संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका| चतुर्विंशः परिच्छेदः क्रिया-कैरव-चन्द्रिका प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः एकादश परिच्छेदः द्वादश परिच्छेदः त्रयोदशः परिच्छेदः चतुर्दशः परिच्छेदः पञ्चदशः परिच्छेदः षोडश परिच्छेदः सप्तदशपरिच्छेदः अष्ठादश परिच्छेद: एकोनविंशः परिच्छेदः विंशः परिच्छेदः एकविंशः परिच्छेदः द्वाविंशः परिच्छेदः त्रयोविंशः परिच्छेदः चतुर्विंशः परिच्छेदः पञ्चविंशः परिच्छेदः षड्विंशः परिच्छेदः सप्तविंशः परिच्छेदः अष्टाविंशः परिच्छेदः एकोन त्रिंशः परिच्छेदः त्रिंशः परिच्छेदः एकत्रिंशः परिच्छेदः द्वात्रिंशः परिच्छेदः त्रयस्त्रिंशः परिच्छेदः चतुत्रिंशः परिच्छेदः पञ्चत्रिंशः परिच्छेदः षट् त्रिंशः परिच्छेदः सप्तत्रिंशः परिच्छेदः क्रिया कैरव चन्द्रिका - चतुर्विंशः परिच्छेदः श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः Tags : kriya kairav chandrikasanskritक्रिया कैरव चन्द्रिकासंस्कृत प्रभाप्रतिष्ठाविधिः Translation - भाषांतर अथ प्रभादीनां प्रतिष्ठाविधिः उच्यते-कालांतरे चेत् प्रभादीनां प्रतिष्ठा, जलाधिवासाद्यखिलं कर्म यथापूर्वं कृत्वा। गुरुःज्वालामालासहस्राड्यां विद्युत्संघातसन्निभां प्रभां ध्यात्वा। संस्पृश्य।अग्नौसमिदाज्यचरुभिः मूलमन्त्रेण प्रत्येकं अष्टोत्तरशतं आहुतीनां हुत्वा। सर्पिषा शान्तिहोमं च हुत्वा। संपातेन प्रभां संस्पृश्य। प्रभाते कुम्भवारिणा मूलेनप्रोक्ष्य। प्रभां सुमुहूर्तेदेवेन संयोज्य। महोत्सवं कुर्यात्। गुरवे दक्षिणा च पूर्ववत्।पीठस्थापनम्।पीठस्थापने तु गुरुः तत्र पीठम् सम्स्थाप्य। योगासनमन्त्रैः आधारादिपद्मान्तैः अग्नौ हुत्वा। संपातेन पीठं संस्पृश्य. पद्म पीठं सुमुहूर्ते देवेन योजयेत्। दक्षिणाच पूर्ववत्।अथ घण्टा प्रतिष्ठा उच्यतेघण्टां पञ्चगव्येन पञ्चवारुणिकैः मन्त्रैः संस्नाप्य। नववाससा आवेष्ट्य। शालितण्डुलतिलैःस्थण्डिलं कृत्वा. तदूध्र्वे नववस्त्रं सदर्भं विन्यस्य। तत्र घण्टां तन्मन्त्रेण शाययित्वा। नवेनवाससा आच्छाद्य। तत्रसलक्षनं कुम्भं एकं सम्स्थाप्य। तस्मिन्‘‘शब्दब्रह्मस्वरूपिण्यै ओंघण्टायै नमः’‘ इति आवाह्य अभ्यर्च्य। कुण्डेस्थण्डिले वा तन्मन्त्रेण समिदादिभिः पृथक्अष्टोत्तरशतं आहुतीनां, चरुणा नृसूक्तेन षोडश च हुत्वा। तां शब्दब्रह्ममयीं ध्यात्वा। शान्तिहोमं कृत्वा। संपातेन घण्टां सम्स्पृश्य। प्रभाते कुम्भतोयेन प्रोक्ष्य। ततः घण्टांदेवस्य सर्वकर्मसु चालयेत्।गुरवे दक्षिणा पूर्ववत्।धूप दीपप्रतिष्ठाधूपदीपयोस्तु पूर्ववत् सर्वं कर्म कृत्वा।‘‘ओं धूपपात्राधिदैवताय पावकाय नमः’‘ इतिधूपं, ओं दीपपात्राधिदैवताय भास्कराय नमः’‘ इति दीपं च होमानन्तरं महाकुम्भजलेनप्रोक्षयेत्। दक्षिणा च पूर्ववत्।भेर्यादि प्रतिष्ठा-भेर्यादीनां पञ्चगव्येन शुद्धिंकुर्यात्।रथादीनां छत्रादीनां च प्रतिष्ठारथादियानानां तु शुद्धिं पूर्ववत् कृत्वा। स्वस्वदेवतामन्त्रेण महाकुंभजलेन प्रोक्षणं कुर्यात्।छत्रादीनामपि पूर्ववत्.सर्वत्र ब्राह्मणान् भोजयित्वा. पुण्याहपूर्वकं यथाविधि सर्वंकर्मकुर्यात्। यजमानश्च गुरवे वित्तानुसारतः दक्षिणां दद्यात्।अक्षमला प्रतिष्ठाविधिःअथ अक्षमालाप्रतिष्ठा विधिः उच्यतेसुवर्ण रजत ताम्र त्रपु सीस कांस्यायस्फटिक सूर्यकान्त चन्द्रोपल पुत्र जीवेन्द्राक्षीविभीतिका निंब पद्म सितअंभोज कमलाक्ष रुद्राक्ष शङ्ख जलज कुशग्रन्त्यादिषु जप्तुःअभिमत कर्मानुगुणान् मणीन् अष्टोत्तरशतसंख्याकान् तदर्धान् सप्तविंशति संख्याकान्वा अक्षास्थि तुल्यान् धात्रीफलास्थिसदृशान् बदरास्थि समानान् वा संपाद्य.तान्दोषवर्जितान् निरीक्ष्य। पञ्चवारुणिकैः पञ्चोपनिषत् मन्त्रैश्च पञ्चगव्यैः संक्षाल्य। तान् हेमैराजते वा सूत्रे त्रिगुणीकृते केशादि दोषवर्जिते कार्पाससूत्रे वा पृष्ठेन पृष्ठं मुखेन मुखंपरस्परं यथा न संबध्येत। तथा अन्तरांतरा सुवर्णेन वा सूत्रेणवा मध्यबन्धयुतान्आरोप्य। तां मालां कटकाकारं कृत्वा। तन्मालौमहत्तरं अन्यं मणिं निधाय। एवं अक्षमालिकां कृत्वा। तां पुण्याहजलेन प्रोक्ष्य।पद्मदलेसंस्थाप्य। कुंकुमाद्यैःविलिप्य। शालितण्डुलैः, भारादिप्रमाणयुतैः स्थण्डिलंकृत्वा। तत्र चक्रपद्मं विलिख्य। कुशैः नववस्त्रैश्च आच्छाद्य। हेमवस्त्रयुतं महाकुम्भंधान्यपीठे निक्षिप्य। तस्मिन् ‘ओं नमो अक्षमालिकाधि दैवताय मन्त्रपुरुषाय नमः’‘ इतिमन्त्रेण आवाह्य अभ्यर्च्य कुण्डेस्थण्डिले वा अग्निं उपसमिध्य। समिच्चरुघृतैः तन्मन्त्रेणपृथक् अष्टोत्तरशतं आहुतीनां हुत्वा। तस्याः शोषणादि कृत्वा। तां अण्डमयींध्यात्वा।तन्मध्येपुरुषं ध्यायेत् बद्धाञ्जलिमवस्थितम्।चतुर्भुजं वलर्क्षाभं वरदाभयहस्तकम्।अक्षमालां च बिभ्राणं शिखाग्रे कटकाकृतिम्।इति ध्यात्वा।तदनु शान्तिहोमानन्तरं संपातेन तां संस्पृश्य। सुमुहूर्ते तस्यां सृष्टिक्रमेणतत्वानि विन्यस्य। आचार्यः स्वहृदयकमले मन्त्ररूपिणीं अभिन्नां तेजसा आदित्यसंकाशांवैष्णवींशक्तिं ध्यात्वा। तां ब्रह्मरन्ध्रात् अक्षमालिकायां तन्मन्त्रेण आवाह्य। महाकुम्भजलेन प्रोक्ष्य।सन्निधत्तां भवान् देव मन्त्रमूर्ते जनार्दन।जपाक्षमालावलये भक्तानुग्रहकाम्यया॥इति गाथां उदीर्य, तत्र मन्त्रविग्रहं अक्षमालां बिभ्राणं चतुर्भुजं वलक्र्षाभं देवं ध्यात्वा।अभ्यर्च्य। गुरुः यजमानाय दद्यात्। पूर्वं गुरुः अक्षमालायां यं मन्त्रं स्थापितवान् तमेवगणयेत्। यथावित्तं गुरवे दक्षिणा देया। इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां प्रभापीठ घण्टाधूपदीपभेर्यादिवाद्य रथादियानछत्रादिपरिबर्हाक्षमालाप्रतिष्ठा विधिः नाम चतुर्विंशः परिच्छेदः N/A References : N/A Last Updated : January 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP