष्ट-पीनसम् ।
व्योषोरुबूक-कृमिजिद्-दारु-माद्री-गदेङ्गुदम् ॥१५॥

२०.१५ यक्ष्म-कृमि-क्रमं कुर्यात् २०.१५ -दारु-माद्र्य्-अम्बुदेङ्गुदम् वार्ताक-बीजं त्रिवृता सिद्धार्थः पूति-मत्स्यकः ।
अग्निमन्थस्य पुष्पाणि पीलु-शिग्रु-फलानि च ॥१६॥

अश्व-विड्-रस-मूत्राभ्यां हस्ति-मूत्रेण चैकतः ।
क्षौम-गर्भां कृतां वर्तिं धूमं घ्राणास्यतः पिबेत् ॥१७॥

क्षवथौ पुटकाख्ये च तीक्ष्णैः प्रधमनं हितम् ।
शुण्ठी-कुष्ठ-कणा-वेल्ल-द्राक्षा-कल्क-कषाय-वत् ॥१८॥

साधितं तैलम् आज्यं वा नस्यं क्षव-पुट-प्रणुत् ।
नासा-शोषे बला-तैलं पानादौ भोजनं रसैः ॥१९॥

स्निग्धो धूमस् तथा स्वेदो नासानाहे ऽप्य् अयं विधिः ।
पाके दीप्तौ च पित्त-घ्नं तीक्ष्णं नस्यादि संस्रुतौ ॥२०॥

२०.२० तीक्ष्णं नस्यादि शस्यते कफ-पीनस-वत् पूति-नासा-पीनसयोः क्रिया ।
लाक्षा-करञ्ज-मरिच-वेल्ल-हिङ्गु-कणा-गुडैः ॥२१॥

अवि-मूत्र-द्रुतैर् नस्यं कारयेवमने कृते ।
शिग्रु-सिंही-निकुम्भानां बीजैः स-व्योष-सैन्धवैः ॥२२॥

स-वेल्ल-सुरसैस् तैलं नावनं परमं हितम् ।
पूय-रक्ते नवे कुर्यारक्त-पीनस-वत् क्रमम् ॥२३॥

२०.२३ रक्त-पीनस-वत् क्रियाम् अति-प्रवृद्धे नाडी-वदग्धेष्व् अर्शो-ऽर्बुदेषु च ।
निकुम्भ-कुम्भ-सिन्धूत्थ-मनोह्वाल-कणाग्निकैः ॥२४॥

२०.२४ दग्धेष्व् अर्शो-ऽर्बुदेषु तु कल्कितैर् घृत-मध्व्-अक्तां घ्राणे वर्तिं प्रवेशयेत् ।
शिग्र्व्-आदि-नावनं चात्र पूति-नासोदितं भजेत् ॥२५॥

२०.२५ कल्कितैर् घृत-मध्व्-आक्तां

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:15.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

standing balance

  • स्थितिक संतुलन 
  • (also static balance) 
RANDOM WORD

Did you know?

जननशांतीचे महत्व स्पष्ट करा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.