संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका| दशमः परिच्छेदः क्रिया-कैरव-चन्द्रिका प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः एकादश परिच्छेदः द्वादश परिच्छेदः त्रयोदशः परिच्छेदः चतुर्दशः परिच्छेदः पञ्चदशः परिच्छेदः षोडश परिच्छेदः सप्तदशपरिच्छेदः अष्ठादश परिच्छेद: एकोनविंशः परिच्छेदः विंशः परिच्छेदः एकविंशः परिच्छेदः द्वाविंशः परिच्छेदः त्रयोविंशः परिच्छेदः चतुर्विंशः परिच्छेदः पञ्चविंशः परिच्छेदः षड्विंशः परिच्छेदः सप्तविंशः परिच्छेदः अष्टाविंशः परिच्छेदः एकोन त्रिंशः परिच्छेदः त्रिंशः परिच्छेदः एकत्रिंशः परिच्छेदः द्वात्रिंशः परिच्छेदः त्रयस्त्रिंशः परिच्छेदः चतुत्रिंशः परिच्छेदः पञ्चत्रिंशः परिच्छेदः षट् त्रिंशः परिच्छेदः सप्तत्रिंशः परिच्छेदः क्रिया कैरव चन्द्रिका - दशमः परिच्छेदः श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः Tags : kriya kairav chandrikasanskritक्रिया कैरव चन्द्रिकासंस्कृत प्रतिष्ठा उपकरण विधिः Translation - भाषांतर अथ तावत् प्रतिष्ठा उपकरण विधिः उच्यते।तत्र कुण्ड लक्षणम्-प्रासादस्य अग्रभागे प्रथमद्वितीय तृतीयावरणेषु योग्यावकाशेषु एतेषुअष्टासु आशासु अभिमते देशे दशभिःहस्तैः विस्तीर्णायामयुतम् चतुर्दिक्षु चतुद्र्वारमण्डपं कल्पयित्वा। तन्मध्ये मानांतराङ्गुल वशेन पञ्चहस्तायामविस्तारांएकहस्तोच्छ्रिताम् चतुरश्रां वेदिमिष्टकया कल्पयित्वा।तस्याः त्रितलात् बहिः पूर्वदेशे मुष्ट्यङ्गुलवशेन चतुर्विंशत्यङ्गुलायाम विस्तारं चतुरश्रंविंशत्यङ्गुल प्रकृतिमानं भूतलं खात्वा। खातभूतलात् बहिः द्व्यङ्गुलं विसृज्य। ततःतालमानां चतुरङ्गुलविस्तारां सात्विकीं प्रथम मेखलां, तत्परितः अष्टाङ्गुलमानां चतुरङ्गुलविस्तारां राजसीं द्वितीय मेखलां, तत्परितः चतुरङ्गुलमुन्नतां तावत् विस्तारां तामसींतृतीय मेखलां च इति क्रमेण यथाविधि इष्ठकयैव कुण्डानुगुण्येन मेखलात्रयं कुर्यात्।वेदिकायाः च आग्नेये पूर्ववत् चतुर्विंशत्यङ्गुलायाम विस्तारं सूत्रं चतुरश्रं निपात्य।पश्चिमभागागमे नैऋतवायव्य कोणाभ्यां पञ्च पञ्च अङ्गुलीः हित्वा। ततः प्रतीच्यागमेशङ्गुमारभ्य दक्षिणोत्तर सूत्रभ्रमणं कृत्वा। ततः पूर्वागम शङ्कुपर्यन्तं दक्षिणोत्तर सूत्रेनिपात्य। योन्याकारं कृत्वा। शेषं संमार्ज्य। विंशत्यङ्कुल प्रकृत्युच्छ्रायं खात्वा। तस्मात्द्वयङ्गुलं विसृज्य।पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं कुर्यात्। बहिः शङ्कुं संस्थाप्य।अष्टादशाङ्गुल सूत्रं शङ्कोः पूर्वतःपश्चिमतः च तथा निपात्य।अष्टादशाङ्गुलं सूत्रं पूर्वमारभ्यपश्चिमान्तं भ्रामयेत्। तदा चापाकारंभवति। प्रकृतिं तथैव विंशत्यङ्गुलं खात्वा।तस्मात् द्व्यङ्गुलं विसृज्य।पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं कुर्यात्। तस्याः नैॠते शङ्कुंसंस्थाप्य। भुवनसंख्याङ्गुल वशेन सूत्रं परिभ्राम्य। वृत्तं कृत्वा। वृत्तं चतुर्विंशत्यङ्गुल वशेन षोढा विभज्य।शङ्कुं निधाय। पूर्व पश्चिम शङ्कुभ्यां सूत्रं निपातयेत्। एवमेव सूत्रनिपाते कृते,अष्टाङ्गुलनिरन्तरं षडश्र कुण्डं भवति।तथा विंशत्यङ्गुलं प्रकृतिं खात्वा। खातभूतलात् द्व्यङ्गुलंहित्वा। कुण्ड वशेन मेखलात्रयं कुर्यात्। तस्मात् पश्चिमे तालत्रयात् बहिः शङ्कुंसंस्थाप्य।पक्षाङ्गुल वशेन सूत्रवत्र्मना चक्रवत् वृत्तं कृत्वा। पूर्ववत् प्रकृतिं कुण्डानुगुण्येनमेखलात्रयं च कुर्यात्।अस्य मेखलास्थाने द्वादश अष्टौ वा दलानि कल्पितानि चेत् पद्म कुण्डं भवति।मेखलास्थाने अराणि कल्पितानि चेत् चक्रकुण्डं भवति। तस्याः च मारुते शङ्कुंसंस्थाप्य।सार्धगोलकाचलाङ्गुल सूत्रपातेन वृत्तं कृत्वा। सूत्रागमं पञ्चधा विभज्य।शङ्कुं निधाय।पञ्चकोण वशेन सूत्राणि निपात्य।कुण्डानुगुण्येन प्रकृतिं मेखलात्रयं च कुर्यात्। तस्याः च उत्तरे तालत्रयात्बहिःषण्णवत्यङ्गुलमानं वेदनाग वशेनविभज्य। तन्मानं त्रिकोणं यथासूत्रं निपात्य। तथाविंशत्यङ्गुलंखात्वा। कुण्डानुगुण्येन पूर्ववत् मेखलात्रयं कुर्यात्। तस्याश्च ऐशाने शङ्कुंनिधाय। सैकाग्नि वेदाङ्गुलवशेन सूत्रवत्र्मना वृत्तं कृत्वा। सूत्राङ्गुलं कलशाङ्गुल वशेनअष्टधा विभज्य। शङ्कुं निधाय।कोणमध्यं यथा षडङ्गुलं भवति तथा अष्ट सूत्रं निपात्य।पूर्ववत् कुण्डानुगुण्येन मेखलात्रयं च कुर्यात्। कुण्डानां मध्ये अष्टदलपद्मं कुण्डानांपश्चिमायां तलोत्सेध मेखलोपरि पक्षाङ्गुलायामं अङ्गुलैः दशभिः षड्भिःद्व्यङ्गुलेन एकेनअङ्गुलेन वा मूलमारभ्य। क्रमेण विस्तीर्णां निम्नां मेखलाग्रे चतुरङ्गुलायत त्र्यङ्गुलनहनषडङ्गुल मुखयुतां नालवत्तया काहलाकारवत् अश्वत्थ पत्ररूपेण योनिं कुर्यात्। पद्म कुण्डे पद्मं,योनिकुण्डे योनिं च वर्जयेत्। होता चेत् उदङ्मुखःयमस्य दिशि वा योनिंकल्पयेत्। मोक्षार्थी चेत् योनिं विना कुण्डं कुर्यात्।यावत् प्रमाणा रज्जुः स्यात् तावानेव आगमो भवेत्।आगमार्धं तु शङ्कुः स्यात् अन्तरर्थे निरञ्जनम्।षण्णवत्यङ्गुलायामा सर्व कुण्डस्य कर्णिका।इति वचन लक्षणानि सम्यक् ज्ञेयानि। एकमूर्ति विधाने अयुग्मानि एव, अथवायुग्मानि कुण्डानि कारयेत्। मध्यवेदिकायाः पूर्वे दक्षिणे वा भागे सलक्षणंशयनाधिवासार्थं पूर्ववत् वेदिकां कारयेत्।अथ तावत् स्रुक्स्रुव विधिः उच्यतेसुवर्णादिलोहैः वा पालाशादि यज्ञवृक्षैः वा स्रुक् स्रुवौ कारयेत्। स्रुक्दण्डं तु बाहुदण्डसमायतं सांगुलद्वितालायतं वा सर्वतः षडङ्गुल विस्तारं कृत्वा। तं गुणसंख्यया विभज्य।उपर्यंशं द्वेधाविभज्य। तयोः उपर्यंशं च भूतांशं कृत्वा। तत्र आद्यमंशं हित्वा।उपरिस्थितवेदांशैः वराहवदनवत् अग्रं एकांगुलानाहं विधाय। अधोविसृष्टैकांशेन सहस्वतृतीयांशावशिष्टार्ध भागेन संयोजिते, तदा विस्तारायाम समं चतुरश्रं षडंगुलमितंभवति। एवं गलं कल्पयित्वा। तदधः नालं द्व्यंगुलविस्तारं, तत्रपाश्र्वयोःअर्धांगुलायामविस्तार निम्नयुतं कृत्वा। अन्यत् सूत्रपातात् बहिः स्थितं शेषेण हित्वा।गलाधोवशिष्टांशं वृत्तं चतुरश्रंवा कल्पयित्वा। गलमध्ये तृतीयभाग संमितंविस्तारायामसमं गाध सदृशं गर्तं वृत्तं वा कृत्य।गर्त बाह्यं त्रेधा विधाय। प्रथमवलयेदलाष्टकं कृत्वा। मध्यांशं चतुर्धा विभज्य। आद्यं नाभिमण्डलं तस्य बहिः नेमिमण्डलस्यमध्ये, मण्डलद्वयं च एकी कृत्य। तस्मिन् षट् वा दश वा इन्दीवरदलवत् अराणिकल्पयित्वा। अवशिष्टेन एकभागेन नेमि मण्डलं निर्माय।तत्कोणेषु चतुर्षु शंख़ान् कृत्वा। बहिः मेखलां यवोन्नतां कृत्वा। चतुर्यवप्रमाणेन गर्तं आरभ्य।अग्रान्तं सर्पिषः विवरंकृत्वा। तत्पृष्ठ भागं कमठपृष्ठसदृशं कूर्मपृष्ठसदृशंवा चतुरश्रं विधाय। आधारंविना अन्त्यंवलयत्रयाङ्कितं वृत्तं चतुरश्रं अष्टाश्रं वा कृत्वा।तदग्रं च यथापुरं कमलाकारं कल्पयेत्।स्रुवस्य तु दण्डं हस्तमानं कृत्वा। तदग्रं द्व्यंगुल विस्तारं तन्मध्ये नासिकापुटवत्अर्धांगुलविस्तारायामं वृत्तं गर्तद्वयमापाद्य। तदधः गर्तद्वयस्य मध्ये रेखिकां यवोन्नतांतयोःपरितश्च अवशिष्टेन एकांगुलेन गलं च विधाय।परिशिष्टेन गोलांगुलाकृतिं कृत्वा।मूलं द्व्यंगुल विस्तीर्णं कारयेत्।मण्डपस्य द्वाराणां चतुष्टयेपि प्रागादिक्रमेण अश्वत्थ, उदुम्बर,प्लक्ष,वटवृक्षैः तेषु एकेन वायथोक्तालाभे चन्दनद्रुमेण वा तोरणानि कुर्यात्। तत्पादान् सप्तभिः पञ्चभिः वाअयुग्मैःहस्तैः आयतान् द्वाविंशांगुलघनान् वृत्तान् चतुरश्रान् वा कृत्वा।तदुपरि तदर्धेन आयताः तादृशानाहयुताः तथाविधाश्च पट्टिकाः कल्पयित्वा। प्रति पट्टिकंद्वितालमानानि अष्टांगुलानाहयुतानि त्रीणि त्रीणि कीलानि च निधाय। तोरणानां पादेषुपूर्णकुम्भ दक्षिणावर्तशङ्ख चक्र ध्वज पटह कार्मुकनागान् च चित्रयेत्।अथ अष्ट मङ्गल विधिःयथाविभवं हेमादि लोहजानि वा याज्ञीय वृक्षजानि वा क्रमेण द्वाविंशाङ्गुल तदद्र्धद्वयङ्गुलैः आयामविस्तृति घनयुतानि सपीठानि फलकानि कल्पयित्वा।तेषु श्रीवत्सपूर्णकुम्भ भेरी दर्पणमण्डल मत्स्ययुग्म शङ्खचक्राणि, पद्मासनस्थितं गरुडंच,द्वाविंशाङ्गुल मानेन कल्पयित्वा। तेषां पाश्र्वयोः मूर्धनि च चामर प्रदीप छत्राणिलाञ्छयेत्। बिंबप्रमाणानुगुण्येन औदुंबरस्नानपीठं नयनोन्मीलनपीठजलाधिवासनासनादीन् च आचार्य मूर्तिपासन पादुकाः च उपकुम्भ कलश करकमणिकदीपस्तम्भ घृतादि स्नपनद्रव्य चन्दनादि सुगन्ध विविधवस्तु समित् पुष्प कुश विविध धान्य सुवर्णादिलोह रत्न सवत्सगोप्रभृतीन् अन्यान् च संभारान् पूर्वं संपाद्य। तदनुआचार्यः यथाविधि प्रतिष्ठामारभेत्।इति क्रियाकैरवचन्द्रिकायां प्रतिष्ठा उपकरण विधिःनामदशमः परिच्छेदः N/A References : N/A Last Updated : January 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP