TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ६

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ६
उन्मादाः षट् पृथग्-दोष-निचयाधि-विषोद्भवाः ।
उन्मादो नाम मनसो दोषैर् उन्मार्ग-गैर् मदः ॥१॥

शारीर-मानसैर् दुष्टैर् अ-हिताअन्न-पानतः ।
विकृता-सात्म्य-स-मलाविषमाउपयोगतः ॥२॥

६.२ शारीर-मानसैर् दोषैर् ६.२ विकृता-सात्म्य-स-मल- ६.२ -विषमाउपयोगतः विषण्णस्याल्प-सत्-त्वस्य व्याधि-वेग-समुद्गमात् ।
क्षीणस्य चेष्टा-वैषम्यात् पूज्य-पूजा-व्यतिक्रमात् ॥३॥

६.३ व्याधि-वेग-समुद्भवात् ६.३ व्याधि-वेग-समुद्भ्रमात् आधिभिर् चित्त-विभ्रंशाविषेणोपविषेण च ।
एभिर् हि हीन-सत्-त्वस्य हृदि दोषाः प्रदूषिताः ॥४॥

६.४ विषेणोपविषेण वा ६.४ एभिर् विहीन-सत्-त्वस्य धियो विधाय कालुष्यं हृत्वा मार्गान् मनो-वहान् ।
उन्मादं कुर्वते तेन धी-विज्ञान-स्मृति-भ्रमात् ॥५॥

देहो दुःख-सुख-भ्रष्टो भ्रष्ट-सारथि-वरथः ।
भ्रमत्य् अ-चिन्तितारम्भस् तत्र वातात् कृशाङ्ग-ता ॥६॥

६.६ देही दुःख-सुख-भ्रष्टो अ-स्थाने रोदनाक्रोश-हसित-स्मित-नर्तनम् ।
गीत-वादित्र-वाग्-अङ्ग-विक्षेपास्फोटनानि च ॥७॥

अ-साम्ना वेणु-वीणादि-शब्दानुकरणं मुहुः ।
आस्यात् फेनागमो ऽजस्रम् अटनं बहु-भाषि-ता ॥८॥

६.८ अभीक्ष्णं वेणु-वीणादि- ६.८ आस्येन वेणु-वीणादि- ६.८ -शब्दादि-करणं मुहुः ६.८ अटनं बहु-भाषितम् अलङ्कारो ऽन्-अलङ्कारैर् अ-यानैर् गमनोद्यमः ।
गृद्धिर् अभ्यवहार्येषु तल्-लाभे चावमान-ता ॥९॥

६.९ तल्-लाभे वावमान-ता ६.९ तल्-लाभेष्व् अवमान-ता उत्पिण्डितारुणाक्षि-त्वं जीर्णे चान्ने गदोद्भवः ।
पित्तात् संतर्जनं क्रोधो मुष्टि-लोष्टाद्य्-अभिद्रवः ॥१०॥

६.१० उत्पीडितारुणाक्षि-त्वं शीत-च्छायोदकाकाङ्क्षा नग्न-त्वं पीत-वर्ण-ता ।
अ-सत्य-ज्वलन-ज्वाला-तारका-दीप-दर्शनम् ॥११॥

६.११ नेत्र-त्वक्-पीत-वर्ण-ता ६.११ अ-सति ज्वलने ज्वाला- ६.११ अ-सत्य-ज्वलनोल्कादि- कफाअ-रोचकश् छर्दिर् अल्पेहाहार-वाक्य-ता ।
स्त्री-काम-ता रहः-प्रीतिर् लाला-सिङ्घाणक-स्रुतिः ॥१२॥

बैभत्स्यं शौच-विद्वेषो निद्रा श्वयथुर् आनने ।
उन्मादो बल-वान् रात्रौ भुक्त-मात्रे च जायते ॥१३॥

सर्वायतन-संस्थान-संनिपाते तद्-आत्मकम् ।
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्जयेत् ॥१४॥

६.१४ -संनिपातात् तद्-आत्मकम् धन-कान्तादि-नाशेन दुः-सहेनाभिषङ्ग-वान् ।
पाण्डुर् दीनो मुहुर् मुह्यन् हाहेति परिदेवते ॥१५॥

रोदित्य् अ-कस्मान् म्रियते तद्-गुणान् बहु मन्यते ।
शोक-क्लिष्ट-मना ध्यायञ् जागरूको विचेष्टते ॥१६॥

६.१६ रोदित्य् अ-कस्मात् स्मयते विषेण श्याव-वदनो नष्ट-च्छाया-बलेन्द्रियः ।
वेगान्तरे ऽपि संभ्रान्तो रक्ताक्षस् तं विवर्जयेत् ॥१७॥

६.१७ नष्ट-च्छायो ऽ-बलेन्द्रियः अथानिल-ज उन्मादे स्नेह-पानं प्रयोजयेत् ।
पूर्वम् आवृत-मार्गे तु स-स्नेहं मृदु शोधनम् ॥१८॥

कफ-पित्त-भवे ऽप्य् आदौ वमनं स-विरेचनम् ।
स्निग्ध-स्विन्नस्य वस्तिं च शिरसः स-विरेचनम् ॥१९॥

६.१९ कफ-पित्तोद्भवे ऽप्य् आदौ ६.१९ स्निग्ध-स्विन्नस्य वस्तींश् च ६.१९ शिरसश् च विरेचनम् तथास्य शुद्ध-देहस्य प्रसादं लभते मनः ।
इत्थम् अप्य् अनुवृत्तौ तु तीक्ष्णं नावनम् अञ्जनम् ॥२०॥

६.२० तथैव शुद्ध-देहस्य हर्षणाश्वासनोत्त्रास-भय-ताडन-तर्जनम् ।
अभ्यङ्गोद्वर्तनालेप-धूपान् पानं च सर्पिषः ॥२१॥

६.२१ -धूमान् पानं च सर्पिषः युञ्ज्यात् तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः ।
हिङ्गु-सौवर्चल-व्योषैर् द्वि-पलांशैर् घृताढकम् ॥२२॥

सिद्धं स-मूत्रम् उन्माद-भूतापस्मार-नुत् परम् ।
द्वौ प्रस्थौ स्व-रसाब्राह्म्या घृत-प्रस्थं च साधितम् ॥२३॥

व्योष-श्यामा-त्रिवृद्-दन्ती-शङ्खपुष्पी-नृपद्रुमैः ।
स-सप्तला-कृमिहरैः कल्कितैर् अक्ष-संमितैः ॥२४॥

६.२४ व्योष-श्यामा-त्रिवृद्-बिम्बी- ६.२४ सातला-कृमिजित्-कल्कैः ६.२४ सर्वैस् तैर् अक्ष-संमितैः पल-वृद्ध्या प्रयुञ्जीत परं मात्रा चतुः-पलम् ।
उन्माद-कुष्ठापस्मार-हरं वन्ध्या-सुत-प्रदम् ॥२५॥

वाक्-स्वर-स्मृति-मेधा-कृधन्यं ब्राह्मी-घृतं स्मृतम् ।
वरा-विशाला-भद्रैला-देवदार्व्-एलवालुकैः ॥२६॥

६.२६ वरा-विशालाकौत्पला- ६.२६ वरा-विशाला-पत्त्रैला- द्वि-शारिवा-द्वि-रजनी-द्वि-स्थिरा-फलिनी-नतैः ।
बृहती-कुष्ठ-मञ्जिष्ठा-नागकेसर-दाडिमैः ॥२७॥

वेल्ल-तालीश-पत्त्रैला-मालती-मुकुलोत्पलैः ।
स-दन्ती-पद्मक-हिमैः कर्षांशैः सर्पिषः पचेत् ॥२८॥

६.२८ -मालती-कुमुदोत्पलैः ६.२८ रुदन्ती-पद्मक-हिमैः प्रस्थं भूत-ग्रहोन्माद-कासापस्मार-पाप्मसु ।
पाण्डु-कण्डू-विषे शोषे मोहे मेहे गरे ज्वरे ॥२९॥

६.२९ -कासापस्मार-पाप्म-जित् ६.२९ पाण्डु-कण्डू-विषे शोफे अ-रेतस्य् अ-प्रजसि वा दैवोपहत-चेतसि ।
अ-मेधसि स्खलद्-वाचि स्मृति-कामे ऽल्प-पावके ॥३०॥

६.३० अ-रेतस्य् अल्प-रजसि बल्यं मङ्गल्यम् आयुष्यं कान्ति-सौभाग्य-पुष्टि-दम् ।
कल्याणकम् इदं सर्पिः श्रेष्ठं पुं-सवनेषु च ॥३१॥

एभ्यो द्वि-शारिवादीनि जले पक्त्वैक-विंशतिम् ।
रसे तस्मिन् पचेत् सर्पिर् गृष्टि-क्षीर-चतुर्-गुणम् ॥३२॥

६.३२ गृष्टि-क्षीरे चतुर्-गुणे ६.३२ गृष्टि-क्षीरं चतुर्-गुणम् वीरा-द्वि-मेदा-काकोली-कपिकच्छू-विषाणिभिः ।
शूर्पपर्णी-युतैर् एतन् महा-कल्याणकं परम् ॥३३॥

६.३३ वीरर्द्धि-मेदा-काकोली- ६.३३ महा-कल्याणकं स्मृतम् बृंहणं संनिपात-घ्नं पूर्वस्माअधिकं गुणैः ।
जटिला पूतना केशी चारटी मर्कटी वचा ॥३४॥

त्रायमाणा जया वीरा चोरकः कटु-रोहिणी ।
वयःस्था शूकरी छत्त्रा सातिच्छत्त्रा पलङ्कषा ॥३५॥

६.३५ अतिच्छत्त्रा पलङ्कषा महापुरुषदन्ता च कायस्था नाकुली-द्वयम् ।
कटम्भरा वृश्चिकाली शालिपर्णी च तैर् घृतम् ॥३६॥

६.३६ कटम्भरा-वृश्चिकाली- ६.३६ -स्थिराश् चाहृत्य तैर् घृतम् सिद्धं चातुर्थिकोन्माद-ग्रहापस्मार-नाशनम् ।
महा-पैशाचकं नाम घृतम् एतयथामृतम् ॥३७॥

६.३७ सिद्धं चतुर्थकोन्माद- ६.३७ सिद्धं चातुर्थकोन्माद- बुद्धि-मेधा-स्मृति-करं बालानां चाङ्ग-वर्धनम् ।
ब्राह्मीम् ऐन्द्रीं विडङ्गानि व्योषं हिङ्गु जटां मुराम् ॥३८॥

६.३८ स्मृति-बुद्धि-करं चैव ६.३८ बालानाम् अङ्ग-वर्धनम् रास्नां विषघ्नां लशुनं विशल्यां सुरसां वचाम् ।
ज्योतिष्मतीं नागविन्नाम् अनन्तां स-हरीतकीम् ॥३९॥

६.३९ रास्नां विषघ्नीं लशुनं काङ्क्षीं च हस्ति-मूत्रेण पिष्ट्वा छाया-विशोषीता ।
वर्तिर् नस्याञ्जनालेप-धूपैर् उन्माद-सूदनी ॥४०॥

६.४० काच्छीं च हस्ति-मूत्रेण ६.४० सौराष्ट्रीं बस्त-मूत्रेण ६.४० -धूपैर् उन्माद-नाशिनी अवपीडाश् च विविधाः सर्षपाः स्नेह-संयुताः ।
कटु-तैलेन चाभ्यङ्गो ध्मापयेचास्य तरजः ॥४१॥

स-हिङ्गुस् तीक्ष्ण-धूमश् च सूत्र-स्थानोदितो हितः ।
शृगाल-शल्यकोलूक-जलौका-वृष-बस्त-जैः ॥४२॥

६.४२ स-हिङ्गु तीक्ष्ण-धूमश् च ६.४२ -जलूका-वृष-बस्त-जैः ६.४२ -जलौका-वृक-बस्त-जैः मूत्र-पित्त-शकृद्-रोम-नख-चर्मभिर् आचरेत् ।
धूप-धूमाञ्जनाभ्यङ्ग-प्रदेह-परिषेचनम् ॥४३॥

धूपयेत् सततं चैनं श्व-गो-मत्स्यैः सु-पूतिभिः ।
वात-श्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥४४॥

तिक्तकं जीवनीयं च सर्पिः स्नेहश् च मिश्रकः ।
शीतानि चान्न-पानानि मधुराणि लघूनि च ॥४५॥

विध्येत् सिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।
निवाते शाययेएवं मुच्यते मति-विभ्रमात् ॥४६॥

६.४६ विध्येत् सिरां यथोक्तां च प्रक्षिप्या-सलिले कूपे शोषयेवा बुभुक्षया ।
आश्वासयेत् सुहृत् तं वा वाक्यैर् धर्मार्थ-संहितैः ॥४७॥

६.४७ आश्वासयेत् सुहृद्भिस् तं ब्रूयाइष्ट-विनाशं वा दर्शयेअद्भुतानि वा ।
बद्धं सर्षप-तैलाक्तं न्यसेवोत्तानम् आतपे ॥४८॥

६.४८ ब्रूयाइष्टस्य नाशं वा ६.४८ न्यस्तं चोत्तानम् आतपे कपिकच्छ्वाथ-वा तप्तैर् लोह-तैल-जलैः स्पृशेत् ।
कशाभिस् ताडयित्वा वा बद्धं श्वभ्रे विनिःक्षिपेत् ॥४९॥

६.४९ बद्ध्वा श्वभ्रे विनिःक्षिपेत् अथ-वा वीत-शस्त्राश्म-जने संतमसे गृहे ।
सर्पेणोद्धृत-दंष्ट्रेण दान्तैः सिंहैर् गजैश् च तम् ॥५०॥

त्रासयेछस्त्र-हस्तैर् वा किराताराति-तस्करैः ॥५०-१-अ॥
६.५०-१-ब्व् तस्करैः शत्रुभिस् तथा अथ-वा राज-पुरुषा बहिर् नीत्वा सु-संयतम् ।
भापयेयुर् वधेनैनं तर्जयन्तो नृपाज्ञया ॥५१॥

देह-दुःख-भयेभ्यो हि परं प्राण-भयं मतम् ।
तेन याति शमं तस्य सर्वतो विप्लुतं मनः ॥५२॥

६.५२ सर्वतो ऽपसृतं मनः सिद्धा क्रिया प्रयोज्येयं देश-कालाद्य्-अपेक्षया ।
इष्ट-द्रव्य-विनाशात् तु मनो यस्योपहन्यते ॥५३॥

६.५३ सिद्धाः क्रिया प्रयोक्तव्या तस्य तत्-सदृश-प्राप्ति-सान्त्वाश्वासैः शमं नयेत् ।
काम-शोक-भय-क्रोध-हर्षेर्ष्या-लोभ-संभवान् ॥५४॥

६.५४ तस्य तत्-सदृश-प्राप्तिः ६.५४ -सान्त्वाश्वासैः प्रसादयेत् ६.५४ -प्रियाश्वासैः प्रदर्शयेत् ६.५४ सान्त्वाश्वासैः शमं नयेत् परस्-पर-प्रति-द्वन्द्वैर् एभिर् एव शमं नयेत् ।
भूतानुबन्धम् ईक्षेत प्रोक्त-लिङ्गाधिकाकृतिम् ॥५५॥

६.५५ भूतानुबद्धम् ईक्षेत यद्य् उन्मादे ततः कुर्याभूत-निर्दिष्टम् औषधम् ।
बलिं च दद्यात् पललं यावकं सक्तु-पिण्डिकाम् ॥५६॥

६.५६ यद्य् उन्मादे च तत् कुर्यास्निग्धं मधुरम् आहारं तण्डुलान् रुधिरोक्षितान् ।
पक्वामकानि मांसानि सुरां मैरेयम् आसवम् ॥५७॥

६.५७ पक्वामाह्वानि मांसानि ६.५७ सुरा-मैरेयम् आसवम् अतिमुक्तस्य पुष्पाणि जात्याः सहचरस्य च ।
चतुष्-पथे गवां तीर्थे नदीनां संगमेषु च ॥५८॥

निवृत्तामिष-मद्यो यो हिताशी प्रयतः शुचिः ।
निजागन्तुभिर् उन्मादैः सत्-त्व-वान् न स युज्यते ॥५९॥

६.५९ निवृत्तामिष-मद्यो ऽपि प्रसाद इन्द्रियार्थानां बुद्ध्य्-आत्म-मनसां तथा ।
धातूनां प्रकृति-स्थ-त्वं विगतोन्माद-लक्षणम् ॥६०॥

६.६० इन्द्रियाणां प्रसन्न-त्वं ६.६० गतोन्मादस्य लक्षणम्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:11.7430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

hundredth

  • पु. शतांश 
RANDOM WORD

Did you know?

’ श्रीदुर्गासप्तशती’ ग्रंथातील कांही मंत्र जीवनातील संकटे दूर करतात काय? असे कोणते मंत्र आहेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.