TransLiteral Foundation

उत्तरस्थान - अध्याय ३१

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३१
स्निग्धा स-वर्णा ग्रथिता नी-रुजा मुद्ग-संनिभा ।
पिटिका कफ-वाताभ्यां बालानाम् अजगल्लिका ॥१॥

३१.१ स्निग्धाः स-वर्णा ग्रथिता ३१.१ पिटिकाः कफ-वाताभ्यां ३१.१ नी-रुजा मुद्ग-संमिता ३१.१ नी-रुजा मुद्ग-संनिभाः यव-प्रख्या यव-प्रख्या ताभ्यां मांसाश्रिता घना ।
अ-वक्त्रा चालजी वृत्ता स्तोक-पूया घनोन्नता ॥२॥

३१.२ यव-प्रख्या यवाकारा ३१.२ अ-वक्त्राश् चालजी-वृत्ताः ३१.२ स्तोक-पूया घनोन्नताः ग्रन्थयः पञ्च वा षड् वा कच्छपी कच्छपोन्नताः ।
कर्णस्योर्ध्वं समन्तावा पिटिका कठिनोग्र-रुक् ॥३॥

३१.३ कच्छपी कच्छपोन्नता शालूकाभा पनसिका शोफस् त्व् अल्प-रुजः स्थिरः ।
हनु-संधि-समुद्भूतस् ताभ्यां पाषाण-गर्दभः ॥४॥

शाल्मली-कण्टकाकाराः पिटिकाः स-रुजो घनाः ।
मेदो-गर्भा मुखे यूनां ताभ्यां च मुख-दूषिकाः ॥५॥

३१.५ ताभ्यां च मुख-दूषकाः ते पद्म-कण्टका ज्ञेया यैः पद्मम् इव कण्टकैः ।
चीयते नी-रुजैः श्वेतैः शरीरं कफ-वात-जैः ॥६॥

पित्तेन पिटिका वृत्ता पक्वोदुम्बर-संनिभा ।
महा-दाह-ज्वर-करी विवृता विवृतानना ॥७॥

गात्रेष्व् अन्तश् च वक्त्रस्य दाह-ज्वर-रुजान्विताः ।
मसूर-मात्रास् तद्-वर्णास् तत्-संज्ञाः पिटिका घनाः ॥८॥

ततः कष्ट-तराः स्फोटा विस्फोटाख्या महा-रुजाः ।
या पद्म-कर्णिकाकारा पिटिका पिटिकाचिता ॥९॥

सा विद्धा वात-पित्ताभ्यां ताभ्याम् एव च गर्दभी ।
मण्डला विपुलोत्सन्ना स-राग-पिटिकाचिता ॥१०॥

कक्षेति कक्षासन्नेषु प्रायो देशेषु सानिलात् ।
पित्ताभवन्ति पिटिकाः सूक्ष्मा लाजोपमा घनाः ॥११॥

३१.११ सूक्ष्मा जालोपमा घनाः तादृशी महती त्व् एका गन्ध-नामेति कीर्तिता ।
घर्म-स्वेद-परीते ऽङ्गे पिटिकाः स-रुजो घनाः ॥१२॥

राजीका-वर्ण-संस्थान-प्रमाणा राजिकाह्वयाः ।
दोषैः पित्तोल्बणैर् मन्दैर् विसर्पति विसर्प-वत् ॥१३॥

शोफो ऽ-पाकस् तनुस् ताम्रो ज्वर-कृज् जाल-गर्दभः ।
मलैः पित्तोल्बणैः स्फोटा ज्वरिणो मांस-दारणाः ॥१४॥

३१.१४ ज्वरिणो मांस-दारुणाः ३१.१४ ज्वरिणो मांस-दारिणः कक्षा-भागेषु जायन्ते ये ऽग्न्य्-आभाः साग्नि-रोहिणी ।
पञ्चाहात् सप्त-रात्रावा पक्षावा हन्ति जीवितम् ॥१५॥

त्रि-लिङ्गा पिटिका वृत्ता जत्रूर्ध्वम् इरिवेल्लिका ।
विदारी-कन्द-कठिना विदारी कक्ष-वङ्क्षणे ॥१६॥

मेदो-ऽनिल-कफैर् ग्रन्थिः स्नायु-मांस-सिराश्रयैः ।
भिन्नो वसाज्य-मध्व्-आभं स्रवेत् तत्रोल्बणो ऽनिलः ॥१७॥

मांसं विशोष्य ग्रथितां शर्करां उपपादयेत् ।
दुर्-गन्धं रुधिरं क्लिन्नं नाना-वर्णं ततो मलाः ॥१८॥

३१.१८ दुर्-गन्धि रुधिरं क्लिन्नं तां स्रावयन्ति निचितां विद्यात् तछर्करार्बुदम् ।
पाणि-पाद-तले संधौ जत्रूर्ध्वं वोपचीयते ॥१९॥

३१.१९ तां स्रावयन्ति निचिता ३१.१९ जत्रूर्ध्वं चोपचीयते वल्मीक-वछनैर् ग्रन्थिस् तद्-वबह्व्-अणुभिर् मुखैः ।
रुग्-दाह-कण्डू-क्लेदाढ्यैर् वल्मीको ऽसौ समस्त-जः ॥२०॥

३१.२० रुग्-दाह-कण्डू-क्लेदाढ्यो शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।
ग्रन्थिः कील-वउत्सन्नो जायते कदरं तु तत् ॥२१॥

वेग-संधारणावायुर् अपानो ऽपान-संश्रयम् ।
अणू-करोति बाह्यान्तर्-मार्गम् अस्य ततः शकृत् ॥२२॥

३१.२२ अपानो ऽपान-संश्रयः कृच्छ्रान् निर्गच्छति व्याधिर् अयं रुद्ध-गुदो मतः ।
कुर्यात् पित्तानिलं पाकं नख-मांसे स-रुग्-ज्वरम् ॥२३॥

चिप्यम् अ-क्षत-रोगं च विद्याउप-नखं च तम् ।
कृष्णो ऽभिघातारूक्षश् च खरश् च कु-नखो नखः ॥२४॥

३१.२४ विद्याउप-नखं च तत् दुष्ट-कर्दम-संस्पर्शात् कण्डू-क्लेदान्वितान्तराः ।
अङ्गुल्यो ऽलसम् इत्य् आहुस् तिलाभांस् तिल-कालकान् ॥२५॥

कृष्णान् अ-वेदनांस् त्वक्-स्थान् माषांस् तान् एव चोन्नतान् ।
मषेभ्यस् तून्नत-तरांश् चर्म-कीलान् सितासितान् ॥२६॥

तथा-विधो जतु-मणिः सह-जो लोहितस् तु सः ।
कृष्णं सितं वा सह-जं मण्डलं लाञ्छनं समम् ॥२७॥

३१.२७ स-रुजो लोहितस् तु सः शोक-क्रोधादि-कुपितावात-पित्तान् मुखे तनु ।
श्यामलं मण्डलं व्यङ्गं वक्त्राअन्य-त्र नीलिका ॥२८॥

परुषं परुष-स्पर्शं व्यङ्गं श्यावं च मारुतात् ।
पित्तात् ताम्रान्तम् आ-नीलं श्वेतान्तं कण्डु-मत् कफात् ॥२९॥

३१.२९ पित्तात् ताम्रं तथा नीलं ३१.२९ श्वेताभं कण्डु-मत् कफात् रक्तारक्तान्तम् आ-ताम्रं सौषं चिमिचिमायते ।
वायुनोदीरितः श्लेष्मा त्वचं प्राप्य विशुष्यति ॥३०॥

३१.३० मुखं चिमिचिमायते ततस् त्वग् जायते पाण्दुः क्रमेण च वि-चेतना ।
अल्प-कण्डूर् अ-विक्लेदा सा प्रसुप्तिः प्रसुप्तितः ॥३१॥

३१.३१ अल्प-कण्डूर् अप-क्लेदा अ-सम्यग्-वमनोदीर्ण-पित्त-श्लेष्मान्न-निग्रहैः ।
मण्डलान्य् अति-कण्डूनि राग-वन्ति बहूनि च ॥३२॥

उत्कोठः सो ऽनुबद्धस् तु कोठ इत्य् अभिधीयते ।
प्रोक्ताः षट्-त्रिंशइत्य् एते क्षुद्र-रोगा विभाग-शः ॥३३॥

३१.३३ उत्कोठः सो ऽनुबन्धस् तु यान् अ-विज्ञाय मुह्येत चिकित्सायां चिकित्सकः ॥३३-१-अ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:17.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

multi agency approach

  • बहु एजेंसीअभिकरण दृष्टिकोण 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site