TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ३७

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३७
सर्पाणाम् एव विण्-मूत्र-शुक्राण्ड-शव-कोथ-जाः ।
दोषैर् व्यस्तैः समस्तैश् च युक्ताः कीटाश् चतुर्-विधाः ॥१॥

दष्टस्य कीटैर् वायव्यैर् दंशस् तोद-रुजोल्बणः ।
आग्नेयैर् अल्प-संस्रावो दाह-राग-विसर्प-वान् ॥२॥

पक्व-पीलु-फल-प्रख्यः खर्जूर-सदृशो ऽथ-वा ।
कफाधिकैर् मन्द-रुजः पक्वोदुम्बर-संनिभः ॥३॥

स्रावाढ्यः सर्व-लिङ्गस् तु विवर्ज्यः सांनिपातिकैः ।
वेगाश् च सर्प-वछोफो वर्धिष्णुर् विस्र-रक्त-ता ॥४॥

३७.४ विवर्ज्यः सांनिपातिकः शिरो-ऽक्षि-गौरवं मूर्छा भ्रमः श्वासो ऽति-वेदना ।
सर्वेषां कर्णिका शोफो ज्वरः कण्डूर् अ-रोचकः ॥५॥

३७.५ भ्रमः श्वासो ऽति-वेदनाः वृश्चिकस्य विषं तीक्ष्णम् आदौ दहति वह्नि-वत् ।
ऊर्ध्वम् आरोहति क्षिप्रं दंशे पश्चात् तु तिष्ठति ॥६॥

३७.६द्दंशे पश्चाच तिष्ठति दंशः सद्यो ऽति-रुक् श्यावस् तुद्यते स्फुटतीव च ।
ते गवादि-शकृत्-कोथादिग्ध-दष्टादि-कोथतः ॥७॥

सर्प-कोथाच संभूता मन्द-मध्य-महा-विषाः ।
मन्दाः पीताः सिताः श्यावा रूक्षाः कर्बुर-मेचकाः ॥८॥

३७.८ रूक्ष-कर्बुर-मेचकाः रोमशा बहु-पर्वाणो लोहिताः पाण्डुरोदराः ।
धूम्रोदरास् त्रि-पर्वाणो मध्यास् तु कपिलारुणाः ॥९॥

पिशङ्गाः शबराश् चित्राः शोणिताभा महा-विषाः ।
अग्न्य्-आभा द्व्य्-एक-पर्वाणो रक्तासित-सितोदराः ॥१०॥

तैर् दष्टः शून-रसनः स्तब्ध-गात्रो ज्वरार्दितः ।
खैर् वमञ् छोणितं कृष्णम् इन्द्रियार्थान् अ-संविदन् ॥११॥

स्विद्यन् मूर्छन् विशुष्कास्यो विह्वलो वेदनातुरः ।
विशीर्यमाण-मांसश् च प्राय-शो विजहात्य् असून् ॥१२॥

उच्चिटिङ्गस् तु वक्त्रेण दशत्य् अभ्यधिक-व्यथः ।
साध्यतो वृश्चिकात् स्तम्भं शेफसो हृष्ट-रोम-ताम् ॥१३॥

३७.१३ उच्चिटङ्गस् तु वक्त्रेण ३७.१३ सो ऽधमो वृश्चिकात् स्तम्भं करोति सेकम् अङ्गानां दंशः शीताम्बुनेव च ।
उष्ट्र-धूमः स एवोक्तो रात्रि-चाराच रात्रिकः ॥१४॥

३७.१४ दंशे शीताम्बुनेव च वात-पित्तोत्तराः कीटाः श्लैष्मिकाः कणभोन्दुराः ।
प्रायो वातोल्बण-विषा वृश्चिकाः सोष्ट्र-धूमकाः ॥१५॥

यस्य यस्यैव दोषस्य लिङ्गाधिक्यं प्रतर्कयेत् ।
तस्य तस्यौषधैः कुर्याविपरीत-गुणैः क्रियाम् ॥१६॥

३७.१६ लिङ्गाधिक्यं प्रवर्तयेत् हृत्-पीडोर्ध्वानिल-स्तम्भः सिरायामो ऽस्थि-पर्व-रुक् ।
घूर्णनोद्वेष्टनं गात्र-श्याव-ता वातिके विषे ॥१७॥

संज्ञा-नाशोष्ण-निश्वासौ हृद्-दाहः कटुकास्य-ता ।
मांसावदरणं शोफो रक्त-पीतश् च पैत्तिके ॥१८॥

३७.१८ रक्तः पीतश् च पैत्तिके छर्द्य्-अ-रोचक-हृल्-लास-प्रसेकोत्क्लेश-पीनसैः ।
स-शैत्य-मुख-माधुर्यैर् विद्याछ्लेष्माधिकं विषम् ॥१९॥

पिण्याकेन व्रणालेपस् तैलाभ्यङ्गश् च वातिके ।
स्वेदो नाडी-पुलाकाद्यैर् बृंहणश् च विधिर् हितः ॥२०॥

पैत्तिकं स्तम्भयेत् सेकैः प्रदेहैश् चाति-शीतलैः ।
लेखन-च्छेदन-स्वेद-वमनैः श्लैष्मिकं जयेत् ॥२१॥

कीटानां त्रि-प्रकाराणां त्रैविध्येन क्रिया हिता ।
स्वेदालेपन-सेकांस् तु कोष्णान् प्रायो ऽवचारयेत् ॥२२॥

३७.२२ त्रैविध्येन क्रिया हिताः ३७.२२ कवोष्णान् प्रविचारयेत् अन्य-त्र मूर्छितादंश-पाकतः कोथतो ऽथ-वा ।
नृ-केशाः सर्षपाः पीता गुडो जीर्णश् च धूपनम् ॥२३॥

विष-दंशस्य सर्वस्य काश्यपः परम् अब्रवीत् ।
विष-घ्नं च विधिं सर्वं कुर्यात् संशोधनानि च ॥२४॥

३७.२४ कश्यपः परम् अब्रवीत् साधयेत् सर्प-वदष्टान् विषोग्रैः कीट-वृश्चिकैः ।
तण्डुलीयक-तुल्यांशां त्रिवृतां सर्पिषा पिबेत् ॥२५॥

याति कीट-विषैः कम्पं न कैलास इवानिलैः ।
क्षीरि-वृक्ष-त्वग्-आलेपः शुद्धे कीट-विषापहः ॥२६॥

मुक्ता-लेपो वरः शोफ-तोद-दाह-ज्वर-प्रणुत् ।
वचा-हिङ्गु-विडङ्गानि सैन्धवं गज-पिप्पली ॥२७॥

पाठा प्रतिविषा व्योषं काश्यपेन विनिर्मितम् ।
दशाङ्गम् अ-गदं पीत्वा सर्व-कीट-विषं जयेत् ॥२८॥

सद्यो वृश्चिक-जं दंशं चक्र-तैलेन सेचयेत् ।
विदारिगन्धा-सिद्धेन कवोष्णेनेतरेण वा ॥२९॥

लवणोत्तम-युक्तेन सर्पिषा वा पुनः पुनः ।
सिञ्चेत् कोष्णारनालेन स-क्षीर-लवणेन वा ॥३०॥

३७.३० स-क्षार-लवणेन वा उपनाहो घृते भृष्टः कल्को ऽजाज्याः स-सैन्धवः ।
आदंशं स्वेदितं चूर्णैः प्रच्छाय प्रतिसारयेत् ॥३१॥

३७.३१ उपनाहे घृत-भृष्टः ३७.३१ उपनाहो घृत-भृष्टः रजनी-सैन्धव-व्योष-शिरीष-फल-पुष्प-जैः ।
मातुलुङ्गाम्ल-गो-मूत्र-पिष्टं च सुरसाग्र-जम् ॥३२॥

३७.३२ मातुलुङ्गं तु गो-मूत्र- ३७.३२ -पिष्टः स-सुरसार्जकः लेपः सुखोष्णश् च हितः पिण्याको गो-मयो ऽपि वा ।
पाने सर्पिर् मधु-युतं क्षीरं वा भूरि-शर्करम् ॥३३॥

३७.३३ पिण्याको गो-मयेन वा पारावत-शकृत् पथ्या तगरं विश्व-भेषजम् ।
बीजपूर-रसोन्मिश्रः परमो वृश्चिका-गदः ॥३४॥

३७.३४ परमो वृश्चिके ऽ-गदः ३७.३४ परमो वृश्चिको ऽ-गदः स-शैवलोष्ट्र-दंष्ट्रा च हन्ति वृश्चिक-जं विषम् ।
हिङ्गुना हरितालेन मातुलुङ्ग-रसेन च ॥३५॥

३७.३५ स-सैन्धवोष्ट्र-दंष्ट्रा च ३७.३५ मातुलुङ्ग-रसेन वा लेपाञ्जनाभ्यां गुटिका परमं वृश्चिकापहा ।
करञ्जार्जुन-शेलूनां कटभ्यां कुटजस्य च ॥३६॥

शिरीषस्य च पुष्पाणि मस्तुना दंश-लेपनम् ।
यो मुह्यति प्रश्वसिति प्रलपत्य् उग्र-वेदनः ॥३७॥

तस्य पथ्या-निशा-कृष्णा-मञ्जिष्ठातिविषोषणम् ।
सालाबु-वृन्तं वार्ताक-रस-पिष्टं प्रलेपनम् ॥३८॥

३७.३८ शलाटु-वृन्तं वार्ताक- सर्व-त्र चोग्रालि-विषे पाययेदधि-सर्पिषी ॥३९अ॥
विध्येत् सिरां विदध्याच वमनाञ्जन-नावनम् ॥३९च्॥
उष्ण-स्निग्धाम्ल-मधुरं भोजनं चानिलापहम् ॥३९एf ॥
नागरं गृह-कपोत-पुरीषं बीजपूरक-रसो हरितालम् ।
सैन्धवं च विनिहन्त्य् अ-गदो ऽयं लेपतो ऽलि-कुल-जं विषम् आशु ॥४०॥

अन्ते वृश्चिक-दष्टानां समुदीर्णे भृशं विषे ।
विषेणालेपयेदंशम् उच्चिटिङ्गे ऽप्य् अयं विधिः ॥४१॥

नाग-पुरीष-च्छत्त्रं रोहिष-मूलं च शेलु-तोयेन ।
कुर्यागुटिकां लेपाइयम् अलि-विष-नाशनी श्रेष्ठा ॥४२॥

अर्कस्य दुग्धेन शिरीष-बीजं त्रिर् भावितं पिप्पलि-चूर्ण-मिश्रम् ।
एषो ऽ-गदो हन्ति विषाणि कीट-भुजङ्ग-लूतोन्दुर-वृश्चिकानाम् ॥४३॥

शिरीष-पुष्पं स-करञ्ज-बीजं काश्मीर-जं कुष्ठ-मनःशिले च ।
एषो ऽ-गदो रात्रिक-वृश्चिकानां संक्रान्ति-कारी कथितो जिनेन ॥४४॥

३७.४४ शिरीष-बीजं स-करञ्ज-बीजं कीटेभ्यो दारुण-तरा लूटाः षो-डश ता जगुः ।
अष्टा-विंशतिर् इत्य् एके ततो ऽप्य् अन्ये तु भूयसीः ॥४५॥

सहस्र-रश्म्य्-अनुचरा वदन्त्य् अन्ये सहस्र-शः ।
बहूपद्रव-रूपा तु लूतैकैव विषात्मिका ॥४६॥

रूपाणि नामतस् तस्या दुर्-ज्ञेयान्य् अति-संकरात् ।
नास्ति स्थान-व्यवस्था च दोषतो ऽतः प्रचक्षते ॥४७॥

कृच्छ्र-साध्या पृथग्-दोषैर् अ-साध्या निचयेन सा ।
तद्-दंशः पैत्तिको दाह-तृट्-स्फोट-ज्वर-मोह-वान् ॥४८॥

भृशोष्ंा रक्त-पीताभः क्लेदी द्राक्षा-फलोपमः ।
श्लैष्मिकः कठिनः पाण्डुः परूषक-फलाकृतिः ॥४९॥

३७.४९ भृशोष्ं-रक्त-पीताभः निद्रां शीत-ज्वरं कासं कण्डूं च कुरुते भृशम् ।
वातिकः परुषः श्यावः पर्व-भेद-ज्वर-प्रदः ॥५०॥

तद्-विभागं यथा-स्वं च दोष-लिङ्गैर् विभावयेत् ।
अ-साध्यायां तु हृन्-मोह-श्वास-हिध्मा-शिरो-ग्रहाः ॥५१॥

३७.५१ -श्वास-हिध्मा-शिरो-रुजाः श्वेत-पीतासिता-रक्ताः पिटिकाः श्वयथूद्भवः ।
वेपथुर् वमथुर् दाहस् तृड् आन्ध्यं वक्र-नास-ता ॥५२॥

३७.५२ श्वेत-पीतासिता-रक्त- ३७.५२ -पिटिका-श्वयथूद्भवः ३७.५२ तृड् आन्ध्यं वक्र-नासिका श्यावौष्ठ-वक्त्र-दन्त-त्वं पृष्ठ-ग्रीवावभञ्जनम् ।
पक्व-जम्बू-स-वर्णं च दंशात् स्रवति शोणितम् ॥५३॥

सर्वापि सर्व-जा प्रायो व्यपदेशस् तु भूयसा ।
तीक्ष्ण-मध्यावर-त्वेन सा त्रि-धा हन्त्य् उपेक्षिता ॥५४॥

३७.५४ सा त्रि-धा हन्त्य् उपेक्षया सप्ताहेन दशाहेन पक्षेण च परं क्रमात् ।
लूता-दंशश् च सर्वो ऽपि दद्रू-मण्डल-संनिभः ॥५५॥

३७.५५ लूता-दंशस् तु सर्वो ऽपि सितो ऽसितो ऽरुणः पीतः श्यावो वा मृदुर् उन्नतः ।
मध्ये कृष्णो ऽथ-वा श्यावः पर्य्-अन्ते जालकावृतः ॥५६॥

३७.५६ सितासितो ऽरुणः पीतः विसर्प-वांश् छोफ-युतस् तप्यते बहु-वेदनः ।
ज्वराशु-पाक-विक्लेद-कोथावदरणान्वितः ॥५७॥

क्लेदेन यत् स्पृशत्य् अङ्गं तत्रापि कुरुते व्रणम् ।
श्वास-दंष्ट्रा-शकृन्-मूत्र-शुक्र-लाला-नखार्तवैः ॥५८॥

अष्टाभिर् उद्वमत्य् एषा विषं वक्त्राविशेषतः ।
लूता नाभेर् दशत्य् ऊर्ध्वम् ऊर्ध्वं चाधश् च कीटकाः ॥५९॥

३७.५९ अष्टाभिर् उद्वमन्त्य् एता ३७.५९ विषं वक्त्रैर् विशेषतः ३७.५९ लूता नाभेर् दशन्त्य् ऊर्ध्वम् ३७.५९ ऊर्ध्वं वाधश् च कीटकाः ३७.५९ ऊर्ध्वं चाधश् च कीटकः ३७.५९ अधश् च विष-कीटकाः तद्-दूषितं च वस्त्रादि देहे पृक्तं विकार-कृत् ।
दिनार्धं लक्ष्यते नैव दंशो लूता-विषोद्भवः ॥६०॥

सूची-व्यध-वआभाति ततो ऽसौ प्रथमे ऽहनि ।
अ-व्यक्त-वर्णः प्रचलः किञ्-चित्-कण्डू-रुजान्वितः ॥६१॥

३७.६१ सूची-विद्ध-वआभाति द्वितीये ऽभ्युन्नतो ऽन्तेषु पिटिकैर् इव वाचितः ।
व्यक्त-वर्णो नतो मध्ये कण्डू-मान् ग्रन्थि-संनिभः ॥६२॥

३७.६२ द्वितीये ऽत्य्-उन्नतो ऽन्तेषु ३७.६२ पिटिकैर् इव चाचितः तृतीये स-ज्वरो रोम-हर्ष-कृरक्त-मण्डलः ।
शराव-रूपस् तोदाढ्यो रोम-कूपेषु सास्रवः ॥६३॥

३७.६३ रोम-कूपेषु स-स्रवः महांश् चतुर्थे श्वयथुस् ताप-श्वास-भ्रम-प्रदः ।
विकारान् कुरुते तांस् तान् पञ्चमे विष-कोप-जान् ॥६४॥

षष्ठे व्याप्नोति मर्माणि सप्तमे हन्ति जीवितम् ।
इति तीक्ष्णं विषं मध्यं हीनं च विभजेअतः ॥६५॥

३७.६५ षष्ठे प्राप्नोति मर्माणि एक-विंशति-रात्रेण विषं शाम्यति सर्व-था ।
अथाशु लूता-दष्टस्य शस्त्रेणादंशम् उद्धरेत् ॥६६॥

३७.६६ दंशं शस्त्रेण चोद्धरेत् दहेच जाम्बवौष्ठाद्यैर् न तु पित्तोत्तरं दहेत् ।
कर्कशं भिन्न-रोमाणं मर्म-संध्य्-आदि-संश्रितम् ॥६७॥

प्रसृतं सर्वतो दंशं न च्छिन्दीत दहेन् न च ।
लेपयेदग्धम् अ-गदैर् मधु-सैन्धव-संयुतैः ॥६८॥

३७.६८ न च्छिन्दीत दहेन् न वा सु-शीतैः सेचयेचानु कषायैः क्षीरि-वृक्ष-जैः ।
सर्वतो ऽपहरेरक्तं शृङ्गाद्यैः सिरयापि वा ॥६९॥

सेक-लेपास् ततः शीता बोधि-श्लेष्मातकाक्षकैः ।
फलिनी-द्वि-निशा-क्षौद्र-सर्पिर्भिः पद्मकाह्वयः ॥७०॥

३७.७० सेकालेपास् ततः शीता ३७.७० बोधि-श्लेष्मातकाक्षिकैः ३७.७० बोधि-श्लेष्मातकाक्ष-जैः ३७.७० फलिनी-द्वि-निशा-श्रेष्ठा- अ-शेष-लूता-कीटानाम् अ-गदः सार्वकार्मिकः ।
हरिद्रा-द्वय-पत्तङ्ग-मञ्जिष्ठा-नत-केसरैः ॥७१॥

स-क्षौद्र-सर्पिः पूर्वस्माअधिकश् चम्पकाह्वयः ।
तद्-वगो-मय-निष्पीड-शर्करा-घृत-माक्षिकैः ॥७२॥

३७.७२ तद्-वगो-मय-निष्पीडा- अपामार्ग-मनोऽह्वाल-दार्वी-ध्यामक-गैरिकैः ।
नतैला-कुष्ठ-मरिच-यष्ट्य्-आह्व-घृत-माक्षिकैः ॥७३॥

अ-गदो मन्दरो नाम तथान्यो गन्ध-मादनः ।
नत-लोध्र-वचा-कट्वी-पाठैला-पत्त्र-कुङ्कुमैः ॥७४॥

मञ्जिष्ठा-श्लेष्मातक-रजनी-सुवहा-शिरीष-पालिन्द्यः ।
स-सिन्धुवारा विषं घ्नन्ति सैला-चन्दन-कनकाः ॥७४-१॥

विष-घ्नं बहु-दोषेषु प्रयुञ्जीत विशोधनम् ।
यष्ट्य्-आह्व-मदनाङ्कोल्ल-जालिनी-सिन्धुवारिकाः ॥७५॥

३७.७५ विष-घ्नैर् बहु-दोषेषु ३७.७५ -जालिनी-सिन्धुवारितान् ३७.७५ -जालिनी-सिन्धुवारितम् कफे ज्येष्ठाम्बुना पीत्वा विषम् आशु समुद्वमेत् ।
शिरीष-पत्त्र-त्वङ्-मूल-फलं वाङ्कोल्ल-मूल-वत् ॥७६॥

३७.७६ -फलं चाङ्कोल्ल-मूल-वत् विरेचयेच त्रि-फला-नीलिनी-त्रिवृतादिभिः ।
निवृत्ते दाह-शोफादौ कर्णिकां पातयेव्रणात् ॥७७॥

३७.७७ -फलिनी-त्रिवृतादिभिः कुसुम्भ-पुष्पं गो-दन्तः स्वर्णक्षीरी कपोत-विट् ।
त्रिवृता सैन्धवं दन्ती कर्णिका-पातनं तथा ॥७८॥

३७.७८ कुसुम्भ-पुष्प-गो-दन्त- ३७.७८ -स्वर्णक्षीरी-कपोत-विट् ३७.७८ कर्णिका-पातनं परम् मूलम् उत्तरवारुण्या वंश-निर्लेख-संयुतम् ।
तद्-वच सैन्धवं कुष्ठं दन्ती कटुक-दौग्धिकम् ॥७९॥

राज-कोशातकी-मूलं किण्वो वा मथितोद्भवः ।
कर्णिका-पात-समये बृंहयेच विषापहैः ॥८०॥

३७.८० किट्टो वा मथितोद्भवः ३७.८० किणो वा मथितोद्भवः ३७.८० बृंहयेत विषापहैः स्नेह-कार्यम् अ-शेषं च सर्पिषैव समाचरेत् ।
विषस्य वृद्धये तैलम् अग्नेर् इव तृणोलुपम् ॥८१॥

३७.८१ विषम् आवर्धयेत् तैलम् ३७.८१ अग्नेर् इव तृणोलपम् ह्रीवेर-वैकङ्कत-गोपकन्या-मुस्ता-शमी-चन्दन-टुण्टुकानि ।
शैवाल-नीलोत्पल-वक्र-यष्टी-त्वङ्-नाकुली-पद्मक-राठ-मध्यम् ॥८२॥

३७.८२ -मुस्ता-शमी-चन्दन-तिन्दुकानि रजनी-घन-सर्पलोचना-कण-शुण्ठी-कण-मूल-चित्रकाः ।
वरुणागुरु-बिल्व-पाटली-पिचुमन्दामय-शेलु-केसरम् ॥८३॥

३७.८३ वरुणागुरु-बिल्व-पाटला- बिल्व-चन्दन-नतोत्पल-शुण्ठी-पिप्पली-निचुल-वेतस-कुष्ठम् ।
शुक्ति-शाक-वर-पाटलि-भार्गी-सिन्धुवार-करघाट-वराङ्गम् ॥८४॥

३७.८४ शुक्ति-शाबरक-पाटलि-भार्गी- ३७.८४ -सिन्धुवार-करहाट-वराङ्गम् पित्त-कफानिल-लूताः पानाञ्जन-नस्य-लेप-सेकेन ।
अ-गद-वरा वृत्त-स्थाः कु-गतीर् इव वारयन्त्य् एते ॥८५॥

३७.८५ कु-गतीर् इव दारयन्त्य् एते ३७.८५ कु-मतीर् इव दारयन्त्य् एते ३७.८५ कु-मतीर् इव वारयन्त्य् एते लोध्रं सेव्यं पद्मकं पद्म-रेणुः कालीयाख्यं चन्दनं यच रक्तम् ।
कान्ता-पुष्पं दुग्धिनीका मृणालं लूताः सर्वा घ्नन्ति सर्व-क्रियाभिः ॥८६॥
Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:19.3100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

adjusted individual

  • समायोजित व्यक्ति 
RANDOM WORD

Did you know?

नैमित्तिक पूजा म्हणजे काय? त्या कोणकोणत्या?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site