विश्वामित्रसंहिता - अष्टादशोऽध्याय:

विश्वामित्रसंहिता


विश्वामित्र:---
उत्सवारम्भदिवसात् प्रागेव ग्रामवीथय: ।
संशेधनीया: सर्वा: स्रुरुद्धृत्यावकरानपि ॥१॥
सर्वेषु चत्वेरष्वेव कल्प्यास्तोरणराजय: ।
फलभारानता: कल्प्या: कदल्य: क्रमुका अपि ॥२॥
वीथीमध्येषु सिकता: प्रसार्या: समता यथा ।
ध्वजैश्च दर्भमालाभि: प्रभा(पा ?)भि: शोभयेदपि ॥३॥
आपुल्त्य गोमयाम्भोभि: ककुभश्च विशोधयेत् ।
भित्तयो गेहाराजीनां पञ्चवर्णविचित्रिता: ॥४॥
वेदिका: पूर्णकुम्भैश्च साङ्कुरै: पालिकागणै: ।
सर्वतो दीपिकाभिश्च गन्धतैलाक्तवर्तिभि: ॥५॥
भूषिता: कमनीया: स्यु: क्षौमशोभितनीविका: ।
उत्सवे देवदेवस्य सेवाकौतुकिनां नृणाम् ॥६॥
देशान्तरादागतानामन्नाद्यं कल्येदपि ।
गन्धोदकै: सुसंपूर्णा:कार्या: पानीयशालिका: ॥७॥
समागतेषु रोगार्ता भवेयुर्यहि तत्कृते ।
सर्वैषधीनां संभारा: संकल्प्या: स्युर्ट्टढं द्विज ॥८॥
अपूर्वशयनार्थं(?)च मञ्चा: कार्या: सुशीतला: ।
सर्ववस्तुषु(सु?)संपूर्णा कायां विपणिवीथय: ॥९॥
कूपा: सर्वे निपानाढ्या: करणीया: समन्तत: ।
आवृतौ प्रथमायां वा द्वितीयावरणपेऽथवा ॥१०॥
यथावकाशं कुर्वीत महान्तं यागमण्डपम् ।
चतुर्द्वारसमायुक्तं विस्तारायामत: समम् ॥११॥
मण्डपस्य चतुर्दिक्षु प्रपां च परिकल्पयेत् ।
कुर्यान्मण्डपमध्ये तु वेदिं हस्तसमुच्छ्रिताम् ॥१२॥
द्वित्रिहस्तसमायुक्तां तावद्विस्तारसंयुताम् ।
तस्या: पूर्वदिशो भागे चतुरश्रं प्रकल्पयेत् ॥१३॥
कुण्डमाहवनीयाग्रेर्याम्ये च धनुराकृति ।
दक्षिणाग्रे: प्रतीच्यां तु वृत्तं सभ्यं च कल्पयेत् ॥१४॥
सौम्यभागे त्रिकोणं स्यादैशान्यां चतुरश्रकम् ।
आग्रेय्यां वा प्रकर्तव्यमावस्थ्यं तु ( थ्यस्य ?) धिष्णियम् ॥१५॥
एवं पञ्चाग्रिसंस्युक्तमुत्सवं विदधीत् वा ।
आवसथ्यविनाभूतचतुर्दिक्संस्थापावकम् ॥१६॥
सभ्यावसथ्यरहितं यद्वाग्रित्रयसंमितम् ।
अथावाहवनीयाग्रिमेकं वा कल्पयेद् द्विज ॥१७॥
क्षीरद्रुमैश्चतुर्द्वारे तोरणानि प्रकल्पयेत् ।
स्त्रुक्स्त्रुवौ कारयेदष्टमङ्गलानि यथापुरम् ॥१८॥
तैरेव ऋत्विजां कल्प्यान्यासनानि मनीषिणा ।
नानाविधानि होमार्थपात्राण्यपि च कारयेत् ॥१९॥
?B मण्डपांश्च प्रपाश्चैव लेपयेद्ग्रमयाम्भसा ।
सुधाचूर्णैश्चित्रयित्वा क्षौमैरपि वितानयेत् ॥२०॥
कौशेयक्षौमवसनै: स्तम्भानपि च वेष्टयेत् ।
आचार्यांश्चतुर: पूर्वात् वरेयत् षोडशर्त्विज: ॥२१॥
परिचारान् बहुविधान् स्वीकुर्यात् कर्मवानपि ।
भूषयेत्तानभिनवैर्वासोभि: कटकादिभि: ॥२२॥
भूषणैश्च यथावित्तमधिकारानुरूपत: ।
उत्तरीयैश्च सोष्णीषैरनुलेपनस्तुभि: ॥२३॥
उत्सवारम्भदिवसे तथान्यै: स्नापयेदपि ।
कुम्भैरष्ठशतैर्देवं सर्वमङ्लसंयुतम् ॥२४॥
उत्सवारम्भदिवसात् पूर्वस्मिन् दिवसे गुरु: ।
देवस्य कौतुकं बध्वा देवयोश्च तदनन्तरम् ॥२५॥
हेम्रा निष्कप्रमाणेन सूत्रमेकं प्रकल्पयेत् ।
तदर्धसंमितं सूत्रत्रयं निर्मापयेदपि ॥२६॥
सौवर्णो राजते वापि पात्रे कलमतण्डतुले ।
भाराद्य(?)संमिते पूर्वं स्वर्णसूत्रचतुष्टयम् ॥२७॥
निधाय पूगजफलैरभिन्नै: शतसंमितै: ।
ताम्बूलानां दलै: सार्धं चतु:शतमितै: सह ॥२८॥
कदल्यादिफलै सार्धं साधारं न्यस्य मूर्धनि ।
आच्छाद्य क्षौमवस्त्रेण छत्रचामरसंयुतम् ॥२९॥
दीपिकाशतसंयुक्तं सवितानं च मूर्तिप: ।
बहुशो ब्राह्मणै: सूक्तं पठदिभ: शाकुनं पुन: ॥३०॥
धाम प्र?दक्षिणं नीत्वा बहिरावरणानि च ।
कुर्यान्मङ्गलदीपैश्च प्रविशेद्देवसंनिधिम् ॥३१॥
भूतले गोमयजलैरालिप्ते चतुरश्रके ।
पूरिते शालिभारेण पात्रं विन्यस्य देशिक: ॥३२॥
पुण्याहवाचनं कृत्वा यथाविधि सभाज्य च ।
गुरुर्गृहीत्वा सूत्राणि चन्दनक्षोदवारिणा ॥३३॥
साङ्गुष्ठेना(ष्ठया ?)नामिकया संसृज्यास्त्रेण देशिक: ।
बन्धयेदुत्सवार्चाया दक्षिणे पाणिपङ्कजे ॥३४॥
देवयोर्वामकरे बध्वा गुरो: सव्येतरे करे ।
सवं एतुष्टयं बध्वा प्रत्येकं शतसंमितम् ॥३५॥
स्पृष्टवा दक्षिणहस्तेन जपेदस्त्रमनुं बुध: ।
देवमर्ध्यादिभिश्चेष्टवा महापूपान् निवेदयेत् ॥३६॥
आपूपान् पृथुकाँल्लाजान् फलानि विविधानि च ।
नृत्तगीतादिकं सर्वं देवस्याग्रे विधाय च ॥३७॥
देवं विज्ञाप्य तत्स्थानादन्यत्र विनिवेश्य च ।
तत्राभिषेकप्रभृति नैवेद्यान्तं सभाज्य च ॥३८॥
प्रतिष्ठोक्तेन विधिना शयने स्वास्तृते शुभे ॥३९॥
शाययित्वा निशां नीत्वा श्वोभूते उदिते रवौ ।
उत्तिष्ठेत्यादिमन्त्रेण देवमुत्थाप्य बह्वृचै: ॥४०॥
पठदिभ: शाकुनं सूक्तं सदेवं दिष्णुरित्यृचम् ।
सौवर्णशिबिकां देवमारोप्य प्रभया सह ॥४१॥
वाहयित्वा द्विजवरैर्गुरुत्मद्ध्यायिभि: प्रभुम् ।
सर्वमङ्गलसंयुक्तं सर्वावरणभूमिषु ॥४२॥
प्रदक्षिणेनं संचार्य दुकूलास्तरणास्तृते ।
सौवर्णे सर्वरत्नाढ्ये शाखापासंचयशोभिन: ॥४३॥
अधस्तात्कल्पवृक्षस्य सिंहपादाष्टकान्विते ।
हैमे समस्तरत्नौघरचिते चासनोत्तमे ॥४४॥
आसयित्वा बहुविधजनसंघातमध्यत: ।
उत्सवार्थं समानीतं हेमरत्नसमन्वितम् ॥४५॥
कौशेयक्षौमकार्पासवासोनिकरसंयुतम् ।
पनसाम्रकदल्यादिफलसंपत्समन्वितम् । ॥४६॥
बृहतीकारवल्यादिसर्वव्यञ्चनसंयुतम् ।
सुपक्वनालिकेराढ्यमुद्ग्रभेदविचित्रितम् ॥४७॥
गुलमूलैस्तु बहुभिर्निश्चितै: कटकास्थितै: ।
शर्कराराशिभिस्तुङ्गै: सर्वत: समलंकृतम् ॥४८॥
सौरभ्य(?)निर्मलाकारचन्दनद्रुमसंकुलम् ।
एलालवङ्त(क ?)क्लोजलातिराशिसुशोभितम् ॥४९॥
हिमाम्बुपात्र्संपूर्णं वंशनालीषु संभृतै: ।
कर्पूरनिकरौघैश्च कुङ्कुमै: पात्रसंचयै: ॥५०॥
कस्तूरीभिर्मृगमदैस्तत्तदभतोजनसंचितै: ।
संपूर्णं प्राभृतगणमाहृतं सात्त्विकैर्गुणै: ॥५१॥
भूषितै: सर्वभूपालैर्नानादिग्भ्य: समाहृतम् ।
दर्शयित्वा दर्शनीयं जनानां विस्मयास्पदम् ॥५२॥
तोषयित्वा च देवेशं विनोदैरेवमादिभि: ।
गीतैर्नृत्तादिभिश्चैव तोषयित्वा जनार्दनम् ॥५३॥
स्त्रापयित्वा च कलशैरेकाशीतिमितैर्बिभुम् ।
यथाविभविस्तारं सर्वसंभारसंभृतै: ॥५४॥
अलंकृत्य च रत्नौघससंचितैर्भूषणोत्तमै: ।
सर्वव्यञ्जनसंयुक्तं निवेद्य च महाहीव: ॥५५॥
कुम्भे च मण्डले देवमाराध्य पुरुषोत्तमम् ।
प्राप्तेऽपराह्णसमये गृहीत्वाङ्कुमृत्तिकान् ॥५६॥
विधिना पूर्वट्टष्ठेन विधायाङ्कुरवापनम् ।
यजमानेन सहित: पश्चाद्देशिकसत्तम: ॥५७॥
गत्वा च देवनिकटं साष्टाङ्गं प्रणिपत्य च ।
प्रार्थयित्वौत्सवं बिम्बं बध्वा मङ्गलकौतुकम् ॥५८॥
स्त्रानबल्यर्थयोश्चैव बध्वा प्रतिमयोरपि ।
हेतिराजस्य च तथा कृत्वा कौतुकबन्धनम् ॥५९॥
पूर्ववत्कल्पितेऽन्यत्र शयने त्वधिवास्य तान् ।
सद्य उत्थाप्य चाराध्ये धाम नीत्वा प्रदक्षिणम् ॥६०॥
यागमण्डपमासाद्य स्त्रानबिम्बं सुदर्शनम् ।
आसने संनिवेश्यैव वेदिकायां विधाय च ॥६१॥
पीठं धान्यमयं पूर्वचोदितक्रमयोगत: ।
घटान् प्रक्षालिताँस्तन्तुसंवृतान् नव पूरितान् ॥६२॥
गन्धोदकेन विन्यस्तरत्नान् क्षौमाभिवेष्टितान् ।
सर्वगन्धद्रव्युक्तान् स्वर्णनिष्कसमन्वितान् ॥६३॥
एवंविधं च करकं कृत्वा तेषां मुखेष्वपि ।
अश्वत्थलसंमिश्रान् कुशकूर्चात् निधाय च ॥६४॥
अपिधाय लतै(च तान् ?)भूमौ धान्यराशिषु निक्षिपेत् ।
मध्कुम्भं विनान्येषां वस्त्रमेकं दशान्वितम् ॥६५॥
दशहस्तायतं सूक्ष्मं सुश्र्लिष्टं परिकल्पयेत् ।
दिक्ष्वष्टासु स्थापयित्वा कुम्भानष्टौ प्रदिक्षणम् ॥६६॥
मध्ये सकरकं कुम्भं दशभारप्रमाणके ।
धान्यराशौ प्रतिष्ठाप्य मूलबेरं घटेऽर्चयेत् ॥६७॥
सुदर्शनं च करके वासुदेवादिकान् यजेत् ।
प्रधा?नदिक्संस्थे(संस्थिते ?)षु कुम्भेषु च यथाक्रमम् ॥६८॥
आग्रेयादिषु कोणेषु पुरुषं सत्यमच्युतम् ।
अनन्तं च सभाज्यैव पायसादीन्(दि ?)निवेदयेत् ॥६९॥
हविश्चतुष्कं कुम्भेषु बलिबिम्बे च नित्यश: ।
मङ्लान्यष्ट वासोभिर्वेष्ठयित्वा पृथक् पृथक् ॥७०॥
निवेशयेत्ततोऽध्स्?ताद्धान्यराशिषु च क्रमात् ।
शङ्खं चक्रं च लक्ष्मीं च पूर्णकुम्भं जलेन च ॥७१॥
श्रीवत्सं दर्पणं चैव स्वस्तिकं मत्स्ययोर्युगम् ।
एतानि मङ्लान्यष्टौ विनिवेश्य यथाक्रमम् ॥७२॥
चतुर्दिक्षु चतुर्वेदघोषणं कारयेत् क्रमात् ।
चतुरो वासुदेवादीन् ध्यात्वा प्राच्यादिषु क्रमात् ॥७३॥
अन्तिमे मूलबेरं च ध्यात्वा कोणेष्वनुक्रमात् ।
यावत्तीर्थावसानं च संनिधिं प्रार्थ्य देशिकै: ॥७४॥
वृतैश्चतुर्भिराचार्यो जुहुयादात्मपञ्चमै: ।
पञ्चस्वग्रिष्वपि तथा पायसापूपपूर्वके: ॥७५॥
तिलैस्त्रिभिर्यवैश्चैव पृथगष्टोत्तरं शतम् ।
तत्तन्मत्रैर्हुने(?)त्तत्र देवताध्यानपूर्वकम् ॥७६॥
अष्टाविंशतिवारान् वा कुण्डेषु प्रागुपक्रम: ।
पायसं कृसरं गौल्यं हरिद्रान्नं च मौद्ग्रकम् ॥७७॥
पृथगग्रिषु होतव्यं पुंसूक्तेन पञ्चसु ।
ब्रह्मादिदेवतोद्देशात् परमान्नेन च पञ्चमे ॥७८॥
नाम प्रोच्य चतुर्थ्यन्तं स्वाहान्तं जुहुयात् क्रमात् ।
परिवारपदेपेतं तत्तद्ध्यानुरस्सरम् ॥७९॥
ब्रह्मा प्रजापती रुद्रा: सर्वे देवा यथाक्रमम् ।
छन्दांसि वेदा ऋषयो गन्धर्वाश्च सरीसृपा: ॥८०॥
यक्षाश्चाप्सरसो मासा वत्सरा देव्या एव च ।
सर्वशब्दादिकाश्चाबिध्पर्वता[श्चापिहा](?)अपि ॥८१॥
भूतानि पशवो वृक्षा ओषध्य: सवनस्पती:(?) ।
औदिभदा: (उदिभद: ?) स्वेदजाश्चैव साण्डजाश्च जरायुजा: ॥८२॥
भूरादय: सप्तलोका: पाताला(?)अतलादय:(?) ।
चण्डादयश्चाप्येतेभ्यो जुहुयान्मूलविद्यया ॥८३॥
पूर्णाहुतिमिदं विष्णुरिति प्रोच्य समाचरेत् ।
प्रहरेन्नैव परिधीन् न दर्भाश्चोत्सवधि ॥८४॥
देवान् नोद्वासयेच्चैव प्रत्यहं वह्निधारणम् ।
दिधीत प्रतिदिनं जुहुयाच्च यथाविधि ॥८५॥
चतुष्टये त्रयेऽग्रीनां द्वयोरेकत्र वा स्सरेत् ।
यागमण्डपमारभ्य बलिदानं समाचरेत् ॥८६॥
सुदर्शानं च बल्यर्चामन्नमूर्तिसमन्विताम् ।
आदाय च विनिष्कम्य तद्द्वारे कुमुदादिकान् ॥८७॥
अर्चयित्वा पुरो भूम्रा(मौ ?) शुचौ दद्याद्ब्रलिं तत: ।
बलिपात्रं पुष्पपात्रमर्ध्यपात्रं च कर्तरीम् ॥८८॥
दीपपात्रं धूपपात्रं दीपांश्च परिचाकान् (का: ?) ।
एकैकशो गृहीत्वाग्रे गच्छन्त्व[न्यत्पुर:सरा](?) ॥८९॥
अन्नमूर्तिस्ततो गच्छेत्तस्मादर्वाक् सुदर्शन: ।
नित्योत्सवार्चा तदनु क्रमेणानेन देषिक: ॥९०॥
दापयेच्च बलिं कैश्चित् तद्योग्ये: परिचारकै: ।
चण्डादिप्रथमं दद्याद् द्वारेष्वावरणेष्वपि ॥९१॥
दत्वा नित्योत्सव इव बलिं दत्वा सभाज्य च ।
ग्राममध्यं समारभ्य ब्रह्मादीशान्तमर्चयेत् ॥९२॥
तत्तद्देषेषु सर्वेभ्यो बलिं दत्वशोषितम् ।
महापीठे पारिषदन् सर्वानुद्दिश्य निक्षिपेत् ॥९३॥
गुरु: सुलग्रे संप्राप्ते शयानं कौतुकं तथा ।
उत्तिष्ठेति पठन्मत्रमुत्थाप्य शयनाच्छुभात् ॥९४॥
स्वस्तिसूक्तमुखैर्विप्रै: सह निष्क्रम्य धामत: ।
रथन्तरं साम पठन् रथमारोपयेद् बुध: ॥९५॥
कल्पद्रुमसमायुक्तं हैमशैलमिवापरम् ।
गजोत्तमैश्चतुर्भिर्वा वाजिश्रेष्ठै: सुयोजितम् ॥९६॥
[पुर:स्थितं(?)]सारथिना नयेद्यन्त्रेण देशिक: ।
अथवा वेदपठनं कुर्वदिभर्द्विजपुंगवै: ॥९७॥
महापाशै: सुबद्धैश्च नयेदाकृष्य तं रथम् ।
रथाभावे गजं वाश्वं शिबिकां वाधिरोपयेत् ॥९८॥
भद्रं कर्णेतिमन्त्रेण वाहनान्यधिरोपयेत् ।
हैमया प्रभया युक्तं पुष्पस्रग्भिरलंकृतम् ॥९९॥
सौवर्णेन विमानेन कूटाकारेण शोभितम् ।
आरोप्य यानप्रवरं तत्राभ्यर्च्य यथाविधि ॥१००॥
देवदेवं ततस्तस्मै पृथुकापूपसंचयम् ।
ताम्बलुं च निवेद्याथ घृताक्तैदींपिकागणै: ॥१०१॥
वृत: सर्वत्र निनदं वाहयेद् द्विजपुंगवै: ।
धवलाम्बरसंवीतैर्मूर्ध्रि वेष्टनसंयुतै: ॥१०२॥
सकञ्चुकैर्दधानैश्च चामरव्यजनानि च ।
तालवृन्तान्यनेकानि मौक्तिकातपवारणम् ॥१०३॥
धूपपात्राणि बहुशो धारयदिभ: समन्तत: ।
पुरो यन्त्राधिरूढेन रचिताञ्जलिपाणिना ॥१०४॥
आरूढेन ध्वजवरंतार्क्ष्येण च निषेवितम् ।
पश्चच्च स्वर्णशिबिकारूढेन कनकोज्जवलम् ॥१०५॥
वेत्रदण्डं दधानेन समुत्सारयतासुरान् ।
सेव्यमानं दधानन पादुके स्वर्णनिर्मिते ॥१०६॥
उपानद्युगले(लं ?) चैव प्रत्युप्तं रत्नराशिना ।
सौवर्णपात्रनिक्षिप्तान् (प्तं ?) बिभ्राणै: शिरसा द्विजै: ॥१०७॥
गजोत्तमसमारूढै: छत्रच्छायासु संस्थितै: ।
निषेव्यमाणं देवेशं नातिशीघ्रं न लम्बितम् ॥१०८॥
प्रदक्षिणं नयेद्धामसर्वाभ(व?)रणभूमिषु ।
अधीयानैश्च चतुरो वेदान् साङ्गांश्च सर्वश: ॥१०९॥
हतिहासपुराणानि पठदिभ: स्तोत्रपद्धतिम् ।
गायदिभश्च हसदिभश्च नृत्यदिभश्च समन्तत: ॥११०॥
भिन्नाश्च बहुधा भाषा भाषमाणैश्च सर्वश: ।
वावदूकैर्बहुविधै: सर्वशास्त्रेषु निष्ठितै: ॥१११॥
सांययोगविभागज्ञै: शाबिदकैस्तत्त्वचिन्तकै: ।
सांकत्सरगणैश्चैव परस्परजयोद्यतै: ॥११२॥
पञ्चरात्रार्थनिपुणै: सेवितै: सात्त्विकैद्विजै: ।
काषायवसनैश्चैव यतिभिर्जपनिष्ठितै: ॥११३॥
एकदण्डधरैश्चैव त्रिदण्डधरणैरपि ।
ग्रामवीथी: समन्ताच्च परिभ्राम्य प्रदक्षिणम् ॥११४॥
प्रवेशसमये चापि धाम्न: सर्वावृतीरपि ।
प्रदक्षिणं परिक्रम्य प्रविशेन्मण्डपोत्तमम् ॥११५॥
तत्रावरोप्य देवेशं भद्रपीठे च धामनि ।
यागमण्डपमध्ये च विनिवेश्य सुदर्शनम् ॥११६॥
अन्नमूर्तिं च बल्यर्थपीठे सकलमुत्सृजेत् ।
द्विगुणैर्ध्रुवबेरं च समाराधनवस्तुभि: ॥११७॥
अर्चयेत् प्रत्यहं चैव सावधानेन चेतसा ।
प्रभातायां तु शर्वर्यां मण्डपे सिंहविष्टरे ॥११८॥
उत्सवार्चां निवेश्यैवमर्चयेदुक्तवर्त्मना ।
तद्व्ब्रिम्बे स्नपनार्थे वा स्नपनं वि?दधीत च ॥११९॥
एकबिम्बविधौ कुर्यान्मूलबिम्बेऽभिषेचनम् ।
स्नायपेयच्च प्रतिदिनं यथाविभवविस्तरम् ॥१२०॥
निवेदयेदथ महाहवरुत्सवकौतुके ।
गत्वा तु भूषणस्थानं भूषयेदभूषणै: शुभै: ॥१२१॥
दिवा देवं स्थिते यागसदने देशिकोत्तम: ।
मण्डलादिकमभ्यर्च्य निवेद्य च यथावसु ॥१२२॥
पूर्ववद्धवनं कृत्वा बलिं दत्वा यथाविधि ।
ग्रावीथिषु बल्यर्चां नीत्वान्यत्सर्वमाचरेत् ॥१२३॥
यथापुरं चोत्सवार्चां नयेद् ग्रामादिके बहि: ।
देवस्य पार्श्वतो लक्ष्मीदेवीं पृथ्वीमुभे हमे ॥१२४॥
अलंकृत्य नयेत्सर्धं बहिर्ग्रामादिवीथिषु ।
देवस्यैकस्य वा कुर्यात् परिक्रमणमन्वहम् ॥१२५॥
दिवसे दिवसे भूषाविशेषं कारयेदपि ।
गजाश्वादिषु यानेषु कृत्रिमेष्वधिरोहयेत् ॥१२६॥
तत्तदारोहणादीनां(णदिने ?) जलद्रोण्यवगाहनम् ।
पूर्वस्मिन्नपि सायह्ने कुर्यात् कौतुकबन्धनम् ॥१२७॥
देवस्य सविशेषार्चां विदध्याद्देशिकोत्तम: ।
दिवानक्तं च सर्वत्र बलिदानं समाचरेत् ॥१२८॥
तीर्थोत्सवात्पूर्वदिने मृगयोत्सवमाचरेत् ।
तत्पूर्वदिवसे कार्यं जलद्रोण्यवगाहनम् ॥१२९॥
तत्पूर्वावसरे देवं देवीभ्यां सह विष्टरे ।
हैमेऽधिरोप्य वीथीश्च शोभयित्वा विशेषत: ॥१३०॥
परिभ्राम्य च सर्वत्र नयेदुद्यानवाटिकाम् ।
तत्रापि च विशेषार्चां कारयेत्तद्विचक्षण: ॥१३१॥
गीतनृत्तादिका: सर्वा: क्रीडा: संदर्शयेत्तथा ।
एवं प्रतिदि?नं कुर्यात् सविशेषमहोत्सवम् ॥१३२॥
आहृतं ग्राभृतं सर्वं दर्शयेज्जनसंसदि ।
देवस्यानुग्रहं तेषां स्वयमाज्ञापयेत्तथा ॥१३३॥
आलोक्य चाननाम्भोजं देवस्य सुसमाहित: ।
मत्वा च देवोऽह?मिति प्रसादादि समाचरेत् ॥१३४॥
एवमष्टास्वती?तेषु दिवसेषु महोत्सवे ।
जाते च तीर्थनक्षत्रे नवमेऽहनि देशिकम् ॥१३५॥
आरोप्य स्यन्दनवरं भूषितं स(च ?)विशेषत: ।
ग्रामादिवीथय: सर्वा: परिक्रम्य समन्तत: ॥१३६॥
प्रवेशयेदालये तं मण्डपे चावतारयेत् ।
भद्रासने चोनवेश्य विधिवच्च सभाजयेत् ॥१३७॥
तीर्थबिम्बमलंकृत्य नवक्षौमयुगेन च ।
कौतुकं बन्धयित्वा च यानं हैममलंकृतम् ॥१३८॥
आरोप्य चक्रानुगतं भक्तेरपि निषेवितम् ।
परिक्रम्योत्सवार्चां च धाम ग्रामं प्र?दक्षिणम् ॥१३९॥
नीत्वाथ सरितस्तीरं सरसस्तटमेव वा ।
जलधेरथवा तीरे मण्डपे पूर्वकारिते ॥१४०॥
अवतार्यासनवरे संनिवेश्य च कौतुकम् ।
चक्रादिसहितं तत्र पूजयित्वा विधानत: ॥१४१॥
तीर्थबिम्बस्य पुरत: कलशान् पञ्चविंशति: ।
संस्थाप्य सप्तदश वा स्त्रपनोक्तविधानत: ॥१४२॥
अभिषिञ्चेच्च कलशैर्देवं शास्त्रोक्तवर्त्मना ।
शिष्टै: सुदर्शनं देवमभिषिञ्चेच्च वारिभि: ॥१४३॥
अभावे सरिदादीनां तेषामावाहनं बुध: ।
कारयित्वा तीर्थबिम्बं चक्रं भक्तांश्च देशिक: ॥१४४॥
निमज्जयेच्चतुष्कृत्वा तटमुत्तार्य चासने ।
निवेश्य चाप्यलंकृत्य धाम चैव प्रवेशयेत् ॥१४५॥
तत्काले सह देवेन ये निमज्जन्ति मानवा: ।
तेऽनुभूय शुभं सर्वं सर्वजन्मसमार्जितम् ॥१४६॥
सुदुष्प्रापं परं यान्ति पदमाचन्द्रतारकम् ।
देवं मण्डपमानीय सभाज्य च यथाविधि ॥१४७॥
महाहविर्निवेद्याथ प्रात: काले समाहित: ।
भक्तैर्जनैर्बहुविधै: सेविते मण्डपोत्तमे ॥१४८॥
विधाय मण्डपं(लं ?) चक्रपह्ममावरणान्वितम् ।
पुष्पैस्त्कालसंभूतै: कृष्णैश्च तुलसीदलै: ॥१४९॥
वर्णै: सितादिभि: सवैश्चित्रयित्वा च मध्यत: ।
सिंहपादाङ्किते भद्रपीठे च प्रभया युते ॥१५०॥
औत्सवं बेरमादाय क्रमादर्ध्यादिभिर्यजेत् ।
द्विषट्कमनुवर्णानि द्वादशानि(?) गुरुर्द्विज: ॥१५१॥
पृथक्पृथगुदाहृत्य जेदर्ध्यादिभि: क्रमात् ।
समस्तैरपि देवेशं यजेत्पूष्पैरनन्तरम् ॥१५२॥
अङ्गानि च हृदादीनि संप्रोच्य कुसुमैर्यजेत् ।
भूषाणानि क्रमादिष्ट्वा चक्राद्यान्यायुधान्यपि ॥१५३॥
देवानावरणस्थांश्च समभ्यर्च्य स्वनामभि: ।
मत्स्यादीनर्चयित्वाथ चतुर्विशतिमूर्तय: ॥१५४॥
पूजाक्रमेण पुंसूक्तमुच्चार्य प्रत्यृक्तं तथा ।
नारायणानुवाकं च विष्णुसूक्तं च काश्यप ॥१५५॥
देवपादाम्बुजद्वन्द्वे विक्षिपेत्कुमुमाञ्जलिम् ।
पञ्चोपनिषदैर्मन्त्रै: क्षिपेत्कुसुमसंचयम् ॥१५६॥
चतुर्दिक्षु चतुर्वेदपठनं कारयेद् द्विज ।
कोणेष्वेकायनी शाखां तन्मयै: पाठयेदपि ॥१५७॥
गीतैर्नृत्तैर्बहुविधैस्तोषयेच्च प्रभुं द्विज ।
पुष्पौधै: पञ्चवर्णाढ्यैर्देवेशमभिषेचयेत् ॥१५८॥
अन्नं चतुर्विधं चैव देवाय विनिवेदयेत् ।
जुहुयात् समिदाद्यैश्च चतुभिर्मूलविद्यया ॥१५९॥
पृथकृ पृथक् चाष्ठशतं देशिको मन्त्रवित्तम: ।
देवं प्रदक्षिणीकृत्य दण्डवत् प्रणिपत्य च ॥१६०॥
याने च देवमारोप्य प्रथमावरणस्थितम् ।
ब्रह्मादीनां च देवानां भक्तानां चापि चोत्सवम् ॥१६१॥
प्राप्तानामनुसंधातुं गमनायालयं प्रति ।
अनुज्ञां देवदेवेन कारयित्वा प्रदिक्षणम् ॥१६२॥
परीत्य सेवकैर्नित्यै: सार्धमालयमाव्रजेत् ।
तद्रत्र्या: प्रथमे यामे नीत्वा स्त्रपनण्डपम् ॥१६३॥
कलशै: स्त्रापयित्वा तं निवेद्य च महाहावि: ।
आसा़द्य यागदानं कृत्वा होमं यथाविधि ॥१६४॥
शान्तिहोमं विधायाथ प्रायश्चित्तार्थमप्यथ ।
सहस्त्रं वा शतं वारान् पञ्चोपनिषदा पृथक् ॥१६५॥
हुत्वा पूर्णाहुतिं कृत्वा पश्चादग्रि विसर्जयेत् ।
तोरणादिस्थितान् देवान् विसृज्य तदनन्तरम् ॥१६६॥
गत्वा ध्वजसमीपं च सभाज्य पतगेश्वरम् ।
निवेद्य च हिव: कृत्वा मरुत्मन्तं प्र?दक्षिणम् ॥१६७॥
उद्वासयेत् पटस्थं तं खगं संहृतियोगत: ।
ध्वजावरोहणं कृत्वा मध्यरात्रे च पाठयेत् ॥१६८॥
दण्डं ध्वजपटं चैव स्वीकुर्याद्देशिकोत्तम: ।
गरुडस्यातिमहति(ती ?) तृप्ति: स्याद् ग्रहणे हि स: (तयो: ?) ॥१६९॥
पूर्वमावाहितान् देवान् तत्तत्स्थानेपुं संस्थितान् ।
संप्रदाय बलिं तूर्यं घोषयित्वा पृथक् पृथक् ॥१७०॥
ब्रह्मणमपि चोद्वास्य मूकै: परिजनै: सह ।
अष्टाक्षरजपं कुर्यात् गुरु म?(र्म ?)न्वादिकं हरे:(?) ॥१७१॥
विधाय देवं यान्स्थामौत्सवं गर्भमन्दिरम् ।
प्रवेश्य विज्ञाप्य पुन: प्रणम्य स्वगृहं यजेत् ॥१७२॥
प्रभातायां तु शर्वर्यां यजमानस्तु देशिकम् ।
वस्त्राभरणगन्धाद्यैरलंकृत्सय सभाज्य च ॥१७३॥
दत्वोत्तमस्वर्णशतनिष्कयुक्तां तु दक्षिणाम् ।
तदर्धं वा यथाशक्ति दत्वा वच प्रणभेद्ग्रुरुम् ॥१७४॥
आचार्याणां तथान्येषां दशनिष्कप्रमाणत: ।
ऋत्विजां च तदर्धं स्यादन्येषां च तदर्धकम् ॥१७५॥
क्रमेण दक्षिणां दत्वा गायकाद्यान् जनानपि ।
स्वार्णाम्बराद्यै: संतोप्य तत्तत्कर्मानुरूपत: ॥१७६॥
द्रष्टुमुत्सवमायातान् जनान् भागवतानीति ।
पूजयेदीप्तिसतैर्द्रव्यैस्तत्तत्संतोषकारणात् ॥१७७॥
दक्षिणा चापि दातव्या सर्वेभ्यो यागकर्मणि ।
[कर्मभ्यो दक्षिणाहीनो](दक्षिणाहीकर्मभ्यो?) यागो निष्फल एव च ॥१७८॥
प्रत्युत प्रत्यवायाय यजमानस्य कल्पते ।
विभवानुगुणं तस्माद्दातव्या दक्षिणा बुधै: ॥१७९॥
कारयेदुत्सवं यस्तु देवदेवस्य शार्ङ्गिण: ।
श्रद्धया दक्षिणायुक्तं साङ्गोपाङ्ग महामना: ॥१८०॥
कुलं तारयते सर्वं यावदाभपूतसंप्लवम् ।
अश्वमेधसहस्त्रेणा यो यजेत समाहित: ॥१८१॥
यजेत यो भगवतो यागेन न समं फलम् ।
अतिरिच्येत भगवाद्यगजं फलमुत्तमम् ॥१८२॥
पुष्पयागदिनादन्वग्दिवसे तु यथापुरम् ।
नित्यार्चनं विधायाथ सायाह्ने देशिकोत्तम: ॥१८३॥
देवं बहिर्निर्गमय्य मण्डपे विष्ठरोत्तमे ।
मुक्तावितानस्याधस्तान्निवेश्य च सभाज्य च ॥१८४॥
विष्वक्सेनं च देवस्य पुरत: संनिवेश्य च ।
हविर्निवेदनान्तं च कारयेद्देवपूजनम् ॥१८५॥
निवेद्यान्ते(निवेदितं ?) दिने तस्मिन् यद्यत् पायसपूर्वकम् ।
चतुर्विद्यं वान्नजातं पृथुकापूपसक्तव: ॥१८६॥
ताम्बूलं चैतदखिलं विष्वक्सेनाय दापयेत् ।
तत्सर्वं पुरतो न्यस्य विष्वक्सेनस्य देशिक: ॥१८७॥
तस्मै निवेद्य सकलमगाधेऽम्भसि निक्षिपेत् ।
पश्चात्सेनेशसहितं देवं स्थाने प्रवेशयेत् ॥१८८॥
एष ते भगवद्यग: संक्षिप्तोऽभिहितो मया ।
अवधार्येममित्थं त्वं कृती स्या: कश्?यपात्मज ॥१८९॥

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायाम्
इत्सवविधिर्नाम अष्टादशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP