विश्वामित्रसंहिता - एकादशोऽध्याय:

विश्वामित्रसंहिता


काश्यप:---
होमं कृत्वेति भगवान् भवता विहितं मम ।
तत्प्रकारो न संदिष्ट: संक्षेपेणापि तं वद ॥१॥
विश्वामित्र:---
प्रकारमग्रिकार्यस्य शृणुष्वावहितो मुने ।
दीक्षाविधौ प्रोक्षणे च प्रतिष्ठोत्सवयोरपि ॥२॥
प्रायश्चित्तेषु सर्वेषु स्नपनेषु विशेषत: ।
एवमादिषु चान्येषु सर्वेष्वपि च कर्मसु ॥३॥
सामान्येन वदान्यद्य हवनं शृणु सुव्रत ।
पचनालयमासद्य प्रक्षाल्य चरणावुभौ ॥४॥
आचान्तस्तस्य याग्यांशे कुण्डं कुर्यात् सलक्षणम् ।
एकहस्तसमायामं चतुरश्रं त्रिमेखलम् ॥५॥
ओष्ठनाभिसमायुक्तं विस्तारसटृशावटम् ।
मूर्धा तु पूर्वदिग्भागे त्वीशानाग्नेयकोणगौ ॥६॥
बाहु नैऋर्तवायव्यकोणगं पदयोर्युगम् ।
जठरं कुण्डमध्यं स्याद्योनिर्योनिर्विधीयते ॥७॥
कुण्डपश्चिमदिक्संस्थमध्यास्यासनमुत्तमम् ।
सोत्तरीय: सोर्ध्वपुण्ङ् प्राङ्मुखो होममाचरेत् ॥८॥
कुण्डं संमार्ज्य चालिप्य गोमयेन सहाम्भसा ।
कुशै: संमार्ज्य तैरेव प्रोक्षयेन्मूलविद्यया ॥९॥
केवले स्थण्डिले वापि हवनं विधिवच्चरेत् ।
आत्मानो दक्षिणे पार्श्वे विन्यसेत् पुष्पभाजनम् ॥१०॥
होमद्रव्याणि चान्यानि वामपार्श्वे निधापयेत् ।
सकुशा: समिध: स्थालीं चरो: पात्रं घृतस्य च ॥११॥
स्त्रुकस्त्रुवौ परिर्धीस्तोयमक्षतानि च मेक्षणम् ।
व्यजनानि च दर्वीं च शुष्ककाष्ठसमुच्चयम् ॥१२॥
अग्रेर्विहरणं चैव गन्धद्रव्यं सचूर्णकम् ।
न्यस्य द्वन्द्वानि चैतानि प्रयुञ्जयात् सति संभवे ॥१३॥
लिखेत् प्रागायतास्तिस्त्रो रेखा: कुण्डस्य मध्यमे ।
उदीच्यश्च तथा तिस्त्रो लिखित्वा मूलविद्यया ॥१४॥
दर्भाद्वयं तद्विसृज्य पार्णि प्रक्षाल्य चाम्भसा ।
मथितं लौकिकं वापि पावकं तत्र निक्षिपेत् ॥१५॥
प्रणवेन विधृत्याग्रिं समूह्म च परिस्तरेत् ।
त्रिभिस्त्रिभिर्दर्भखण्डै: प्रागुदह्मूर्धभिस्तत: ॥१६॥
द्रव्याग्रिमध्ये विन्यत्य प्रणीतामद्वक्षतार्चिताम् ।
अपां पूर्णां तत: कूर्चं दर्भाभ्यो प्रपिघाय च ॥१७॥
प्रादेशमात्रनिर्मेयं छेदनं तस्य च त्रिभि: ।
दर्भै: पवित्रैस्तैरेव प्रणीताञ्जलिमर्पयेत् ॥१८॥
प्रोक्षणीमात्मनश्चाग्रे सकूर्चां तां च निक्षिपेत् ।
कूर्चं तत् करयोर्धृत्वा साङ्गुष्ठानामिकाग्रत: ॥१९॥
त्रिस्त्रपूय च कूर्चेन पुनराघारसंयुतम् ।
होमद्रव्याणि सर्वाणि प्रोक्षयेत् तज्जलेन च ॥२०॥
स्पृशेच्च तानि द्रव्याणि स्वस्वनाम्राभिधाय च ।
प्रदक्षिणं स्त्रावयेच्च प्रोक्षणीवारि सर्वत: ॥२१॥
प्रणीतामम्भसापूर्य देवं तत्र सभाजयेत् ।
अग्रेर्दक्षिणदिग्भागे दर्भैरास्तीर्य चासनम् ॥२२॥
कूर्चे ब्रह्माणभावाह्म तदग्रे विनिवेद्ये च ।
इष्ट्वा गन्धादिभिर्द्रव्यैर्विष्णुगायत्रिया पुन: ॥२३॥
तण्डुलानाढकमितान् स्थाल्यां निक्षिप्य शोध्य च ।
अग्रावधिश्रित्य च तां पाचयेच्चरुमञ्जसा ॥२४॥
गालितं द्रावितं त्वाज्यमाज्यस्थाल्यां निरुप्य च ।
मूलमन्त्रेण दर्भाग्रयुगं विन्यस्य तत्र च ॥२५॥
उत्तरेणाग्रिमङ्गारेष्वारोप्याथ सवहिना ।
दर्भेण कृत्वा पर्यग्रिं त्रीन् वारानवतार्य च ॥२६॥
दर्भमग्रौ विनिक्षिप्य घृतं स्वपुरतो न्यसेत् ।
त्रिरुत्पूयाथ कूर्चं तमदिभ: स्पृष्ट्वा च पावके ॥२७॥
प्रहरेदमृतीकुर्यादाज्यं सुरभिमुद्रया ।
सभाजयेदिन्द्रमुख्यान् दिक्पालान् क्रमशस्तत: ॥२८॥
स्त्रुक्स्त्रुवावुष्णपयसा संक्षाल्य कुशकूर्चकम् ।
तेन तौ स्त्रुक्स्त्रुवौ मूले मध्ये मूर्ध्रि च संमृजेत् ॥२९॥
कूर्चस्य मूलमध्याग्रै: क्रमेण मुनिपुंगव ।
अम्रौ निष्टप्य चोदीच्यामात्मनस्तौ निधाय च ॥३०॥
घृतं स्त्रुवेण चादाय सेचयेद्धोमवस्तुषु ।
संसिच्य सरुमाज्येन पात्रे चाप्यवरोप्य तम् ॥३१॥
पायसन्नं गुडान्नं च मौद्ग्रं केवलमेव च ।
चरुं चतुर्विधं कुर्यात् चुल्यां वापि पचेच्चरुम् ॥३२॥
बिम्बे निवेद्यते यद्यत् तत्सर्वं जुहुयादपि ।
प्रत्यगारभ्य परिधीन् उदक्संस्थान् निधापेयत् ॥३३॥
परिषिच्याथ परित: शिखीशानदिशि न्यसेत् ।
समिधं पुनाप्येकां प्रणीतोपरि विन्यसेत् ॥३४॥
निधाय मनसा ध्यायन् साक्षाल्लक्ष्मीपतिं प्रभुम् ।
आज्याक्तानेकसंस्थाग्रान् जुहुयात् सकृदेव च ॥३५॥
कुशकूर्चास्तृते वामे पाणावाज्यं निधाय च ।
प्राजापत्यमथैन्द्रं चाप्याधारहुतिमाचेरत् ॥३६॥
आज्यभागं च जुहुयादाग्नेय्यां दक्षिणार्धके ।
सौम्यमुत्तरभागे च मध्ये व्याहृतिभिर्हुनेत् ॥३७॥
होमकाले स्मरेदग्निं सप्तहस्तं द्विशीर्षकम् ।
पादत्रयेण संयुक्तं जिह्वासप्तकसंयुतम् ॥३८॥
वरदं शक्तिहस्तं च दधानं स्त्रुक्स्त्रुवावपि ।
अभीतिदं चर्मधरं वामे चाज्यधरं करे ॥३९॥
काल्याख्या[यां तु] (यस्तु ?)(जह्वा[यां] (या ?)मध्यमं स्थानमुच्यते ।
कृष्णवर्णा च सा ज्ञेया करा?ली रक्ततवर्णिका ॥४०॥
ततसथानं पूर्वदिग्भागे पीतवर्णा मनोजवा ।
सा दक्षिणदिशि ज्ञेया लोहिता वह्निवर्णिका ॥४१॥
सा स्यात् ?पश्चिमदिक्संस्था धूम्रा चान्वर्थनामिका ।
सोमदिक्संस्थिता सा स्यात् श्वेतवर्णा स्फुलिङ्गिनी ॥४२॥
वह्निकोणगता सा स्यात् विश्वरूपाथ सप्तमी ।
बिम्बीफलरुचि: सा स्यादीशाननिलया च सा ॥४३॥
काल्यां शान्तिकहोम: स्यात् कराल्यां विजयो भवेत् ।
मनोजवा पुष्ठिकरी लोहितायां चशीकृति: ॥४४॥
धूम्रायां मारणं कुर्यात् स्फुलिङ्गिन्यां समृद्धय: ।
विश्वरूपाह्वयायां स्यादणिमादिमहाफलम् ॥४५॥
तिलानाघारसंमिश्रान् जुहुयाज्जलशान्तये ।
द्विषडर्णेन मन्त्रेण हुनेदष्टशताहुती: ॥४६॥
पूर्णाहुत्यवसाने तु वैष्णवाग्रिं प्रकल्पयेत् ।
गर्भाधानादि कर्तव्यमग्ने: कर्म च वैदिकम् ॥४७॥
कुण्डे लक्ष्मीमृतुस्नातां सर्वाभरणभूषिताम् ।
देवं नारायणमपि ध्यात्वा सर्वाङ्गसुन्दरम् ॥४८॥
प्रथमेन तु बीजेन गर्भाधानं विधाय च ।
द्वितीयेन तु बीजेन कुर्यात् पुंसवनं तत: ॥४९॥
सीमन्तोन्नयनं कुर्यात् तृतीयेनैव साधक: ।
जातकर्म चतुर्थेन नामकर्म परेण तु ॥५०॥
षष्ठेनान्नाशनं चौलं सप्तमेनोपनायनम् ।
अष्टमेन विधातव्यमष्टाक्षरमनोरयम् ॥५१॥
विधि: क्रमाद्विधातव्यो द्विषडर्णविधिं शृणु ।
चतुर्भिर्नवमाद्यैस्तु बीजे: कुर्याद्यथाविधि ॥५२॥
प्राजापत्यं च सौम्यं च तथाग्नेयमनन्तरम् ।
वैश्वदेवक्रमे तानि चत्वारि च यथाक्रमम् ॥५३॥
बृतिबीजं च तुहुयाद् द्वादशाक्षरविद्यया।
साङ्गेन सकलेनाथ मन्त्रेणाष्टोत्तरं शतम् ॥५४॥
हुत्वा गन्धादिभिर्द्रव्यै: सकलैरग्रिमर्चयेत् ।
तन्मध्ये देवदेवस्य योगपीठं प्रकल्पयेत् ॥५५॥
सकृत्सकृच्च तन्मन्त्रैर्गव्येनाज्येन वै हुनेत् ।
तन्मध्ये हृदयाम्भोजादवतार्य श्रिय: पतिम् ॥५६॥
मन्त्रन्यासादि सकलं यथाविधि विधाय च ।
अर्ध्यादीनां षोडशानां भोगानां षोडशाहुती: ॥५७॥
क्रमेण परिवाराणामेवं हुत्वा सकृत् सकृत् ।
एवं कुर्यादभगवत: सप्तार्चिषि सभाजनम् ॥५८॥
अनन्तरं च बिम्बादावाराधनविधिर्यदि ।
वक्ष्यमाणेन जुहुयात् पालाशै: समिधादिकै: ॥५९॥
समिधस्तालमाना: स्यु: कनिष्ठानहना अपि ।
स्थूलोद्वेगकरी ह्नस्वा वृष्ट्यभावाय वै समित् ॥६०॥
अतिवृष्टिकारी दीर्घा चर्महीनार्थनाशकृत् ।
भिन्ना कुलक्षयकरी क्षता भार्याविनाशनी ॥६१॥
क्षोभकृच्च सशाखा स्यात् पुराणा पुत्रनाशनी ।
बन्धुनाशकरी चार्द्रा सजन्तु: सर्वनाशकृत् ॥६२॥
निर्दोषाश्च धृताक्ताश्च होतव्या: समिधो मुने ।
चरुं सद्ध्तृसंमिश्रं ग्रासमुद्राप्रमाणत: ॥६३॥
आज्यं स्त्रुवेण जुहुयात् करेण समिधो हुनेत् ।
पलशपर्णेन चरुं केवलेन करेण वा ॥६४॥
अखण्डितानि पुष्पाणि फलान्यपि हुनेद् द्विज ।
धान्यानां च तिलानां च तण्डुलानां च काश्यप ॥६५॥
प्रमाणमङ्गुल्यग्रैस्तु यावत् सूद्धारमञ्जसा ।
तावत्प्रमाणं जुहुयाद् धृतेनाभ्यज्य मन्त्रवित् ॥६६॥
एवं यथोक्तविधिना हुत्वाथो देशिकात्तम: ।
पञ्जोपनिषदा कुर्यात् प्रायश्चित्तं घृतेन तु ॥६७॥
सदर्भसमिधं चैव स्त्रुचमाज्?याभिपूरितम् (ताम् ?) ।
स्त्रुवेण पिहितां तावन्नासिकाग्रान्तमुद्धरेत् ॥६८॥
मूलून्त्रेण जुहुयात् पूर्णाहुतिरियं भवेत् ।
दर्भान् सर्वान् समादाय विनियुक्तान् यथाक्रमम् ॥६९॥
[अद्यप्रभृति(?)सकलं] दग्धवा निरवशेषत: ।
अनुयाजं तथाधारसमिधौ परिधीनपि ॥७०॥
ऊर्ध्वं हुत्वा प्रणीतां तु स्थापयेदात्मन: पुन:(र:?) ।
प्रोक्षणीजलमादाय प्रणीतामवसिच्य च ॥७१॥
पूर्वादि सोमपर्यन्तं जलं संसेचयेत् क्षितौ ।
पश्चिमेन तु निक्षिप्य तनुं संप्रोक्ष्य चात्मन: ॥७२॥
ब्रह्मणमपि चोद्वास्य परिषेकं विधाय च ।
अग्रिमध्यगतं देवं स्वहृदब्जे समर्प्यं च ॥७३॥
स्त्रुवं (चं?) जलेन संपूर्य बहि: कुण्डात्प्रक्षिणम् ।
सेचयित्वाथ शेषेण प्रोक्ष्य चात्मानमेव च ॥७४॥
भस्मना तिलकं कृत्वा गृहीतार्ध्य: प्रविश्य च ।
धाम्रि देवस्य पादब्जे हवनं तत् समर्प्य च ॥७५॥
यथाशक्ति मया देव यदग्रौकरणं तव ।
आराधनं तद्यथावद्ग्रृहाण परमेश्वर ॥७६॥
इति विज्ञाप्य देवेशं दण्डवत् तं प्रणम्य च ।
कृतकृत्यो भवेदुक्तमग्रिकार्यं मया तव ॥७७॥
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायाम्
[अग्रिकार्यविधिर्नाम] एकादशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP