संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| सप्तमोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - सप्तमोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता सप्तमोऽध्याय: Translation - भाषांतर विश्वामित्र:----श्रूयतां द्वादशार्णस्य मन्त्रराजस्य संविधि: ।यस्य श्रवणमात्रेण मुच्यते सर्वपातकै ॥१॥अभ्यर्च्य मातृकाचक्रादुद्धरेद् द्वादशाक्षरम् ।उद्ग्रीथमुद्धरेत् पूर्वं विध्रेशं विष्णुपूर्वकम् ॥२॥मन्दरं चौदनयुतं सुभद्रं चाप्रमेयकम् ।गदध्वंसं विप्णुशीर्षं वरुणं चादिसंयुतम् ॥३॥संप्रसारणसंयुक्तमेकनेत्रमत: परम् ।आदिदेवयुतं कुम्भमनन्तरसुदीरयेत् ॥४॥सश्रीधरं पूर्णचन्द्रमत्रिं माधवसंयुतम् ।मधुसूदनसंयुक्तं पीयूषात्मानम???ञ्चितम् ॥५॥अप्रमेययुतं शङ्खमुद्धरेन्मुनिसत्तम ।एंव द्वादशवर्णस्य मन्त्रवर्यस्य सुव्रत ॥६॥विष्णुर्दण्डसमायुक्तो बीजमस्य प्रकीर्तित: ।क्रुद्धोल्काय महोल्काय वीरोल्काय तथैव च ॥७॥व्युल्काय च सहस्त्रादि उल्कायेति च पञ्चम: ।तेजोल्काय च षष्ठ: स्यादिग्रजायान्तिमा इमे ॥८॥हृदयाद्यङ्गमन्त्रा: स्यु: षडेते मन्त्रसत्त्मा: ।अथवा द्वादशार्णस्य स्थानेषु द्वादशखपि ॥९॥इयं क्लृप्ति: परस्यैव वासुदेवस्य कीर्तिता ।विभवादे: पुनबींजं भास्कर: स गुणालय ॥१०॥अर्धचन्द्रसमायुक्तं पुनरङ्गप्रकल्पनम् ।द्वादशात्मानमुद्धृत्य वरुणेन समन्वितम् ॥११॥आदिदेवं पञ्चबिन्दुं हृषीकेशं च गोधनम् ।अनिरुद्धमनुं चौर्वं षडिमान् दण्डिन: पठेत् ॥१२॥एते क्रमेण संयोज्या नत्यन्ताश्चाङ्गकल्पने ।व्यूहादौ विष्णुरस्य स्यात् बीजदण्डेन संयुतम् ॥१३॥क्रुद्धोल्कादीनि वा बीजं वर्णद्वादशकं तु वा ।बीजपक्षे द्वादशाङ्ग: षडङ्गोऽन्यस्य मन्त्रराट् ॥१४॥त्रिषु पक्षेषु ब्रह्मार्षिर्वासुदेव: स्वयं स्मृत: ।छन्दश्च देवीगायत्रं देवतापि स्वयं भवेत् ॥१५॥सितो वर्णश्च तत्त्वं स्यात् बुद्धि: क्षेत्रं परं वियत् ।बीजपक्षे द्वादशाङेग बीजानि द्वादशच्छवि ॥१६॥प्रणवाद्यं नमोऽन्तं च बीजान्ते नामसंयुतम् ।न्यस्य पश्चाज्जपेन्मन्त्रं पूर्ववद्ध्यानसंयुतम् ॥१७॥करयोर्व्यापकं न्यस्य दशव्ङ्गुलिषु क्रमात् ।विन्यस्य दशवर्णांश्च शिष्टं तं मूध्रिं विन्यसेत् ॥१८॥[देव](हे ?)पि पूर्ववत् जञ्च वर्णान् विन्यस्य देशिक: ।शिरसश्च चतुर्दिक्षु पूर्वादिषु चतुष्टयम् ॥१९॥विन्यस्य पूर्ववच्छेषं न्यसेद्वर्णत्रयं द्विज ।पूर्वस्मात्तु विशेषोऽस्य देव: स्फटिकसंनिभ ॥२०॥शेषाहिभोगे विपूले सुखासीनो भवेत् स्वयम् ।उभाभ्यां पार्श्वसंस्थाभ्यां देवीभ्यां सहितो विभु ॥२१॥जपेद् द्वादशलक्षं तु तदर्धं तर्पणं भवेत् ।तदर्धं च भवेद्धोम एवं सिध्यति मन्त्रराट् ॥२२॥द्वादशार्णसमो मन्त्रो विद्यते न कदाचन ।संकर्षणमनुं वक्ष्ये श्रृणु त्वमवधानत ॥२३॥द्वादशार्णात् समुद्धृत्य प्रथमं सप्तवचर्णकम् ।चतुर्थ्यान्तं स्वनामैव पठेद्विन्यस्य वै द्विज ॥२४॥प्रद्युम्रस्यानिरुद्धस्याप्येवमेव विधि: स्मृत: ।द्विषट्काक्षरवत् सर्वे ऋष्यादिकमुदीरितम् ॥२५॥अग्रिप्राकारमन्त्रस्य विधानं श्रृणु सर्वत: ।वेदीन् (दिं ?) पूर्वमुद्धृत्य वह्निं गोपे(प?)नसंयुतम् ॥२६॥सार्धचन्द्रे समुद्धृत्य भद्रपाणिं समाधवम् ।उद्धृत्य द्वादशार्णोऽयमाग्रिप्राकारसंज्ञित ॥२७॥सर्वमन्त्रसमारम्भे कृतोर्ध्वस्तां सतर्जनीम् ।मूर्ध्र: परिसमुद्धृत्य भ्रामयेत् त्रि: प्रदक्षिणम् ॥२८॥गायत्र्या विष्णुपूर्वाया वर्णोद्धारक्रमं श्रृणु ।उदग्रीथं पूर्वमुद्धृत्य मन्त्रस्याष्टाक्षरस्य तु ॥२९॥[आद्य:](द्यात् ?) परं पञ्चवर्णास्तत: कुम्भं सविष्णुकम्(?) ।वैराजं मन्दरयुतं साप्रमेयमुदीरयेत् ॥३०॥संप्रसारणसंयुक्तं दीप्तिमन्तं समुद्धरेत् ।द्वादशाक्षरमन्त्रस्य पञ्च पर्णानुदाहरेत् ॥३१॥धीमहीति पदं चोक्त्वा विजयं विष्णुसंयुतम् ।भद्रपाणियुतं पश्चाद् वीरसेनयुतं पठेत् ॥३२॥कलशं बन्धुसहितं शान्तं मुमुखसंयुतम् ।सश्रीधरं सर्गयुतं पिठीत्वा तदनन्तरम् ॥३३॥?पवित्रमग्रिविष्णुभ्यामुद्धृत्य प्रेतनायकम् ।वासुदेवसमाक्रान्तमत्रिं प्रथमसंयुतम् ॥३४॥चतुर्गति[साति(दि ?)देश](व ?)मुक्त्वा वैराजमुद्धरेत् ।केवलं (लो ?) विष्णुगायत्रीमनूरेवं समुद्धृत ॥३५॥ऋषिर्ब्रह्मास्य गायत्रं छन्दो विष्णुश्च देवता ।क्रूद्धोल्कादीनि चास्य स्यु: षडङ्गानि महामते ॥३६॥शिरोललाटनयनद्वयश्रवणयुग्मके ।मुखे कण्ठे च हृदये बाहुमूल्युगेऽपि च ॥३७॥कूर्परद्वितये चैव मणिबन्धयुतेऽपि च ।करयोरुदरे गुह्मे चोरुजङ्घापदद्वये ॥३८॥?B विन्यसेत् क्रमशो वर्णान् वर्णवर्णानत: शृणु ।हेमाभरक्तधूमाभसितासितसुपाअला ॥३९॥श्वेतपीतारुणश्यामसितरक्तनिभा: क्रमात् ।स्फटिकस्वर्णदुर्वर्णशशिरश्मिसमं तत ॥४०॥पह्मकिञ्चल्कसंकाशं विद्रूमस्वर्णवर्णकम् ।नक्षत्राभं तथा रक्तं तारावर्णं तथारुणम् ॥४१॥रविबिम्बाभमित्येते वर्णा: प्रोक्ता महामते ।देव: पूर्वोक्तवद्ध्येयो विशेषो गरुडस्थित ॥४२॥इत्थं ध्यात्वा जपेत् प्रात: मध्याह्ने स्फटिकप्रियम् (प्रभम् ?) ।सायं च प्रातरेवं तु नवाम्बुदनिभं स्मरेत् ॥४३॥चतुर्विशतिलक्षं स्यात् जपस्तर्पणहोमयो: ।प्रमाणमध्यर्षमिति प्रोक्ता मन्त्रेश्वरा इमे ॥४४॥[चत्वार: साधके] (चतुषुं साधिते ?) ष्वेषु साक्षाद्विष्णुर्भवेत् स्वयम् ।श्रीकराष्टाक्षरमनोरुद्धारं कथयाम्यहम् ॥४५॥उत्तरे श्रीधरं पूर्वं मायाबीजद्वयं भवेत् ।उग्रात्मा कौस्तुभयुतो विष्णुशीर्षीस्ततो भवेत् ॥४६॥श्रीकरेति त्रयो वर्णा: पठितस्य ततोऽप्यनु ।उच्चरेदयुगं पश्चादष्टार्णोऽयं मनूत्तम ॥४७॥सानलं द्वादशात्मानं महामायासमन्वितम्॥आद्येन संयुतं बीजं मन्त्रस्यास्य प्रचक्षते ॥४८॥क्रुद्धादीति षडङ्गानि प्रजा?पतिमृषिं द्विज ।अवेहि देवीगायत्रं छन्दो देव: श्रिय: पति ॥४९॥पूर्वाष्टाक्षरवत् सर्वं प्रत्यर्णं मुनिपूर्वकम् ।छायायां कल्वृक्षस्य सर्वभूषणधरिणम् ॥५०॥गरुडस्य चतुर्बाहो: स्कन्धस्योपरि संस्थितम् ।उष्टबाडुं किरीटादिसर्वाभरणभूषितम् ॥५१॥सततं दिव्यगन्धादिविलेपनविभूषितम् ।दक्षिणे चक्रमुसले बाणाङ्कुशधरं भुजे ॥५२॥वामे च शङ्खं सगदं धनु:पाशौ च बिभ्रतम् ।पीताम्बरधरं पूर्णचन्द्रवत् प्रियदर्शनम् ॥५३॥[गरुत्मन्तोपरि संस्थाप्य भुजाभ्यां पादपङ्कजे] (?) ।[बिभ्राणं देवदेवस्य शेषपाणियुगेन च] ॥५४॥पीयूषकुम्भं स - - (?) निक्षिप्तं दधतं स्मरेत् ।देवीं लक्ष्मी च देवस्य वामपादोरुसंभृताम् ॥५५॥हेमवर्णां शुभां क्षौमवासिनीं दिव्यभूषणाम् ।[स्थितिचच्चदिव्यपुष्प] (सततं दिव्यगन्धादि ?)विलेपनविभूषिताम् ॥५६॥पाशाङ्कुशधरां सौम्यविग्रहां गीतयेन्मनुम् ।जपेद् द्वादशसाहस्त्रं व्रतस्थ: संयतेन्द्रिय ॥५७॥लक्ष्मीनारायणमनुं वक्ष्यामि शृणु सुव्रत ।उच्यते [द्विषड्वर्ण](डर्ण)स्य प्रथमं [सर्व](प्त ?) वर्णकम् ॥५८॥उद्धृत्य मूर्तिनामानि चतुर्थ्यन्तानि योजयेत् ।बीजान्याद्याक्षराण्येवं तारबिन्दुयुतानि च ॥५९॥[अन्योषां द्वादशार्णां तु (?) पूर्वं चत्वार ईरिता:] ।[व्यूहाख्यायितरेषां (?) तु अष्टानां शृणु सुव्रत] ॥६०॥नारसिंहोऽधोक्षजश्च अच्युत: पुरुषोत्तम: ।[जनार्दनोपेन्द्रहरि:] (?) कृष्णश्चाष्टौ प्रकीर्तिता ॥६१॥एतेऽष्टौ - -(?) वर्णानां प्रागुक्ता ये च पूर्ववत् ।चतुर्थ्यन्त[स्वनाम्ने](म्रै ?)व पश्चाद्वीजेन पूर्ववत् ॥६२॥अङ्गानि च यथापूर्वं छन्दो गायत्रमुच्यते ।ऋष्यादि पूर्ववत् सर्वं पुनश्चर्या च पूर्ववत् ॥६३॥मत्स्यादिदशमूतींनां उक्त्वादौ वर्णसप्तकम् ।उक्त्वा च मूर्तिनामानि रूपायेत्यन्तिमे पदे ॥६४॥बीजमाद्यर्ण एव स्यात् सामान्येन सबिन्दुक:॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां[द्वादशाक्षरादिमन्त्रोद्धारविधिर्नाम] सप्तमोऽध्याय:॥ N/A References : N/A Last Updated : January 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP