संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका|
चतुर्दशः परिच्छेदः

क्रिया कैरव चन्द्रिका - चतुर्दशः परिच्छेदः

श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः


अथतावत् आचार्यः मण्डपमध्ये वेदिकायां चक्राब्ज मण्डलं वर्तयित्वा। तत्पूर्व दक्षिण
वामभागे शय्यावेदिं कृत्वा। द्वादशार्णमनुना गन्धोदकेन प्रोक्ष्य। तस्यां प्रागग्रान्
उदगग्रान् वा दर्भान् आस्तीर्य। तत्र व्रीहीणां पञ्चभारं तण्डुलानां तदर्धं, तिलानां तदर्धं च
अन्तरान्तर प्रत्यग्राच्छादनान्तरितं विस्तीर्य। तिलोपरि पद्मं विलिख्य। तदुपरि पूर्ववत्
दर्भान् आस्तीर्य। तस्योपरि क्रमेण वैयाघ्रचर्म मृद्वास्तरण तूलिकारत्नकम्बल
क्षौमचित्रवस्त्र शुक्लवसनानि तदुपरि शयनाङ्गानि उपधानानि सपाद गण्डुकानि निधाय।
दर्भैःपरिस्तीर्य। तां कस्तूरिकादि गन्धद्रव्याधिवासितां सुगन्धपुष्प मालादि
नानालङ्गारशोभितां कृत्वा।
आचार्यः पुरुषसूक्तादि पाठकैः ब्राह्मणैः ऋत्विग्भिः च तूर्यघोषपुरस्सरं बिम्बं ‘‘उत्तिष्ठ’‘
इति मन्त्रेण तस्मात् उत्थाप्य। बहिः कुण्डं यथा प्रादक्षिण्येन शनैः शय्यावेदिभुवं, तस्यां
आधारादि पद्मान्तं पीठं सङ्कल्प्य। अभ्यर्च्य।‘‘यद्वैष्णवं’‘ इतिमन्त्रं,‘‘विश्वतश्चक्षुः’‘इति
मन्त्रं च उच्चरन् प्राक्शिरो दक्षिणाननं मन्दिराननं दक्षिणाशाशिरस्कं वा बिम्बं शय्यायां
शाययित्वा। ‘‘युवासुवासाः’‘ इतिमन्त्रेण कम्बलैः वस्त्रैः वा सर्वतः प्रतिमां आच्छादयेत्।
तदनु द्वार तोरणपूजां करिष्ये इति स‘ल्प्य।द्वारतोरण ध्वजकुम्भेषु पूर्ववत् यथाविधि
तत्तद्दैवतानि आवाह्य अभ्यर्च्य। पूर्वादिदिक्षु ऋगादीन् वेदान् अन्यान् च ब्राह्मणेषु
पठत्सु,सर्वत्र तुर्यघोषेषु प्रवर्तितेषु,समाहितमनाः आचार्यः हृदयकमले भगवन्तं ध्यायन्
पुण्याहं वाचयित्वा।
 
चक्राब्जमण्डले साङ्गं सपरिवारं वासुदेवं यथाविधि संपूज्य। शय्यावेदिं त्रिभागी कृत्य।
मध्य दक्षिणभागयोः बिंबे अधिवासिते सति उत्तरभागे देवस्य पश्चिमोत्तरे शालि तण्डुल
तिलैः पीठं स वस्त्रास्तरणं कृत्वा ।
तदुपरि पद्ममालिख्य । तस्मिन् सवस्त्र कूर्चाश्वत्थ पल्लवरत्नापिधानं द्रोणमान
गन्धोदकपूरितं लोहजं मृण्मयं वा महाकुम्भं,तन्निकटे दक्षिणे तादृशं करकं च शायितबिंब
स्थापितकुम्भयोः परितः अष्टसु धान्यपीठेषु तादृक्लक्षणयुतं मूर्तिकुम्भाष्टकं च संस्थाप्य
परिस्तीर्य।
तेषु शङ्खचक्र गदापद्म ध्वज श्रीवत्स गरुडकमठान् प्रत्येकं निष्फमात्र जांबूनदकृतान्
निक्षिप्य। मूर्तिकुम्भानां मध्ये पूर्वोक्त लक्षणयुतानि अष्टौ फलकानि सुवर्णादि लोहजानि
याज्ञीयदारुजानि वा संस्थाप्य। परितः साङ्कुराः पालिकाश्च निधाय.‘कुम्भपूजां
करिष्ये’‘‘‘इति सङ्कल्प्य। कुम्भजलानां पृथक् शोषणादिकृत्वा। तस्मिन् जले पीठं
आधारादि पद्मान्तं स‘ल्प्यअभ्यर्च्य।एवं अष्टास्वपि कृत्वा। ततः पूर्वादिषुकुम्भेषु
विष्ण्वादि दामोदरान्तान् देवान् स्व स्वमन्त्रेणावाह्यऽभ्यर्च्य। तदानीं पायसान्नेन
भगवन्मयान् ब्राह्मणान् द्वादशाधिकान् भोजयित्वा। तेभ्यः अपि गो तिल वस्त्र सुवर्णानि
दद्यात्।
 
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
शयनाधिवास कुम्भस्थापनविधिर्नाम चतुर्दशः परिच्छेदः

N/A

References : N/A
Last Updated : January 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP