संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| पञ्चविंशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - पञ्चविंशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता पञ्चविंशोऽध्याय: Translation - भाषांतर काश्यप:---भगवन् करुणावास कङ्लारकुसुभार्चनम् ।दमनीदलपूजां च वक्तुमर्हसि मे गुरो ॥१॥विश्वामित्र:---कङ्लारकुसुमै: पूजां लक्ष्मीभर्तुर्वदाम्यहम् ।सावधानेन मनसया तच्छुणु द्विजपुंगव ॥२॥पुराम्बरीषो नामाभूद्राजर्षिर्धार्मिकोत्तम: ।चक्रकतींश्वर[श्चक्रे](?) सद्वीपां सागाराम्बराम् ॥३॥विजित्य सकलामुवीं स राजा धर्मत: प्रजा: ।रञ्चयामस सकला: प्रजा स्वा इव भूपति: ॥४॥अदर्शनेन कार्याणामन्येषां यज्ञपूरुषम् ।तोषयामास बहुभिर्यज्ञै: संपूर्णदिक्षिणै: ॥५॥एकोनमश्वेधानां शतं चक्रे महामना: ।कर्तुं शततमं यज्ञं तुरंगं सवविसृष्टवान् ॥६॥खैरं चरन्तमश्वं तमात्यैर्बहुभिर्वृतम् ।पश्यतां रक्षिणां शक्रो गृढमूर्तिर्जहार ह ॥७॥रक्षिणोऽन्विष्य सर्वत्र तुरगादिर्शनेन [तम्] (तु?) ।विषण्णवदना भूत्वा भूमिपालं व्यजिज्ञपन् ॥८॥पश्यता सावधानेन(ना ?)अ(प्य ?)स्माकं ते (तु ?) तुरंगम: ।अदर्शनं गतो देव करणीयं वद प्रभो ॥९॥इति शुत्वा गिरं तेषामम्बरीषो महीपति: ।ऋत्विक्पुरोहिताचार्यानाहूयेदं चचोऽब्रवीत् ॥१०॥मध्ये तुरंगमो नष्ट: किं कृत्यं वदत दिजा: ।इत्युक्तास्ते गिरं चेमाचुर्द्विजवरा द्विज ॥११॥अन्विष्यतां द्विजसुत: कश्चित् तेन यजामहे ।इत्युक्तो भूमिपालस्तु द्विजसूनुं स्वकैर्धनै: ॥१२॥[विक्रया(?)]नीतवान् मार्गे मया नीत: कुमारक: ।मह्मं निवेदयामास याथृत्तं मयापि स: ॥१३॥पालित: शिष्यतां प्राप्त: शुन:शेप: स वै द्विज: ।राजापि निर्विण्णमना वसिष्ठदिमुक्तवान् ॥ १४॥यज्ञ[विध्रार्थ(?)]मानीतो मया विप्रकुमारक: ।सोऽपि त्रातो भगवता विश्वाभित्रेण घीमता ॥१५॥यज्ञ: सफलतां प्राप्स्तथापि मम चेतसि ।विप्रो विशसनार्थाय मयानीत इति द्विज ॥१६॥वर्तते विचिकित्सा तु प्रयश्चित्तं समादिश ।इति पृष्ट: स भगवान् वसिष्ठो मुनिसत्तम: ॥१७॥अम्बरीषं महाराजमुक्तवान् द्विजसत्तम ।अत्मद्वाक्येन नृपते यत्त्वया द्विजबालक: ॥१८॥आनीतस्तव दोषोऽत्र न भविष्यति भूमिप ।तथापि विचिकित्सा ते सर्तते यदि चेतसि ॥१९॥ब्रह्मत्यापहं राजन् श्रुयतां व्रतमुत्तमम् ।धन्यं यशस्यमायुष्यमारोग्यजनकं महत् ॥२०॥विष्णो: प्रीतिकरं सर्वसंपदामेककारणम् ।विशेषेण श्रियो देवया: प्रीणनं तद्व्रतोत्तमम् ॥२१॥सदा धारयते देवी मीह कह्लारसूनकम् ।द्विधाभूता स्थिता शक्तिरेकैकं(व ?)मधुविद्विष: ॥२२॥श्रीमहीरूपभेदेन तस्माद्भूम्या करे धृतम् ।कह्लारं भगवत्प्रीतिकारणं तत्सभाजय ॥२३॥एवमुक्तो भगवता वसिष्ठेन महीपति: ।कह्नारैर्देवदेवेशमर्चयित्वा श्रिय: पतिम् ॥२४॥ऐहिकान् सकलान् भोगान् भुक्त्वान्ते वैष्णवं पदम् ।[गच्छेदत:](?) प्रवक्ष्यामि तव तेजोऽभिवृद्धये ॥२५॥मयाप्याराधितो देव: कह्लारै: पुरुषोत्तम: ।ब्राह्मण्यं तपसा कलब्धं यदा कश्यपनन्दन ॥२६॥तदा मां ब्रह्माण: पुत्रो वसिष्ठो भगवान् ऋषि: ।ब्रह्मर्षिस्त्वमसीत्युक्त्वा तव तेतोभिवृद्धये ॥२७॥कङ्लारैर्यज तं देवं विष्णुं सनातनम् ।इत्युक्त्वा तद्विधिं भूय: कथयित्वा मुनीश्वर: ॥२८॥जगामादर्शनं भूयस्तच्छ्रुत्वाहमपि द्विज ।जी(ची?)र्णवांस्तु व्रतेनैव तदुक्त्तेनैव वर्त्मना ॥२९॥सकृदेतेन चीर्णेन व्रतेन द्विजसत्तम(?) ।तच्छुणुप्वा(?)वधानेन व्रतं सर्वार्थसाधन् ॥३०॥ऋतुराजे वसन्ते वा तथा शरदि वा द्विज ।ज्येष्ठे वा श्रावणे वापि मासे पौषेऽथ फालगुने ॥३१॥पूर्वपक्षे तु पञ्चम्यां द्वादशीपूर्णयोरपि ।रोहिणीश्रवणादित्येष्टूत्तरासु तथैव च ॥३२॥यजमानानुकूलेषु मासर्क्षादिषु च द्विज ।त्रैवर्णिकेष्वेकतमो यजमानोऽपि काश्यप ॥३३॥प्रार्थितो यजमानेन देशिक: कारयेदिमम् ।कह्लारं भगवद्यागं सांवत्सरिकमुत्तमम् ॥३४॥आराधनदिनात्पूर्वं नवमे पप्तमेऽपि वा ।तृतीये वाथ सद्यो वा मङ्गलाङ्कुरवापनम् ॥३५॥तस्मादारभ्य कुवींत विशेषयजनं हरे: ।मण्डपादिष्वलंकरविधि: कार्यो विशेषत: ॥३६॥सर्वा[श्च वृतयो](श्चैवावृती:?) धाग्नो ग्राममध्यं च सर्वत: ।तोरणै: केतुमालामि: पताकाभिश्च सुव्रत ॥३७॥अलंकुर्यात् प्रयत्नेन यथा दिव्या भवन्तयमी ।संकल्पित्दिनात् पूर्वदिवसे तु प्रकेतनम् ॥३८॥समाप्य सकलं कर्म सर्वमङ्गलसंयतम् ।कारयेद्वापिकां खात्वा(?) तस्या: पश्चिमत: प्रपाम् ॥३९॥चतु:स्तम्भयुतामष्टस्तम्भैर्युक्त्तामथापवि वा ।विधाय स[विधानां तं [ (वितानां तु?) समीकृत्य च भूतलम् ॥४०॥विलिप्य गोमयेनाथा सुधाचूर्णैर्विचित्र्य च ।तन्मध्ये पञ्चभारेण शालीनां चतुरश्रकम् ॥४१॥विधायोपरि विस्तीर्य क्षौमं भारद्वयं पुन: ।तण्डुलानां विनिक्षप्य भारयुग्मं तदूर्ध्वत:(?) ॥४२॥वस्त्रोपरि तिलान् भारातीतान् निक्षिप्य देशिक: ।तत्कृते चतुरश्रेऽथ कुम्भं गन्धाम्बुपूरितम् ॥४३॥तन्तुवेष्ठितसर्वाङ्गं क्षौमयुग्माभिष्टितम् ।निक्षिप्य कुशकूर्चान्तं नवरत्नसुसंयुतम् ॥४४॥तन्मध्ये पृथिवीं देवीमावाह्मार्ध्यादिना यजेत् ।परितश्चाष्टकलशानिन्द्रादीस्तेषु पूजयेत् ॥४५॥सुदर्शनं च करके सर्वविध्रप्रशान्तये ।निवेदयेत् पायसं च मनुना पार्थिवेन तु ॥४६॥दत्वा च क्षेत्रपालाय तत्प्राच्यां पायसेन तु ।बलिदानं च परित: शक्रादीनां तथा बलिम् ॥४७॥दत्वा पूर्वादिशार्वान्तं भूमिर्भूग्नेतिसूक्त्तत:(कम्?) ।अधीयानोऽपि चिनुयात् पुष्पाणि सुशुभान्यपि ॥४८॥शङ्खकाहलतूर्यादिनृत्तगीतसमन्वितम् ।वापि(पि?)काया नूतनानि गृह्णीयात् कुसुमान्यपि ॥४९॥वैष्णवाश्चापि गृह्मन्तु तूण्यीं पुष्पाणि सर्वश: ।सौवर्णे ?पात्रनिचये स्थापयित्वा पिधाय च ॥५०॥पुष्पाणि च समाहृत्य कुम्भस्य स्थापयेत्पुर: ।देवयाश्चोद्वासनं कृत्वा क्षामयित्वा च देशिक: ॥५१॥गजस्कन्धाधिढैश्च वाहयेद् द्विजसत्तम ।छत्रच्छायासु चानीतै: पठदिभ: स्वस्तिसूक्तकम् ॥५२॥अधीयानैश्च पुरतो विप्रैर्वेदचतुष्टयम् ।शङ्खकाहलचिह्लानां(?) संनादस(न?)पुर:सरम् ॥५३॥तूर्यघोषैश्च पुरतो बलिरीकृतदिङ्मुखम् ।पताकाभिर्वित्राभिश्छादितातपसंचयम् ॥५४॥धाम प्रदक्षिणं कृत्वा गीतनृत्तान्वितं पुर: ।देवागारं प्रविश्यैव ध्रुवबेरपुरोभुवि ॥५५॥स्थापयित्वा च देवाय दर्शयेत् कुसुमान्यपि ।निर्गमय्य बहि: पुष्पं मण्डपं संनिवेश्य च ॥५६॥स्त्रातै: शुक्लाम्बरधरै: सोष्णीषैर्वैष्णवैरपि ।धृतोर्ध्वपुण्ड्रैर्विप्राद्यैर्मालाकर्मणि कोविदै: ॥५७॥कारयेद्विविधा मालस्तत्तद्ब्रेरप्रमाणत: ।अधिवासस्त्रजं कुर्यादाद्यामानामिलम्बिताम् ॥५८॥मूलबेरस्य कुसुमै: कुर्यात् पञ्चशतैर्द्विज ।अष्टोत्तरशतै: कुर्यात् कौतुकस्यौत्सवस्य च ॥५९॥तदर्धेन स्त्रजं कुर्या?द्देव्यो: श्रीभूमिसंज्ञयो: ।कर्मार्चाप्रभृतीनां तु पञ्चविंशतिभि: स्त्रजम् ॥६०॥आनामिलम्बितां कुर्याद्यथाहारविभूषणम् ।कुम्भमण्डलकुण्डानामधिवासस्त्रजं द्विज ॥६१॥पञ्चाशदिभ: पृथक् कुर्यात् कुसुमैर्द्विजपुंगव ।अधिवासस्त्रज: कुर्यादेवं द्विजवरोत्तम ॥६२॥तद्दिनस्त्रवप्रमाणानि प्रोच्यन्ते शृणु तान्यपि ।बेराणां तु ध्रुवादीनां प्रत्येकं पञ्चमालिका: ॥६३॥उत्तमा मध्यमा चैव तथैवाधमसंज्ञिका ।किरीटवनमाख्ये पञ्चेव स्युर्द्विजोत्तम ॥६४॥उत्तमां मूलबेरस्य कुर्यादष्टसहस्त्रकै: ।कुसुमैर्जानुपर्यन्तां मध्यमामष्टभि: शतै: ॥६५॥उरुमध्यावलम्बां तु शृणु चापि कनीयसीम् ।षङ्भि: शतैश्च पुष्पाणां नाभिलम्बां प्रकल्पयेत् ॥६६॥किरीटमालां कुवींत पुष्पैरष्ठोत्तरै: शतै: ।चतु:सहस्त्रै: कुवींत वनामालां द्विजोत्तम ॥६७॥आपादलकम्बिनीं श्लक्ष्णां वृत्ताग्रां द्विजसत्तम ।पीठस्य चापि कुसुमैरष्टौत्तरशतै: स्त्रजम् ॥६८॥कल्याणैतुके कुर्यादुत्तमां पञ्चभि:शतै: ।चतु:शतैर्मध्यमां च त्रिशतैरधमां स्त्रजम् ॥६९॥पञ्चाशदिभश्च कुसुमै: किरीटस्त्रजमादरात् ।विदध्याद्वनमालां च कुसुमै: पञ्चभि: शतै: ॥७०॥पीठस्यापि प्रकुवींत स्त्रजमष्टशतैर्द्विज ।उक्ते उत्तममध्याख्ये स्त्रजावधमसंज्ञितान् ॥७१॥त्रिद्व्रयेकशतसंख्याकै: कुसुमै: क्रमशो मुने ।प्रमाणं पूर्ववत्प्रोक्तमेतासां कुसुमस्त्रजाम् ॥७२॥बेराणं कर्मपूर्वाणां पुष्पैरष्टशतैर्द्विज ।तदर्धैरथवा कुर्यात् तदर्धैरपि वा मुने ॥७३॥तिस्रो द्वे वा तथैका वा यथासंभवमेव वा ।कुम्भमण्डलकुण्डान्तर्वर्तिन: पुरुषस्य च ॥७४॥शतद्वयेन पुष्पाणामुत्तमा स्यातु मालिका ।अध्यर्धशतपुष्पैस्तु मध्यमा परिकीर्तिता ॥७५॥कुम्भवत् करकस्यापि प्रमाणं परिकीर्तितम् ।तत्स्थानपरिवाराणामेकैकं कुसुमं भवेत् ॥७५॥कुम्भवत् करकस्यापि प्रमाणं परिकीर्तितम् ।तत्स्थानपरिवाराणामेकैकं कुसुमं भवेत् ॥७६॥पह्मनाभ्यन्त(र)नेमीनां श्रितानां चाक्रमण्डलम् ।तत्प्रमाणस्थितं कार्यं शतं द्वित्रिचतुर्गुणै: ॥७७॥पुष्पै: कार्या: स्त्रजो बाह्मे तत्प्रमाणाश्च मालिका: ।चतु:सहस्त्रै: पुष्पाणां मालिका द्विजपुंगव ॥७८॥प्रभाया: कौतुकानां स्युर्मालास्तत्प्रमाणका: ।उत्सवार्चाभायास्तु सहस्त्रद्वयसंख्यकै: ॥७९॥पुष्पैर्माला?? विधातव्या सेनापक्षीशयोरपि ।चण्डादीनां च सर्वेषामिन्द्रादीनां च कारयेत् ॥८०॥प्रत्येकं मालिका: कार्या: पुष्यैस्त्रिंशतमै(न्मिते?)र्मुने ।अन्येषां परतन्तस्त्रायां बिम्बानामपि काश्यप ॥८१॥अष्टोत्तरशतैरेबमलंकुर्याद्विचक्षण: ।आनाभिलम्बिता: कार्या हाराकरा द्विजोत्तम ॥८२॥अनेन बर्त्मना कार्या: पुष्पाणां संभवे सति ।असंपत्तौ तु पुष्पाणामर्धै: पादैरथापि वा ॥८३॥यथासंभवमेव स्यात् क्रियामेतां न लोपयेत् ।मालागणं विधायेत्थमभ्युक्ष्य हिमवारिणा ॥८४॥स्वर्णपात्रेषु विन्यस्य सितै: सूत्रैर्नवाम्बरै: ।पिधाय चक्रमुद्रां च कृत्वास्त्रेणाभिपूज्य च ॥८५॥चक्रब्जपूर्वभागे तु पञ्चभि: शालिभारकै: ।[भूपुरं(?)] कल्पयित्वैव तदूर्ध्वे नववाससा ॥८६॥आस्तृये तण्डुलान् न्यस्य भारद्वयमितानपि ।तदूर्घ्वे वाससास्तीर्णे तिलभारान् विनिक्षिपेत् ॥८७॥चतुरक्षं विधायाथ तिलैस्तस्योपरि न्यसेत् ।पुष्पपात्राणि सर्वाणि संवेष्ट्य च नवाम्बरै: ॥८८॥गुरु: स्त्रात: शुचि: स्रग्वी नवसूत्राम्बरद्वश्य: ।चदनेन विलिप्ताङ्गो हिमवार्याप्लुतेन च ॥८९॥हारकेपूरकटककुण्डताद्यैरलंकृत: ।सोत्तरीय: सितोष्णरष: स्वर्णयज्ञोपवीतिमा(तवा?)न् ॥९०॥सपवित्र: साङ्गलीयो रत्नमुद्राविभूषित: ।श्वेतमृत्स्त्राविरचितैरूतैर्ध्वपुण्ड्रैरलंकृत: ॥९१॥केशवाद्याख्यसंयुक्तैर्देशिकेर्द्विजसत्तमै: ।यजमानेन सहित: ऋत्विग्भिर्भूषितैर्वरै: ॥९२॥धामान्त: संप्रविश्यैव देवं विज्ञापयेत्तत: ।प्रणम्य दण्डवद् भूमौ कृताञ्चलिपुट: स्थित: ॥९३॥भगवन् आर्तिहरण भक्तानां पुरुषोत्तम ।कह्लाकुसुमैर्देव त्वद्धितैरर्चयाम्यहम् ॥९४॥[दयामपि(?)]च सर्वेश तदनुज्ञातुमर्हसि ।विडम्बनानि मे देव क्षान्ता पूजां जुषस्य मे ॥९५॥इति विज्ञाप्य लक्ष्मीशं सविशेषं सभाज्य च ।निवेद्य च इति: कृत्स्त्रं पुण्याहं वाचयेत्तत: ॥९६॥निष्कैस्तु दशभि: कुर्यात् कौतुकं ध्रुवविग्रहे ।त्रिभिर्निष्कै: सुवर्णस्य बिम्बे कल्याणसंज्ञिते ॥९७॥कौतुकं दक्षिणकरे बध्वा देवयोर्गुरोरपि ।प्रत्येकं निष्कमानेन कौतुकानि विधाय वै ॥९८॥करेषु बध्वा च पुनस्तथा देवं प्रणम्य च ।आरोप्य शिबिकां नीत्वा सर्वाभरणभूषितम् ॥९९॥देवं मण्डपमासद्य पूर्ववद्वस्त्रभूषितम् ।स्वनुकलप्तं सुधाचूर्णविचित्रिततलं तथा ॥१००॥वितानध्वजमुक्तास्त्रग्भूषितोर्ध्वप्रदेशकम् ।कह्लारमालासंवीतस्थूणागणविराजितम् ॥१०१॥प्रलम्बिताभि: सर्वत्र कह्लारस्त्रग्भिरुज्जवलम् ।कह्लापुष्पराचितविमानवरशोभितम् ॥१०२॥चतुर्षु द्वारदेशेषु विनिवेशिततोरणम् ।प्रतितोरणसंक्लृप्तत्स्त्रक्चन्दनमालिकम् ॥१०३॥तस्मिन् यानादवारोप्य सिंहपादाष्टकोज्जले ।कह्लारुष्परचितकल्पद्रुमविभूषिते ॥१०४॥लम्बमानाभिरभित: कह्लारस्त्रग्भिरुज्जवले ।विष्टरे विनिवेश्याथ देवं चात्र सभाजयेत् ॥१०५॥आगत्य देशिकवर: पूर्वमेवात्र मण्डपे ।मण्डलं कारयेद्विद्वान् ऋत्विग्भि: सहितो मुने ॥१०६॥चक्राब्जं स्वस्तिकं वाथ भद्रकं वा द्विजोत्तम ।मण्डलस्य बहि: कुर्यादैशान्ये धान्यसंचये(यम्?) ॥१०७॥?सथावयेच्च महाकुम्भं सूत्रवेष्टितमुत्तमम् ।क्षौमयुग्मेन संवीतं सूक्ष्मेन सदशेन च ॥१०८॥नवरत्नानि तन्मध्ये निक्षिप्य शुचिवारिणा ।पूरयेच्चन्दनादीनां गन्धानां चापि संचयम् ॥१०९॥तत्तोये विन्यसेद्विद्वान् कुश(शान् ?) कूर्चं च विन्यसेत् ।करकं चापि संवेष्ट्य पूरयित्वा सरत्नकम् ॥११०॥कूर्च च विन्यसेन्मन्त्री कुम्भं दक्षिणतो न्यसेत् ।एवं विधायाष्टकुम्भान् मण्डलस्याष्टदिक्ष्वपि ॥१११॥स्थापयित्वाग्रिकुण्डं च कुर्यादुत्तरतो द्विज ।परितो द्वारपार्श्वेषु कुम्भानवे विधाय च ॥११२॥कुम्भानष्टौ च विन्यस्य सर्वान् कुग्भांश्चतुर्दिशि ।संवेष्ट्य वस्त्रयुग्मेन वेष्टियित्वा सरत्नकान् ॥११३॥सकूर्चान् मध्यनिक्षिप्तसौवर्णाष्टमहायुधान् ।कृत्वा सर्वेषु कुम्भेषु महाश्वतथासमुदभवान् ॥११४॥पल्लवानपि विन्यस्य कलशान् स्थापयेत्तत: ।अष्टोत्तरशतं वाथ तथैकाशीतिमेव वा ॥११५॥धान्यराशिषु विन्यस्य शास्त्रोक्तेनैव वर्त्मना ।सकूर्चान् सापिधानांश्च पूरितान् गन्धवारिभि: ॥११६॥छादयित्वैव वासोभि: शयनं कल्पयेत् पुन: ।चतुरश्रे तु भूभागे गोमयाम्भोविलेपिते ॥११७॥चूर्णै: सुधामयै: सूक्ष्मैर्पिचित्रिततलोदरे ।दशभारेण शालीनां चतुरश्रं प्रकल्प्य च ॥११८॥तस्योपिरिष्टादास्तीर्य सुशुभं सवनं नवम् ।तस्यो?परि च विन्यस्य शालितुल्यप्रमाणकान् ॥११९॥तण्डुलांश्च तदूर्ध्वं(र्ध्वे ?) तु तस्य(?) विस्तारयेत् पटम् ।तिलानपि च तन्मध्ये निक्षिपेत् पूर्वसंमितान् ॥१२०॥क्षौमेणाच्छाद्य तान् पश्चादुपरिष्टात् कृतान(न्य ?)पि ।विचित्राणि सुसूत्राणि वासांस्यास्तीर्य चो?परि ॥१२१॥मूर्धोषधानं विन्यस्य पादयोरपि पार्श्वयो: ।पाणिपादविनिक्षेपयोग्यानि मृदुतूलकै: ॥१२२॥कल्पितान्पुपधानानि विन्यस्य च तदूर्ध्वत: ।प्रच्छाद्य सूक्ष्मवसनौर्दिक्ष्वष्टष्टकुम्भकान् ॥१२३॥स्थापयित्वा च पूर्वोक्तविधानेन गुरूत्तम: ।परित: स्थापयित्वा च मङ्गल्कुरपालिका: ॥१२४॥धूपयेत् परितो धूपैश्चन्दनैश्चगारूत्तमै: ।मुद्ग्रान् माषांस्तिलांश्चैव गोधूमान् सकुलुत्थकान् ॥१२५॥निष्पावान् राजमाषांश्च सर्षपान् यवसंयुतान् ।व्रीहीनपि च वियस्य प्रत्येकं शिवसंमितान् ॥१२६॥फलानि कदलीनां च पनसानां च काश्यप ।चूतानां नालिकेराणां लिकुचानां च सत्तम ॥१२७॥निधाय मातुलुङ्गानां क्रमुकाणां फलान्यपि ।ताम्बूलदलपूगं च हरिद्रा: सरसा अपि ॥१२८॥मङ्गलान्यष्ट परित: श्रीवत्सं वनमालिकाम् ।मत्स्ययुग्मं पूर्णकुम्भं स्वस्तिकं दर्पणं तथा ॥१२९॥शङ्गं चक्रं च निष्केण स्वर्णस्य च पृथक् पृथक् ।कारयित्वा च संस्थाप्य देवं विज्ञाप्य देशिक: ॥१३०॥आसीनो देवपुरत: कृत्वाङ्गन्यासर्पकम् ।अर्ध्यादीनां च पात्राणां स्थापनं च विधाय च ॥१३१॥कलशानर्चयित्वा च कुम्भसंनिहितं हरिम् ।आराध्य मण्डलस्थं च कुण्डेऽग्रिं विनिवेकश्य च ॥१३२॥देवं संपूज्य विधिवन्मन्त्रासनपूरस्क्रियाम् ।समर्य्य स्त्रानवेद्यां(दिं ?)च देवमध्यास्य पूजनम् ॥१़३३॥विधाय च क्रमाद्देवं स्त्रापयेत् कलशोदकै: ।सहस्त्रधारापयसप्यभिषिच्य विधाय च ॥१३४॥नीराजनक्रियां चैवमलंकारासनं नयेत् ।भूषयित्वा च या(मा ?)त्रान्तं संपूज्य च यथाविधि ॥१३५॥भोज्यविष्टरगं देवं सभाज्यार्ध्यादिना तत: ।मधुपर्कं निवेद्याय ताम्बूलं विनिवेद्य च ॥१३६॥सवत्सं धेनुयुगलं स्त्रग्भिश्च समलंकृतम् ।हेमसंकल्पितखुरं शृङ्गवेष्टितमर्चितम् ॥१३७॥आचार्याय प्रदायाथ दत्वा धान्याष्टकं तत: ।कुम्भमण्डलीबम्बेषु पञ्चवर्णान्नसंचयम् ॥१३८॥निवेद्य लेह्मपेयानि विनिवेद्य महाहवि: ।अपूपसहितं पश्चात् ताम्बूलं मुखवासनम् ॥१३९॥विनिवेद्य च सर्वेषां बेराणां च विशेषत: ।देवयोश्च सर्वेभोगाढ्ये विधाय च सभाजनम् ॥१४०॥तिलान् वस्त्रं सुवर्णं च रत्नं तण्डुलानपि ।ताम्बूलं घृतपात्रं च दत्वाचार्याय दक्षिणाम् ॥१४१॥तत: कुण्डसमीपं च गत्वावाह्म च पावके ।देवं समिद्घृतचरुहोमं च सुविधाय च ॥१४२॥कह्लारकुसुमैराज्यसंपृक्तैर्जुयात्तत: ।अष्टोत्तरसहस्त्रैश्च शान्तिहोमं विधाय च ॥१४३॥भस्मना तिलकं कृत्वा देवमुद्वास्य चाग्रिगम् ।गत्वा सकशं देवस्य हवनं च समर्प्य च ॥१४४॥बलिं च दत्वा परित: कुमुदादिगणस्य च ।संप्रार्थ्य देवदेवेशमानीय कुसुमस्रज: ॥१४५॥शङ्खकाहलतूर्यादिनादयुक्तं पृथक् पृथक् ।कुम्भे च मण्डले चैव कुण्डे चैकेकश: स्त्रज: ॥१४६॥अधिवासाय विविहता विनिवेश्यौत्सवेऽपि च ।बिम्बे देवयोश्च धामान्तर्गत्वा मूलादिकेष्वपि ॥१४७॥बिम्बेषु विनिवेश्याथ पुनर्गत्वा च मण्डपम् ।देवं क्षमापयित्वा च शयने चाधिरोपयेत् ॥१४८॥तत्रस्थस्य च देवस्य देवीभ्यो सहितस्य च ।धान्यपात्रादिसकलान् दर्शयित्वा पृथग्विधान् ॥१४९॥यथापुरं संनिवेश्य शयने चापि शाययेत् ।श्रीभूमिसहितं देवं प्राङ्मूर्धानं द्विजोत्तम ॥१५०॥कम्बलै: सितरक्ताद्यैर्देवार्हैरवकुण्ठ्य च ।दिक्ष्वष्टासु स्थापयित्वा हेतीश्चक्रादिका: पृथक् ॥१५१॥यजमानेन सहितो जाग्रदेवं नयेन्निशम् ।स्तोत्रेश्च वेदघोषैश्च गीतैर्नृत्तैश्च देशिक: ॥१५२॥प्रभाते गुरुरुत्थाय स्त्रात्वा नित्यविधिं द्विज ।समापय्य ततो गत्वा देवपार्श्वं च देशिक: ॥१५३॥प्रणम्य देवमुत्थाप्य विष्टरे चोपवेश्य च ।कुम्भाते गुरुरुत्थाय स्त्रात्वा देवपार्श्वं च देशिक: ॥१५४॥अर्ध्यादिमुधपर्कान्तं देवं च स्त्रानवेदिकाम् ।अधिरोप्य तत: कुम्भै: स्त्रापयित्वाधमोत्तमै: ॥१५५॥अलंकृत्या यथापूर्वं विष्टरे विनिवेद्य च ।अर्चयित्वा यथापूर्वं हवीषि विनिवेद्य च ॥१५६॥महा?हवश्च दशाभिस्तण्डुलानां कृतं तथा ।भारै: सर्वफलोपेतै: सर्वव्यञ्जनसंयुतै: ॥१५७॥प्लतैर्धृतेन गव्येन गालितेन शुभेन च ।अपूपपृथुकाद्यैश्च खाद्यवर्गै: सुसंस्कृतै: ॥१५८॥निवेदयित्वा बिम्बानां ध्रुवादीनां च सत्तम ।अग्रौ च हुत्वा विधिवत् समिष: सप्त देशिक: ॥१५९॥पूर्णामपि विधायाथ देवाय विनिवेद्य च ।समये शोभने प्राप्ते यजमानशुभावहे ॥१६०॥अर्चयित्वा यथाकुम्भं कुण्डमण्डगं हरिम् ।[बहिर्म](वह्लिम?)ध्ये स्थितं देवं बिम्बस्थमपि तं प्रभुम् ॥१६१॥अर्चयित्वा विधानेन द्वारतोरणापूर्वकम् ।कुम्भस्य कल्पिता माला: सकला विनिवेश्य च ॥१६२॥मण्डलस्य च कुम्भस्य माला: सर्वा द्विजोत्तम ।कल्याणैतुकं चैव परिभूष्य विधाय च ॥१६३॥बलिपीठावसानं च भूषयित्वा समन्तत: ।प्रासादं चापि तत्संस्थं देववृन्दं च देशिक: ॥१६४॥पवित्रैरिव मालाभि: परिभूष्य समन्तत: ।कुसुदादिगणं सर्वमिन्द्रादीनापि सर्वत: ॥१६५॥तर्पयित्वा बहुविधैर्बलिभिर्वास्तुदेवता: ।धान्यपात्राणि सर्वाणि मड्गलानि तथाष्ट च ॥१६६॥फलानि च समस्तानि ताम्बूलीपूगिकाश्च ता: ।देवाय दर्शयित्वा तत्सकलं देशिक: स्वयम् ॥१६७॥शयनादि समस्तं च गृह्णीयात् स्वयमेव तत् ।कुम्भमण्डलकुण्डादिसंस्थितं देवतागणम् ॥१६८॥उद्वास्य पुष्पयागोक्तविधिना कुम्भपूर्वकम् ।वाहने देवदेवेशं रथादावधिरोप्य तम् ॥१६९॥ग्रामं वा धाम वा सर्वं परिभ्राम्य प्रदिक्षणम् ।गर्भगेहान्तरं नीत्वा देवं कुम्भस्थवारिणा ॥१७०॥प्रोक्षयित्वा ततस्तत्र देवं सम्यङ्निवेष्य च ।संप्रार्य्य देवदेवेश यजमानेन संयुत: ॥१७१॥गृहाण देवदेवेश कह्लारकुसुमै: कृताम् ।त्वद्दत्तैर्भोगनिचयै:संपूर्णां सर्वकामदाम् ॥१७२॥इति विज्ञाप्य देवेशं प्रणिपत्य क्षमापयेत् ।तस्मिन् काले च गुरवे यजमानस्तु दक्षिणाम् ॥१७३॥[दद्यान्निष्कशतं स्वर्णकतं](?) यद्वा तदर्धकम् ।पशून् गृहाणि ग्रामांश्च वस्त्राणि विविधान्यपि ॥१७४॥अन्येभ्यश्चापि ऋत्विग्भय: सहकारिजनाय च ।तत्तकार्यानुरूपेण प्रदद्याद्दक्षिणामपि ॥१७५॥गायकेभ्यो नर्तकेभ्यो वेदविद्भ्यश्र सर्वत: ।वादकेभ्यश्च तूर्याणामुपकारिभ्य एव च ॥१७६॥संप्रीणनार्थं निष्काणि वस्त्राणि विविधान्यपि ।प्रदपयेद्यथाशक्ति वित्तशाठ्यं न कारयेत् ॥१७७॥प्रभातायां रज्न्यां च पूजाया अवसानके ।जपनीय च माल्यानि वैष्णपेभ्य: प्रदापयेत् ॥१७८॥ये धारयन्ति शिरसा देवभुक्तोज्ज्ञितानि तु ।माल्यानि तानि ते सर्वे दुष्कृतं सप्तजन्मजम् ॥१७९॥अवधूय प्रपद्यन्ते विष्णुलोक पुनर्नरा: ।य: कारयति विप्रेन्द्र पूजोमेतां मधुद्विष: ॥१८०॥अकिंचनोऽपि लभते पृथ्वीराज्यमकण्टकम् ।भुक्त्वा च विविधान् भोगानिह लोके सुदुर्लभान् ॥१८१॥गजाश्वरथनागा(?) ढ्यान् पुत्रपौत्रसमन्वितान् ।यशसा भुवनं सर्वं धवलीकृत्य मानव: ॥१८२॥पितॄनपि समुत्तार्य दश पूर्वान् दशावरान् ।देहान्ते परमं धाम प्राप्रोत्यपुनरागतिम् ॥१८३॥आचार्यमपि तं देवभुक्तोच्छिष्टस्त्रगादिभि: ।अलंकृत्य गजाश्वादियानमारोप्य चाग्रत: ॥१८४॥भेरीकाहलशङ्खादिवाद्यधोषपुर:सरम् ।वेदविदिभर्द्विजश्रेष्ठै: सेव्यमानं समन्तत: ॥१८५॥छत्रचामरसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ।प्रवेशयेत् स्वकं गंहं सर्वङ्गलसंयुतम् ॥१८६॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायांकह्लारकुसुमारोपणं (णविधि:?) नाम पञ्चविंशोऽध्याय:॥ N/A References : N/A Last Updated : January 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP