TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ११

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ११
उपनाहं भिषक् स्विन्नं भिन्नं व्रीहि-मुखेन च ।
लेखयेन् मण्डलाग्रेण ततश् च प्रतिसारयेत् ॥१॥

११.१ भिन्नं व्रीहि-मुखेन तु पिप्पली-क्षौद्र-सिन्धूत्थैर् बध्नीयात् पूर्व-वत् ततः ।
पटोल-पत्त्रामलक-क्वाथेनाश्च्योतयेच तम् ॥२॥

पर्वणी बडिशेनात्ता बाह्य-संधि-त्रि-भागतः ।
वृद्धि-पत्त्रेण वर्ध्यार्धे स्याअश्रु-गतिर् अन्य-था ॥३॥

११.३ पर्वणी बडिशेनान्तर्- ११.३ -बाह्य-संधि-त्रि-भागतः ११.३ स्याअस्र-गतिर् अन्य-था ११.३ स्याअस्र-स्रुतिर् अन्य-था चिकित्सा चार्म-वत् क्षौद्र-सैन्धव-प्रतिसारिता ।
पूयालसे सिरां विध्येत् ततस् तम् उपनाहयेत् ॥४॥

११.४ ततस् तउपनाहयेत् कुर्वीत चाक्षि-पाकोक्तं सर्वं कर्म यथा-विधि ।
सैन्धवार्द्रक-कासीस-लोह-ताम्रैः सु-चूर्णितैः ॥५॥

चूर्णाञ्जनं प्रयुञ्जीत स-क्षौद्रैर् वा रस-क्रियाम् ।
कृमि-ग्रन्थिं करीषेण स्विन्नं भित्त्वा विलिख्य च ॥६॥

त्रि-फला-क्षौद्र-कासीस-सैन्धवैः प्रतिसारयेत् ।
पित्ताभिष्यन्द-वछुक्तिं बलासाह्वय-पिष्टके ॥७॥

११.७ बलासाह्वय-पिष्टकौ कफाभिष्यन्द-वन् मुक्त्वा सिरा-व्यधम् उपाचरेत् ।
बीजपूर-रसाक्तं च व्योष-कट्फलम् अञ्जनम् ॥८॥

जाती-मुकुल-सिन्धूत्थ-देवदारु-महौषधैः ।
पिष्टैः प्रसन्नया वर्तिः शोफ-कण्डू-घ्नम् अञ्जनम् ॥९॥

११.९ शोफ-कण्डू-घ्नम् औषधम् रक्त-स्यन्द-वउत्पात-हर्ष-जालार्जुन-क्रिया ।
सिरोत्पाते विशेषेण घृत-माक्षिकम् अञ्जनम् ॥१०॥

सिरा-हर्षे तु मधुना श्लक्ष्ण-घृष्टं रसाञ्जनम् ।
अर्जुने शर्करा-मस्तु-क्षौद्रैर् आश्च्योतनं हितम् ॥११॥

स्फटिकः कुङ्कुमं शङ्खो मधुकं मधुनाञ्जनम् ।
मधुना चाञ्जनं शङ्खः फेनो वा सितया सह ॥१२॥

११.१२ स्फटिकं कुङ्कुमं शङ्खं ११.१२ कासीसं मधुनाञ्जनम् अर्मोक्तं पञ्च-धा तत्र तनु धूमाविलं च यत् ।
रक्तं दधि-निभं यच शुक्र-वत् तस्य भेषजम् ॥१३॥

उत्तानस्येतरत् स्विन्नं स-सिन्धूत्थेन चाञ्जितम् ।
रसेन बीजपूरस्य निमील्याक्षि विमर्दयेत् ॥१४॥

इत्थं संरोषिताक्षस्य प्रचले ऽर्माधि-मांसके ।
घृतस्य निश्-चलं मूर्ध्नि वर्त्मनोश् च विशेषतः ॥१५॥

११.१५ प्रबले ऽर्माधि-मांसके अपाङ्गम् ईक्षमाणस्य वृद्धे ऽर्मणि कनीनकात् ।
वली स्यायत्र तत्रार्म बडिशेनावलम्बितम् ॥१६॥

नात्य्-आयतं मुचुण्ड्या वा सूच्या सूत्रेण वा ततः ।
समन्तान् मण्डलाग्रेण मोचयेअथ मोक्षितम् ॥१७॥

११.१७ नात्य्-आयतं समुत्पाट्य कनीनकम् उपानीय चतुर्-भागावशेषितम् ।
छिन्द्यात् कनीनकं रक्षेवाहिनीश् चाश्रु-वाहिनीः ॥१८॥

११.१८ छिन्द्यात् कनीनकं रक्षन् ११.१८ छिन्द्यात् कनीनकं रक्ष्ये कनीनक-व्यधाअश्रु नाडी चाक्ष्णि प्रवर्तते ।
वृद्धे ऽर्मणि तथापाङ्गात् पश्यतो ऽस्य कनीनकम् ॥१९॥

११.१९ कनीनक-वधाअश्रु ११.१९ कनीनक-वधाआशु ११.१९ कनीनक-व्यधाअ-स्रु- ११.१९ -नाडी चाक्ष्णि प्रवर्तते सम्यक्-छिन्नं मधु-व्योष-सैन्धव-प्रतिसारितम् ।
उष्णेन सर्पिषा सिक्तम् अभ्यक्तं मधु-सर्पिषा ॥२०॥

बध्नीयात् सेचयेन् मुक्त्वा तृतीयादि-दिनेषु च ।
करञ्ज-बीज-सिद्धेन क्षीरेण क्वथितैस् तथा ॥२१॥

स-क्षौद्रैर् द्वि-निशा-लोध्र-पटोली-यष्टि-किंशुकैः ।
कुरण्ट-मुकुलोपेतैर् मुञ्चेएवाह्नि सप्तमे ॥२२॥

११.२२ कोरण्ट-मुकुलोपेतैर् सम्यक्-छिन्ने भवेत् स्वास्थ्यं हीनाति-च्छेद-जान् गदान् ।
सेकाञ्जन-प्रभृतिभिर् जयेल् लेखन-बृंहणैः ॥२३॥

सिता-मनःशिलैलेय-लवणोत्तम-नागरम् ।
अर्ध-कर्षोन्मितं तार्क्ष्यं पलार्धं च मधु-द्रुतम् ॥२४॥

११.२४ पलार्धं च मधु-प्लुतम् अञ्जनं श्लेष्म-तिमिर-पिल्ल-शुक्रार्म-शोष-जित् ।
त्रि-फलैक-तम-द्रव्य-त्वचं पानीय-कल्किताम् ॥२५॥

११.२५ -पिल्ल-शुक्रार्म-काच-जित् शराव-पिहितां दग्ध्वा कपाले चूर्णयेत् ततः ।
पृथक्-शेषौषध-रसैः पृथग् एव च भाविता ॥२६॥

सा मषी शोषिता पेष्या भूयो द्वि-लवणान्विता ।
त्रीण्य् एतान्य् अञ्जनान्य् आह लेखनानि परं निमिः ॥२७॥

सिरा-जाले सिरा यास् तु कठिना लेखनौषधैः ।
न सिध्यन्त्य् अर्म-वत् तासां पिटिकानां च साधनम् ॥२८॥

दोषानुरोधाछुक्रेषु स्निग्ध-रूक्षा वरा घृतम् ।
तिक्तम् ऊर्ध्वम् असृक्-स्रावो रेक-सेकादि चेष्यते ॥२९॥

११.२९ दोषानुबन्धाछुक्रेषु ११.२९ स्निग्धा रूक्षा वरा घृतम् ११.२९ स्निग्ध-रूक्ष-वरा घृतम् ११.२९ तिक्तम् ऊर्ध्वम् असृक्-स्राव- ११.२९ -रेक-सेकादि चेष्यते त्रिस् त्रिवृद्-वारिणा पक्वं क्षत-शुक्रे घृतं पिबेत् ।
सिरयानु हरेरक्तं जलौकोभिश् च लोचनात् ॥३०॥

सिद्धेनोत्पल-काकोली-द्राक्षा-यष्टी-विदारिभिः ।
स-सितेनाज-पयसा सेचनं सलिलेन वा ॥३१॥

रागाश्रु-वेदना-शान्तौ परं लेखनम् अञ्जनम् ।
वर्तयो जाति-मुकुल-लाक्षा-गैरिक-चन्दनैः ॥३२॥

प्रसादयन्ति पित्तास्रं घ्नन्ति च क्षत-शुक्रकम् ।
दन्तैर् दन्ति-वराहोष्ट्र-गवाश्वाज-खरोद्भवैः ॥३३॥

११.३३ प्रसादयन्ति पित्तासृक् ११.३३ -गो-रासभ-समुद्भवैः स-शङ्ख-मौक्तिकाम्भो-धि-फेनैर् मरिच-पादिकैः ।
क्षत-शुक्रम् अपि व्यापि दन्त-वर्तिर् निवर्तयेत् ॥३४॥

तमाल-पत्त्रं गो-दन्त-शङ्ख-फेनो ऽस्थि गार्दभम् ।
ताम्रं च वर्तिर् मूत्रेण सर्व-शुक्रक-नाशिनी ॥३५॥

११.३५ ताम्रं च बस्त-मूत्रेण रत्नानि दन्ताः शृङ्गाणि धातवस् त्र्य्-ऊषणं त्रुटी ।
करञ्ज-बीजं लशुनो व्रण-सादि च भेषजम् ॥३६॥

स-व्रणा-व्रण-गम्भीर-त्वक्-स्थ-शुक्र-घ्नम् अञ्जनम् ।
निम्नम् उन्नमयेत् स्नेह-पान-नस्य-रसाञ्जनैः ॥३७॥

स-रुजं नी-रुजं तृप्ति-पुट-पाकेन शुक्रकम् ।
शुद्ध-शुक्रे निशा-यष्टी-शारिवा-शाबराम्भसा ॥३८॥

११.३८ -शारिवा-साधिताम्भसा सेचनं लोध्र-पोटल्या कोष्णाम्भो-मग्नयाथ-वा ।
बृहती-मूल-यष्ट्य्-आह्व-ताम्र-सैन्धव-नागरैः ॥३९॥

धात्री-फलाम्बुना पिष्टैर् लेपितं ताम्र-भाजनम् ।
यवाज्यामलकी-पत्त्रैर् बहु-शो धूपयेत् ततः ॥४०॥

तत्र कुर्वीत गुटिकास् ता जल-क्षौद्र-पेषिताः ।
महा-नीला इति ख्याताः शुद्ध-शुक्र-हराः परम् ॥४१॥

स्थिरे शुक्रे घने चास्य बहु-शो ऽपहरेअसृक् ।
शिरः-काय-विरेकांश् च पुट-पाकांश् च भूरि-शः ॥४२॥

कुर्यान् मरिच-वैदेही-शिरीष-फल-सैन्धवैः ।
हर्षणं त्रि-फला-क्वाथ-पीतेन लवणेन वा ॥४३॥

११.४३ घर्षणं त्रि-फला-क्वाथ- ११.४३ सर्षप-त्रि-फला-क्वाथ- कुर्याअञ्जन-योगौ वा श्लोकार्ध-गदिताव् इमौ ।
शङ्ख-कोलास्थि-कतक-द्राक्षा-मधुक-माक्षिकैः ॥४४॥

सुरा-दन्तार्णव-मलैः शिरीष-कुसुमान्वितैः ।
धात्री-फणिज्जक-रसे क्षारो लाङ्गलिकोद्भवः ॥४५॥

११.४५ खर-दन्तार्णव-मलैः ११.४५ क्षारो लाङ्गलिका-भवः ११.४५ क्षारो लाङ्गलिकी-भवः उषितः शोषितश् चूर्णः शुक्र-हर्षणम् अञ्जनम् ।
मुद्गा वा निस्-तुषाः पिष्टाः शङ्ख-क्षौद्र-समायुताः ॥४६॥

११.४६ शुक्र-घर्षणम् अञ्जनम् सारो मधूकान् मधु-मान् मज्जा वाक्षात् स-माक्षिका ।
गो-खराश्वोष्ट्र-दशनाः शङ्खः फेनः समुद्र-जः ॥४७॥

११.४७ सारो मधूकात् स-मधुर् ११.४७ सारो मधूकान् मधुना वर्तिर् अर्जुन-तोयेन हृष्ट-शुक्रक-नाशिनी ।
उत्सन्नं वा स-शल्यं वा शूक्रं वालादिभिर् लिखेत् ॥४८॥

११.४८ पिष्टा शुक्रक-नाशिनी ११.४८ दुष्ट-शुक्रक-नाशिनी सिरा-शुक्रे त्व् अ-दृष्टि-घ्ने चिकित्सा व्रण-शुक्र-वत् ।
पुण्ड्र-यष्ट्य्-आह्व-काकोली-सिंही-लोह-निशाञ्जनम् ॥४९॥

कल्कितं छाग-दुग्धेन स-घृतैर् धूपितं यवैः ।
धात्री-पत्त्रैश् च पर्यायावर्तिर् अत्राञ्जनं परम् ॥५०॥

११.५० वर्तिर् अत्राञ्जनं हितम् ११.५० वर्तिर् नेत्राञ्जनं परम् अ-शान्ताव् अर्म-वछस्त्रम् अजकाख्ये च योजयेत् ।
अजकायाम् अ-साध्यायां शुक्रे ऽन्य-त्र च तद्-विधे ॥५१॥

वेदनोपशमं स्नेह-पानासृक्-स्रावणादिभिः ।
कुर्याबीभत्स-तां जेतुं शुक्रस्योत्सेध-साधनम् ॥५२॥

११.५२ शुक्ल-त्वोत्सेध-साधनम् नारिकेलास्थि-भल्लात-ताल-वंश-करीर-जम् ।
भस्माद्भिः स्रावयेत् ताभिर् भावयेत् करभास्थि-जम् ॥५३॥

चूर्णं शुक्रेष्व् अ-साध्येषु तवैवर्ण्य-घ्नम् अञ्जनम् ।
साध्येषु साधनायालम् इदम् एव च शीलितम् ॥५४॥

अजकां पार्श्वतो विद्ध्वा सूच्या विस्राव्य चोदकम् ।
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत् ॥५५॥

व्रणं गो-मांस-चूर्णेन बद्धं बद्धं विमुच्य च ।
सप्त-रात्राव्रणे रूढे कृष्ण-भागे समे स्थिरे ॥५६॥

स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीर-सर्पिषा ।
तथापि पुनर्-आध्माने भेद-च्छेदादिकां क्रियाम् ॥५७॥

११.५७ तथापि पुनर्-आध्माते युक्त्या कुर्यायथा नाति-च्छेदेन स्यात् निमज्जनम् ॥५७ऊ̆अ॥
११.५७ऊ̆अव् युक्त्या युञ्ज्यायथा नाति- नित्यं च शुक्रेषु शृतं यथा-स्वं पाने च मर्शे च घृतं विदध्यात् ।
न हीयते लब्ध-बला तथान्तस् तीक्ष्णाञ्जनैर् दृक् सततं प्रयुक्तैः ॥५८॥

११.५८ तीक्ष्णाञ्जनैर् दृक् प्रततं प्रयुक्तैः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:12.9530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दणादणां

  • क्रि.वि. ( चालतांना पावलें इ० चा ) मोठयानें दणदण आवाज करित . फुगडी खेळूं दणादणा। [ ध्व .] 
RANDOM WORD

Did you know?

शंखनादाविषयी कांही माहिती पाहिजे.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.