संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| सप्तविंशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - सप्तविंशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता सप्तविंशोऽध्याय: Translation - भाषांतर विश्वामित्र:--शृणु काश्यप सर्वेषां प्रायश्चित्तं च कर्मणाम् ।यागकर्मसु सर्वेषु विहीनेषु द्विजर्षभ ॥१॥प्रायश्रित्तं विधातव्यमिति शास्त्रस्य निश्रय: ।प्रासदनाशे संजाते कृत्वा बालालयं बुध: ॥२॥तत्र विन्यस्य कर्मार्चां कारयित्वा यथापुरम् ।आलयं तत्र देवस्य प्रतिष्ठां संविधाय च ॥३॥पुण्याहं कारयित्वाथ संप्रोक्ष्य च जगद्गुरुम् ।स्नापयित्वोक्तमार्गेण ब्राह्मणान् भोजयेदपि ॥४॥पीठविश्लेषणे जाते लाक्षासज्जरसं तथा ।गुग्मुलुं कुरुविन्दं च गुलं(डं?) तैलं च गैरिकम् ॥५॥अष्टभागाभिवृद्धैस्तु क्रमादेभि: सुवेष्टितै: ।संश्लेष्य सुट्टढं कृत्वा वालुकाभिश्च पूरयेत् ॥६॥सर्वाङ्गषु च देवस्य चन्दनै[र्नवपन्तकै: ](?) ।कर्पूरगारुकाश्मीरहिमाम्भोमिश्रितैर्द्विज ॥७॥संलिप्य वेष्टयित्वा च नवक्षौमयुते(गे?)न च ।पुण्याहवाचनं कृत्वा विधाय स्नपनं हरे: ॥८॥स्वतन्त्रे ?चेद्दिशाहोमं कृत्वा होमं सभाज्य च ।भोजयित्वा द्विजाग्र्यांश्च दक्षिणां दापयेदपि ॥९॥विन्ष्टे मण्टपे कृत्वा मण्टपं तद्यथापूरम् ।कारयित्वा च पुण्याहं स्त्रापयित्वा हरिं तत: ॥१०॥हुत्वा च मूलमन्त्रेण शतमष्टाधिकं तथा ।भोजयित्वा द्विजांस्तत्र दद्यात्तेभ्यश्च दक्षिणाम् ॥११॥प्रासादद्वारभङ्गे वा संभवेऽयं (?) विधिर्भवेत् ।सल्मीकदर्शनेनै(चै?)व प्रासादस्यान्तरे द्विज ॥१२॥आमूलात् खनयित्वा तं प्रदेशं पूरयेदपि ।वल्मीकमृदिभ: शुद्धाभि: कारयेत् स्त्रपनादिकम् ॥१३॥आलयेऽशनिपाते च वह्लिदाहे च पूर्ववत् ।कारयित्वा प्रदेशं तं संप्रोक्ष्य स्त्रपनं तथा ॥१४॥कारयित्वा वैष्णवानां भोजनादीनि दापयेत् ।नदीस्त्रेत:समावेगात् पतिते धाम्रि काश्यप ॥१५॥वर्जयित्वा तु तं देशं शुभे देशे च मन्दिरम् ।कारयित्वा प्रतिष्ठाप्य तत्र देवं श्रिय: पतिम् ॥१६॥प्रतिष्ठोक्तेन विधिना शेषमन्यत् समाचरेत् ।[प्रतिष्ठाहीबेरस्य स्थापनं सार्वकालिकम्] (?) ॥१७॥[तत्पूर्वं ब्राह्मणविधिं गृहीत्वा स्थापयेदपि] (?) ।कालतिपातशान्त्यर्थं हुत्वा चाष्टसहस्त्रकम् ॥१८॥नयनोन्मीलनादन्यत् कृत्वा संस्थापयेच्च तम् ।प्रतिमायास्तु पतने जाते सद्य: समाचरेत् ॥१९॥कुण्डमण्डलहीने तु कारयेत् पुनरेव तत् ।हुत्वा जितं त(ते?)मन्त्रेण शतमष्टाधिकं चरेत् ॥२०॥महाध्वजविहीने तु चिह्लो वा पतितेऽपि वा ।पतितं सम्यगादाय चिह्लं संत्यज्य देशिक: ॥२१॥पुनरन्यत् स्थापयित्वा हुनेद(?)ष्टमहस्रकम् ।स्त्रपनादि यथापूर्वं शेषमन्यत् समाचरेत् ॥२२॥ध्वजतोरणहानौ तु पनु: कृत्वा तु तद्द्विकम् ।पुण्याहवाचनस्त्रानप्रभृत्यन्यत् समाचरेत् ॥२३॥शूलस्थापनहीनं चेच्दूलं कुर्यात्पुन: स्थिरम् ।सत्नन्यासविहीनं चेत् कृत्वा रत्नाधिवासनम् ॥२४॥कृत्वा च पीठमूले तु निक्षिप्य सुट्टढं यथा ।कारयित्वा च सुधया स्त्रपनादि समाचरेत् ॥२५॥अङ्कुरार्पणहीनं चेदङ्कुरानर्पयेत् पुन: ।अप्ररूढं यदि त्याज्यं रक्तं श्यामे च वापयेत् ॥२६॥सर्वत्र स्त्रपनादीनि कारयेच्च विचक्षण: ।अष्टमङ्गलहीनं चेत् कारयित्वा पुनर्द्विज ॥२७॥पुण्याहवाचनं कृत्वा प्रोक्षयेत् कुशयरिणा ।समाराधनीहीने तु कालमेंकं मधुद्विष: ॥२८॥द्विगुणं कारयेद्धीमान् नैवेद्यावाहनादिकम् ।द्विकालहानौ स्त्रपनं नवकुम्भैर्विधाय च ॥२९॥द्विगुणं पूजयेच्चैव हविरादि च कारयेत् ।एकपूजनहानौ च दशभि: सप्तभिश्श(श्च ?)तम् ॥३०॥कलशै: स्त्रापयित्वा च हवनादि मामाचरेत् ।तदूर्ध्वं पञ्चदिवसपर्यन्तं पञ्चविंशतिम् ॥३१॥कलशं स्थापयित्वा च स्त्रपनादीन् समाचरेत् ।पुनर्दशाहपर्यन्तं पञ्चाशदिभर्धटैर्द्विज ॥३२॥देवेशं स्त्रापयित्वा च हवनादि समाचरेत् ।तदूर्ध्वं मासपर्यन्तमेकाशीतिघटैर्द्विज ॥३३॥विधाय स्त्रपनं शेषं यथापूर्वं समाचरेत् ।मासषट्काधिके हीने समाराधनकर्मणि ॥३४॥संप्रोक्षणं विधातव्यमिति शास्त्रस्य निश्चय: ।अब्दत्रिद्वयहीने च प्रतिष्ठतां कारयेद् द्विज ॥३५॥अग्रिकार्ये पुनहीने पुन: संस्कारमाचरेत् ।हुत्वा चाष्टोत्तरशतं व्याहृतीभिर्धटैरपि ॥३६॥नवभि: स्त्रापयेद्देवं शेषं पूर्ववदाचरेत् ।उत्सवाग्रौ विराहिते सन्धातिक्रमणेऽपि च ॥३७॥पञ्चविंशद्धटजलै:(?) स्त्रापयित्वा हरिं प्रभुम् ।पुण्याहवाचनादीनि यथापूवां समाचरेत् ॥३८॥सन्ध्यातिक्रमणेऽप्येष विधि: स्याद् द्विजपुंगव ।अविनीते गुरौ सर्वं कर्म तेन न कारयेत् ॥३९॥अन्यमानीय च गुरं मीचीनं समाचरेत् ।अज्ञानाद्यत्कृतं कर्म तद्गुरुश्च समाचरेत् ॥४०॥बलिप्रदानहानौ च बलिं कुर्याद्यथापुरम् ।[अष्टोत्तरशतैर्होमै[र्मूलमन्त्रेण कारयेत् ॥४१॥एककालं बलेर्हानौ द्विगुणं च बलिं हरेत् ।कुर्याच्च पूर्ववच्छेषमिति सन्त: प्रचक्षते ॥४२॥विहीने स्त्रुक्?स्त्रुवे(?)चैव स्त्रुक्स्त्रुवं(वौ ?) प्रविधाय च ।होमस्त्रपनमुख्यानि यथापूर्वं तु कारयेत् ॥४३॥रक्तस्त्रीदर्शने धाम्रि [खात्वा(?)तं देशमावसे:](?) ।सिकताभिश्च संपूर्य पञ्चगव्यै: समुरक्ष्य च ॥४४॥एकाशीतिघटस्त्रानं दिनानि त्रीणि पञ्च च ।पुण्याहं च समाधोष्य भोजयेद् ब्राह्मणानति ॥४५॥दिने दिने च जुहुयादष्टोत्तरसहस्त्रकम् ।चण्डालप्रभृतीनां च हीनानां दर्शने सति ॥४६॥शुद्धाम्भसा कुशाग्रेण प्रोक्षयित्वा प्रभुं द्विज ।हुनेद(?)ष्टोत्तरशतमष्टार्णेन द्विजोत्तम ॥४७॥सूतिकाशौचयुक्तैश्चाप्यन्त्यजै: स्पर्शने सति ।एकाशीतिघट: स्त्राप्य शेषं पूर्ववदाचरेत् ॥४८॥चोरादिभिर्गलैर्वापि बिम्बोद्धारे कृते सति ।पूर्ववत्कारयित्वा च प्रतिष्ठामपि सत्तम ॥४९॥दिशाहोमं च मन्त्रस्य स्त्रानं त्यक्त्वा समाचरेत् ।प्रतिष्ठोक्तक्रमाच्चैव(मेर्णवे ?) स्त्रपनादि समचरेत् ॥५०॥[संप्रोक्षणे विधिरयं प्रोक्तो द्विजवरात्मज (?)] ।य इत्थमाचरेद्यस्तु(?) प्रायश्चित्तं समाहित: ॥५१॥सर्वान् कामानिहावाप्य प्राप्रोत्यन्ते परं पदम् ।इति ते सर्वमाख्यातं यन्मया ब्रह्मणो मुखात् ॥५२॥श्रुतं तस्मात् समुद्धृत्य सारं संक्षेपतो मुने ।पञ्चरात्रामृताम्भोधिं मथित्वा सासंग्रह: ॥५३॥प्रोक्तो मयायं तस्मात्त्वमेतच्छ्रुत्वावधार्य च ।अनेन विधिना देवं प्रपन्नार्तिहरं हरिम् ॥५४॥समाराधय देवं त्वं प्रायश्चित्तात्मन: पदम् ।गुह्माद् गुह्मतमं म(त ?)न्त्रं सारात्सारतीरं मुने ॥५५॥सप्तविंशतिभि: प्रोक्तमध्यायै: कश्यपात्मज ।विश्चामित्रीयनाम्रैतन्मयोक्तत्वात् प्रथां गतम् ॥५६॥नाशिष्याय प्रदातव्यं न संसारनिवासिने ।वैष्णवाय प्रदातव्यमुपसन्नाय धीमते ॥५७॥इति श्रुत्वा मुनिश्वेष्ठ: काश्यप: सुप्रसन्नधी: ।प्रणम्य भगवन्तं तं विश्वामित्रं तपोनिधिम् ॥५८॥कृताञ्जलिपुटो भूत्वा ध्यायन् नारायणं प्रभुम् ।खमाश्रमं समासाद्य भक्तियुक्तेन चेतसा ॥५९॥त्यक्तन्यसर्वव्यासंग: वाङ्मन:कर्मभि: सदा ।पञ्चकालरतो भूत्वा समाराध्य श्रिय: पतिम् ॥६०॥अवाप्य (प?) परमं धाम यतो नावर्तते पुन:॥इति पञ्चरात्रे महोपनि?षदि विश्वामित्रसंहितायांप्रायश्चित्तविधिर्नाम सप्तविंशोऽध्याय:॥॥ हरि: ओम्॥ N/A References : N/A Last Updated : January 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP