संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका| तृतीयः परिच्छेदः क्रिया-कैरव-चन्द्रिका प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः एकादश परिच्छेदः द्वादश परिच्छेदः त्रयोदशः परिच्छेदः चतुर्दशः परिच्छेदः पञ्चदशः परिच्छेदः षोडश परिच्छेदः सप्तदशपरिच्छेदः अष्ठादश परिच्छेद: एकोनविंशः परिच्छेदः विंशः परिच्छेदः एकविंशः परिच्छेदः द्वाविंशः परिच्छेदः त्रयोविंशः परिच्छेदः चतुर्विंशः परिच्छेदः पञ्चविंशः परिच्छेदः षड्विंशः परिच्छेदः सप्तविंशः परिच्छेदः अष्टाविंशः परिच्छेदः एकोन त्रिंशः परिच्छेदः त्रिंशः परिच्छेदः एकत्रिंशः परिच्छेदः द्वात्रिंशः परिच्छेदः त्रयस्त्रिंशः परिच्छेदः चतुत्रिंशः परिच्छेदः पञ्चत्रिंशः परिच्छेदः षट् त्रिंशः परिच्छेदः सप्तत्रिंशः परिच्छेदः क्रिया कैरव चन्द्रिका - तृतीयः परिच्छेदः श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः Tags : kriya kairav chandrikasanskritक्रिया कैरव चन्द्रिकासंस्कृत बालालय प्रतिष्ठा विधिः Translation - भाषांतर अथ बालालय प्रतिष्ठा विधिःउच्यते - आरभ्यमान प्रासादस्य इन्द्रेशानांऽतरे सोमेशयोःइन्द्राग्न्योः यमनैॠत्योः निॠति वरुणयोः वरुण वाय्वोः वायुसोमयोः वा अन्तरेस्वाभिमते देशे बालालयं प्रकल्पयेत्। तत्र सप्तभिः पञ्चभिः त्रिभिः वा हस्तैः बालालयंकल्पयेत्।मूलमन्दिरस्य वलजं यस्यां दिशि तस्यामेव बालालयस्यापि निदध्यात्।लोहजं शैलजं दारुजं वा चतुर्भुजं शङ्खचक्र गदापद्मधरं उत्सेधतोह्रासे पञ्चाङ्कुलं वृद्धौत्रयो विंशत्यङ्गुलं यजमान सुखावह मानानुगुणं वा बालबिम्बं कार्यम्।मूलालयस्थाप्येषु मत्स्याद्यवतारेषु बालबिम्बं वा तथारूपं, विश्वरूपे तु चतुर्भुजं,स्थित्यासन शयनेषु च तथैव (स्थित्यासन शयनरूपं) बालबिम्बं कारयित्वा।तदङ्कुरार्पण पूर्वकं जले अधिवास्य।कुम्भस्थापनाधिवास होमादि कृत्वा। बालगेहस्य मध्ये दिव्येंशे वाहस्तमात्रसमुच्छ्रितां मेखलात्रययुतां वेदिकां कल्पयित्वा। प्रभाते सुमुहूर्ते शक्तिन्यासचतुर्थस्नपन वर्जम् तस्यां देवं यथाविधि संस्थाप्य। संप्रोक्ष्य। मन्त्रान् विन्यस्य संपूजयेत्।ततःआमूलधामप्रारम्भात् आसमाप्तेः हरे विभो।पूजां गृह्णीष्व भगवन् अस्मिन् त्वं बाल मन्दिरे।शमयन् मूलधिष्ण्यस्य विघ्नकृद्दैत्य संहितम्। इति मन्त्रेण प्रार्थ्य।विज्ञाप्य प्रणम्य।चण्डप्रचण्ड क्षेत्रपाल खगेशान् द्वारे इन्द्रादिलोकपालान् तत्तद्दिक्षु ईशान भागे सेनेशं नैॠते गणेशं च अशरीरिणः सर्वान् एतान्बालमन्दिरस्य परितः हस्तमात्रातु मेखलात्रययुतासु वृत्तासु चतुरश्रासु वा वेदिकासुस्थण्डिले वा तादृशे संपूज्य।सर्वान् कुमुदादिगणान् महापीठे अभ्यर्च्य। गुरुः एवंबालालयं प्रतिष्ठाप्य। अन्ते ध्वजारोहणपूर्वकं पुष्पयागावसानिकं उत्सवं अथवाएकाहोत्सवं कुर्यात्। बालबिम्बं लोहजं चेत् तेनैव सकलं नित्यादि कर्मकुर्यात्। उत्सवार्थंन चेत् बिम्बं बालेनैव कुर्यात्। बालबिम्बं शिलादारुजमयं चेत् दारुसंग्रह शिलासंग्रहपूर्वकं बालबिम्बं प्रतिष्ठापयेत्।आलय निर्माण विधिःपश्चात् रथकारः स्थपतिभिः सह मन्दिरनिर्माणमारभेत। तत्र मुख्य मध्यमाधमसञ्चितासञ्चितोपसञ्चित कल्पन भेदं शिलेष्टकादार्वादिषु गर्भादि दोष लक्षणानिदेवतान्तरालयगतत्वादि दोषान् च सम्यक् ज्ञात्वा मूलमन्दिरं कल्पयेत् ।खातभूतले जलेन समतां वीक्ष्य प्रकृतिं क्षितौ विन्यस्य। शास्त्र चक्षुषा प्रथमांफलकामादाय । सुधया तां दृढीकृत्य। जलेन समतां वीक्ष्य । तस्योपरि उपपीठं तदुपरि अधिष्ठानं उपपीठेनविना अधिष्ठानं वा परिकल्प्य । अधिष्ठानं वा यद्वा पूर्वमधिष्ठानं तदुपरिउपानहं तदुपरि पादं ततः प्रस्तरं पश्चात् ग्रीवां तदनु शिखरं एवं यथाक्रमं एकतलकल्पने यथावत्स्थूपि एवं कुर्यात् । द्वितल कल्पने तु अधिष्ठान चरण प्रस्तरकूटशालासंस्थान पञ्जर प्रस्तर वेदिकाग्रीव शिखराणि एवं क्रमेण त्रितलादि आद्वादश तलमेवमेव।ततः अधिकेषु उपानजगती कुमुदपट्टिका कण्ठपट्टिका महतीपट्टिका वाजन वेदिकाचरणतलोत्तर हंसमाला कपोत प्रतिप्रतिवेदिका कण्ठशिखराणि इति एवं अष्टादशा‘कल्पनमिति यावत्स्थूपि यजमानानुगुण्येन वा कुर्यात्। पूर्वमेवं सर्वं यथाविधि पटादौनिर्माय अनन्तरं मन्दिर निर्माणं च कुर्यात्। इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायांबालालयप्रतिष्ठाविधिः नाम तृतीयः परिच्छेदः N/A References : N/A Last Updated : January 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP