संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| चतुर्दशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - चतुर्दशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता चतुर्दशोऽध्याय: Translation - भाषांतर विश्वामित्र:---प्रतिष्ठां शृणु विप्रर्षे देवदेवस्य शर्ङ्गिण: ।सर्वलोकेषु यद्वस्तु स्थावरं जङ्गमं तथा ॥१॥द्रष्टुं यच्छक्यते सर्वै: श्रोतुं वा द्विजसत्तम ।तेषामन्तर्बहिरपि(?) व्यापकत्वेन सं(य:?)स्थित: ॥२॥तस्य विष्णोर्भगवत: प्रतिष्ठा कीट्टशी भवेत् ।तथा हि मन्दबुद्धीनां विश्वासायाभिधीयते ॥३॥धाम्रस्तु पूर्वदिगभागे दक्षिणे चोत्तरेऽथवा ।पश्चिमे वापि कर्तव्यं मण्डपं(?) कोणदिक्ष्वपि ॥४॥वर्जदन्तरालेषु मण्डपस्य विनिर्मितिम् ।षट्त्रिंशदिभर्युतं स्तम्भैर्यद्वा षोडशमिभर्द्विज ॥५॥द्वारैश्चतुर्भि: सहितं दर्भमालाभिवेष्टितम्क्षैमपट्टवितानाढ्यं लम्बमुक्ताफलस्त्रजम् ॥६॥द्वारपार्श्वयुगन्यस्ततोयपूर्णघटै(टं?) र्द्विज ।लेपितं गोमयाम्भोभि: सुधारेखाविचित्रितम् ॥७॥दीपमालापरिवृतं पुष्पमालाभिलम्बितम् ।पिभाजयेच्च तन्मध्यमेकाशीतिपदै: समै: ॥८॥तन्मध्ये नवभि: कुर्यात् पदैर्वेदिं विधानत: ।वेदिं च परित: कुर्यात् कुण्डानि द्विजसत्तम ॥९॥चतुरश्रं तथा चापं वृत्तं चतुर्दिशम् ।मङ्गलान्यष्ट याज्ञीयैर्द्रमै: कृत्वा च विन्यसेत् ॥१०॥मैरी च वृषभो नागश्चामरं केसरी तथा ।पताका ध्वजदीपांश्च (दीपौ च?) मङ्गलान्यष्ट काश्यप ॥११॥प्रतिष्ठादिवसात् पूर्वं नवमे सप्तमेऽपि वा ।पञ्चमे वापि दिवसे मङ्गलाङ्कुररोपणम् ॥१२॥कुवीतं विधिवद्रात्रिमुखे द्विजवरोत्तम ।अधिवासदिनात् पूर्वे दिने मुनिवरोत्तम ॥१३॥बिम्बस्य शुद्धये कुर्यात् जलाधिवसनं द्विज ।आचार्यो यजमानश्च मूतिर्पपै: सहितस्तदा ॥१४॥स्नात: शुक्लाम्बरधर: स्वनुलिप्त: स्वलंकृत: ।यजमानानुकूलर्क्षे मुहर्ते शोभने सति ॥१५॥पुण्यहवाचनं कुर्यात् ब्रह्मणैर्वेदपारगै: ।प्रोक्षणं पञ्चगव्येन कृत्वा स्थानस्य शुद्धये ॥१६॥प्रविश्य कर्मशालायां प्रतिमावलोक्य च ।अस्त्रोदकेन संक्षाल्य पीठं रत्नशिलामपि ॥१७॥रथमारोप्य बिम्बं तत् सर्वमङ्गलसंयतुम् ।तीर्थदेशं समासाद्य नदीं वा पार्श्ववर्तिनीम् ॥१८॥पवित्रमन्त्रं प्रजपेत् त्रीन् वाराँस्तस्य शुद्धये ।क्षीरार्णवं जले तस्मिन् ध्यात्वा दारुमयं तत: ॥१९॥पर्यङ्कं नववस्त्रेण संछन्नं विन्यसेत्तत: ।तस्मिन् प्राङ्मस्तकं देवं शाययेन्मूर्तिपैर्द्विजै: ॥२०॥प्रागादौ शयनाद्बाह्मे कलशानष्ट विन्यसेत् ।तेष्विन्द्रादीन् समभ्यर्च्य बलिं च विकरेत्तत: ॥२१॥कारयित्वा प्रपां तत्र तीरे वेदादि पाठयेत् ।गीतनृत्तादिभिश्चैव दिनशेषं नयेद्द्विवज ॥२२॥रात्रौ च दीपान् प्रज्वाल्य रक्षां तत्र विधाय च ।गत्वा च मण्डलं तत्र विन्यसेद्द्विजपुंगव ॥२३॥चक्राब्जं स्वस्तिकं वापि तस्य तस्य प्रागुत्तरे द्विज ।शालीनां दशभिर्भारैस्तण्डुलैश्च तदर्धकै: ॥२४॥तिलैस्तदर्धसंख्यैश्च मध्ये मध्ये पटास्तृतै: ।विधाय राशिं तस्योर्ध्वे विन्यसेत् कुम्भमुत्ततमम् ॥२५॥तन्तुजालेन संवेष्टय क्षौमाभ्यामभिवेष्टय च ।निधाय कूर्चं रत्नानि नव हे(है?)मं तथाम्बुजम् ॥२६॥विन्यस्य पल्लवावाँश्चस्ये तद्वक्त्रमपिधाय च ।कुम्भे च मण्डले चैव देवमावाह्म पूजयेत् ॥२७॥द्वारतोरणपूजां च पूर्ववत् सम्यगर्च्य(र्प्य?) च ।कुम्भमण्डलगे देवे पायसादि निवेद्य च ॥२८॥कुण्डे वहिं प्रतिष्ठाप्य हुत्वा चाष्टसहस्त्रकम् ।समिच्चरुधृतैश्चै पूर्णामपि विधाय च ॥२९॥प्रतिष्ठितं(?) द्रव्यगणमशेषमधिवास्य च ।गत्वा जलशयं पश्चात् सर्वमङ्गलसंयुतम् ॥३०॥पाठयित्वा चतुर्वेदान् गापयित्वा च गीतकान् ।नर्तयित्वा च सरितो(गणिका?) जागरेण नयेन्निशाम् ॥३१॥तत: प्रभातसमये गुरुर्मूर्तिपसंयुत: ।स्त्रात: श्वेताम्बरधर: कृतपौर्वाह्णि?कक्रिय: ॥३२॥अकंकृतो यथापूर्वं मण्डपं संप्रविश्य च ।द्वारतोरणकुम्भादीनभ्यर्च्य विधिना तत: ॥३३॥कुम्भस्थं विष्णुमभ्यर्च्य करकस्थं सुदर्शनम् ।कुम्भाष्टके च परित: शक्रादीनभिपूज्य च ॥३४॥मण्डलस्थं च देवेशं साङ्गं सपरिवारकम् ।आराधयित्वा नैवेद्यपश्चिमैर्भोगसंचयै: ॥३५॥वह्निमध्यास्थितं देवं समिदिभ: सप्तभि: क्रमात् ।इष्ट्वा विकीर्य पुरतो बलिं द(ग?)त्वा जलाशयम् ॥३६॥प्राप्तेऽपराह्णे तद्बिम्बं रथमारोप्य देशिकम् ।अलंकृत्य च द्विक्स्थैर्वेदानध्याप्य च द्विजै: ॥३७॥एकायनीं पुर:(न:?)शाखां पाठयित्वा च तां द्विजै: ।श्रीसूक्तं भद्रसूक्तं च शाकुनं सूक्तमप्यथ ॥३८॥पुंसूक्तं विष्णुसूक्तं च भगवत्प्रतिपादकान् ।मन्त्रानपि पठदिभश्च वैष्णवैर्भगवन्मयै: ॥३९॥शङ्खकाहलसंमिश्रतूर्यघोषपुरस्मरम् ।सिद्धार्थानस्त्नसंजप्तानाचार्यो मूर्तिपै: सह ॥४०॥विकिरन्नग्रतो यातात् सर्वविघ्रोपशान्तये ।ग्रामं प्रदक्षिणं कुर्वन्नालयं संप्रवेशयेत् ॥४१॥अवतार्य शनैर्बिम्बं रथमण्डलसंनिधिम् ।जपन् नृसिंहस्य मनुं स्थापयित्वा तदग्रत: ॥४२॥विज्ञापयेन्मण्डलसथं देवं तद्ग्रतमानस: ।त्वत्समाराधनार्थाय देवदेव श्रिय: पते ॥४३॥प्रकल्पितमिदं बिम्बं त्वदभक्तहितकाम्यया ।प्रतिष्ठां कर्तुमिच्छामि प्रसदी परमेश्वर ॥४४॥विज्ञापनीमदं कृत्वा प्रणाम्याष्टाङ्गसंयुतम् ।प्राप्यानुज्ञां च पीठोर्ध्वे बिम्बं तदुपवेश्य च ॥४५॥पुण्याहवाचनं कृत्वा द्वा:स्थानभ्यर्च्य पूर्ववत् ।कुम्भादिष्वपि चारध्य हुत्वाग्रौ च गुरूत्तम: ॥४६॥कुण्डेषु मूर्तिपान् होतुं नियुज्य च समन्त: ।आसाद्य बिम्बनिकटं सर्वदुष्टनिवारणम् ॥४७॥ज्वलत्प्रभं सहस्त्रारं ध्यात्वा तन्मन्त्रमन्त्रितान् ।सिद्धार्थान् प्रतिमामूर्ध्रि तन्मन्त्रेण विनिक्षिपेत् ॥४८॥शिल्पिशालेत्थदोषाणां शान्त्यै स्त्रपनाचरेत् ।बिम्बस्य परित: कुम्भानष्टौ संस्थापयेद्गुरु: ॥४९॥आवेष्टय तन्तुभिर्वस्त्रयुग्मेनावेष्टय तान् बहि: ।क्षीरं शुद्धजलं रत्नतोयं हेमाम्बु गन्धकम् ॥५०॥फलपुष्पजले बीजतोयं पूर्वादि विन्यसेत् ।हेतिराजेन कलशापन् साङ्नष्टाभिमन्त्रितान् ॥५१॥तन्मन्त्नेणाभिषिञ्चेत् तं पूर्वादीशदिगष्टकम्॥ ( के?) ।अनेन स्नपनेनैव शिल्पिदोषो विनश्यति ॥५२॥ततश्च नववस्त्राभ्यां सदशाभ्यां च कौतुकम्संवेष्टयित्वा ट्टग्दानशयनं परिकल्पयेत् ॥५३॥वेदिकोपरि शालीनां दशाभारान् विकीर्य च ।तस्योपरि पटं न्यस्य तण्डुलांस्तत्प्रमाणकान् ॥५४॥तस्योपरिष्टाच्च तिलानां दशाभारन् विकीर्य च ।तस्योपरि तिलान् विकीर्य च पटोपरि ।सोपधानं कुशान् न्यस्य तस्योपरि च कौतुकम् ॥५५॥शाययित्वा प्राक्छिरसं स्वर्णसूच्या द्विजोत्तम: ।अस्त्राभिजप्तया नेत्रे प्रणवेनोल्लिखेन्मुने ॥५६॥सनेत्रं मनसा धायन् परमात्?मानमात्मनि ।तत: शिल्पिवर: स्त्रात: सिताम्बरधर: शुचि: ॥५७॥नेत्रमन्त्रितशास्त्रेण नेत्रे प्रकटयेत् सुवी: ।साम चान्द्रं वारुणं च सामगै: पाठयेद् द्विजै: ॥५८॥हेमपात्रस्थितं पश्चाद् घृतं मधु च दर्शयेत् ।नेत्रं प्रपूरयेत् ताभ्यां द्वादशाक्षरविद्यया ॥५९॥वौषट्कारान्तयोर्ध्वस्थहृन्मत्रेणामृतद्रवम् ।ध्यात्वा चान्द्रमसं बिम्बं मस्तकोपरि च स्त्रुताम् ॥६०॥ध्यात्वामृतस्य धारां व धेनुयुग्मं सवत्सकम् ।सौवर्णखुरशृङ्गाढ्यं दर्शयेत् प्रतिमापुर:(?) ॥६१॥ततस्तु कलशैदेवं नवभि: स्त्रापयेद्द्विज ।ततोऽलंकृत्य देवेशं मात्रन्तं परिपूज्य च ॥६२॥निवेद्य पायसादीनि ताम्बूलं च निवेद्य च ।रथमारोप्य तद्बिम्बं प्रासादं परितो नयेत् ॥६३॥[सर्वमङ्गलसव्याध्रत्वचं] विन्स्य चोपरि ।क्षौमवस्त्रं तथास्तीर्य हृन्मन्त्रोच्चारणादिकम् ॥६४॥शेषरूपं च शयनं धयात्वा चैकाग्रमानस: ।अर्घ्याद्यै: पूजयित्वा च शिर:पार्श्वे घटं न्यसेत् ॥६५॥सुसूत्रं क्षौमवसितं शालिपीठोपरि स्थित् ।अर्ध्येण प्रोक्ष्य शयनं निद्राणं श्रीयुतं तथा ॥६६॥नतिप्रणवयुक्तने स्वनाम्रा धूपश्चिमम् ।सभाज्य बिम्बं शयनेप्राङ्मूर्धानंच शययेत् ॥६७॥अर्ध्यपूर्वैश्च धूपान्तैराराध्य प्रणिपत्य च ।पीठं ब्रह्मशिलां चैव शालिपीठे पटास्तृते ॥६८॥शययित्वा यथापूर्वं प्रणवेन सभाज्य च ।वाससा वर्मजप्तेन धूपितेनावगुण्ठ्य च । ॥६९॥अर्चामिन्येन वस्त्रेण छादयेत् पीतिठकामपि ।प्रतिमापादपर्श्वस्थान् लाञ्छनान्(?)स्वस्वमन्त्रकै: ॥७०॥स्वस्थानसंस्थितान्(?)बुध्वा मूर्ध्रि द्वादशचकम् ।दामोदरात् केशवान्तमापादं द्वादशस्थले ॥७१॥विन्यस्य तच्छक्तिचयं तद्वद् व्यापकवत् पुन: ।द्विषट्कार्णं च मूर्धान्तमप्ययाख्येन भावयेत् ॥७२॥निश्चलं ज्ञानरूपं तत्कौतुकं प्रतिभाव्य च ।प्रणिपत्य च तद्बिम्बं तदा कुण्डसमीपत: ॥७३॥आज्यान्नतिलहोमं च प्रत्येकं पञ्चविंशति: ।कृत्वा पूर्णाहुतिं दद्याद्देशिको नियतात्मवान् ॥७४॥एकायनाश्चतुर्दिक्षु जुहुयुर्व्यूहमन्त्रकै: ।कोणेषु वैष्णवा होमं कुर्यार्मन्त्रैश्च वैष्णवै: ॥७५॥स्वशखोक्तैस्तथा चाग्रिकोणादिषु समाहित: ।परं ब्रह्म स्वशक्तयैव सर्वशक्तिशरीरकै: ॥७६॥अभीष्टं चिन्तयित्वाथ हृदये द्वादशाक्षरम् ।हृदयाङ्समयुक्तं ज्वलद्रूपं विभाव्य च ॥७७॥भूतशुद्धिविधानेन संहारान्तं च कौतुकम्॥विचित्य परमां मूर्तिमापाद्य स्वयमेव च ॥७८॥कुमुदागिणेशांश्च रक्षार्थं तेष्वनुक्रमात् ।आवाह्माभ्यर्चयित्वा च स्वै: स्वैर्मन्त्रैर्द्विजोत्तम ॥७९॥ततो मूर्तिपसंयुक्तो गत्वा प्रसादमध्यत: ।सर्वदुष्टोपशान्तर्थां प्रोक्षयेत् पञ्चगव्यकै: ॥८०॥हेतीशं क्षेत्रनाथं च पूजयेद्धूपपश्रिमै: ।आधारप्रमुखैर्मन्त्रैर्योगपीठान्तमर्चयेत् ॥८१॥परित: पूर्ववत्कुण्डरानष्टौ संकल्प्य देशिक: ।शान्तर्थं चक्रमन्त्रेण द्विषडर्णेन वा हुनेत् ॥८२॥मूर्तिपा: स्वस्मन्त्रेण जुहुयु: पूर्ववत् क्रमात् ।प्रशमय्य ततो दोषान् प्रासादं चाधिवासयेत् ॥८३॥प्रासादं(दो ?) देवदेवस्य प्रोच्यते तात्त्विकी तनु: ।तत्त्वानि विन्यसेत्पीठे यथा तत्त्वाधिवासक: (के ?) ॥८४॥प्रकृत्यन्तानि पुरुषे बिम्बे त्वेवं प्रकीर्तितम् ।अध्वषट्कं तथा ध्यात्वा वर्णं शिखरसंस्थितम् ॥८५॥चातुरात्म्येन मन्त्रेण प्रणवाद्येन देशिक: ।कृत्वा च व्यापकन्यासं तच्छिरोऽन्तं मुनीश्वर ॥८६॥समभ्यर्च्याथ हुत्वा च प्रोक्ष्य शान्तयुदकेन च ।आपोहिष्ठादिभिर्मन्त्रै: पवित्रमनुनापि च ॥८७॥गभर्पगे?हं प्राङ्गणानि प्रोक्षयेयुश्च मूर्तिपा: ।शयनस्थानमासाद्य साष्टाङ्गं प्रणिपत्य च ॥८८॥प्रतिमामूर्ध्रि दत्वार्ध्यं धूपान्तमभिपूज्य च ।बिम्बस्य पादार्श्वे तु बध्वा पह्मासनं गुरु: ॥८९॥ध्यानाधिवासं कुर्वीत यथा तदवधारय ।मूलाधारानुबद्धाभिर्नाडीभिर्दशभिर्युतम् ॥९०॥अन्याभिस्तु शरीरस्थं व्याप्तं द्विजवरात्मज ।प्रतिमायां तथा देवीं व्याप्तामेव विभाव्य च ॥९१॥श्रोत्रादीन् स्वस्वविषयादात्मन्येवोपहरेत् ।स्व्हृत्पङ्गजमध्यस्थं ज्येतीरूपं विभाव्य च ॥ ९२॥स्वहृत्पह्मोदरे देवं बिम्बस्थं परिभाव्य च ।सूर्येन्द्वग्रिप्रभां सूक्षमां सुषुम्रां स्वान्तरस्थिताम् ॥९३॥बिम्बे चात्मनि च ध्यात्वा दक्षिणेन स्वदेहत: ।बिम्बस्य वामपार्श्वेन प्रविश्य हृदयाम्बुजम् ॥९४॥योगकाले यथा देव: स्वशरीरेऽनुभूयते ।समाधिना निश्चलेन तथा तं परिभावयेत् ॥९५॥कार्या तदेकता पश्चाद्यावद्विन्दति वै तत: ।द्वैधं कृत्वा ततो यावत् बिम्बं वामेन चात्मन: ॥९६॥दक्षिणेनाथ हृदयं प्रविशेद् द्विजसत्तम ।ततो हृत्पह्ममध्यस्थं ध्यात्वैवात्मानमात्मना ॥९७॥ज्ञानवरूपममलं यावन्नाड्याश्च मध्त: ।स्वमन्त्रोच्चारणेनैव द्वादशान्तं द्विजोत्तम ॥९८॥तत्संस्थिते विभुत्ना भूत्वा सामरस:(?) स्वयम् ।निष्पन्दस्पन्दतां गत्वा व्रजेत् स्वहृदयान्तरम् ॥९९॥ततश्च बिम्बहृदयं यथापूर्वं तथा व्रजेत् ।कृत्वा तदैक्यं तत्रापि द्वादशान्तं ततो व्रजेत् ॥१००॥तत्रापि पूर्ववद् बुध्वा हृदयं संप्रविश्य च ।तस्मान्निर्गत्य हृदया प्रविशेत्पूर्ववर्त्मना ॥१०१॥आत्महृन्मण्?डान्त: स्थमात्मानमनुभाव्य च ।इत्थं कौतुकमध्यस्थं चैतन्पं परिभाव्य च ॥१०२॥हतरेतरेन्द्रवत्तेज:संबन्धमनुचिन्तयेत् ।ब्रह्मानुसंधानमिदं कथितं द्विजसत्तम ॥१०३॥शब्दब्रह्मानुसंधानं श्रृणुष्वा(?)त: परं द्विज ।परं सूक्ष्मं तथा स्थूलमतिस्थूलं चतुर्विधम् ॥१०४॥बिद्धि बिम्बं चतु:शब्दो ( ब्दै:?) यथा देहोऽव्ययस्तथा ।शब्द एव स्वदेहं च बिम्बं च मुनिसत्तम ॥१०५॥विधिनाप्ययसंज्ञेन वैखर्यामुपसंहरेत् ।शब्दं तद्वैभवं पूर्वं परस्मिन् ब्रह्मणि द्विज ॥१०६॥निस्तरङ्गदशापन्नस्पृष्ट(सृष्टि?) मार्गेण तत्स्वयम् ।परं ब्रह्म शब्दबिम्बं पूर्व?वच्चिन्तयेन्मुने ॥१०७॥इत्थं शाब्दं स्वदेहं च कृत्वा तत्रैव विश्रमेत् ।सांनिध्यार्थं ततो मन्त्रसंयोगं विदधीत च ॥१०८॥सूर्यचन्द्रसहस्त्राभं स्वहृत्पङ्कजमध्यगम् ।स्व्मन्त्रतन्त्रसंनादरूपेणाग्रिस्फुलिंगवत् ॥१०९॥ब्रह्मरन्ध्रेणोर्ध्वगेन निर्गत्य च तनो: पुन: ।प्रविशन्तं पुनस्तेन वर्त्मना स्वतनुं पुन: ॥११०॥ध्यात्वा च तत्स्थचैतन्ये देवतां संविभाव्य च ।अर्चारूपं च सकलमेवं व्याप्तं विभावयेत् ॥१११॥पृथ्वीमन्त्रानुविद्धं च पीठं रत्नशिलामयम् ।आधारशक्तिमन्त्नेण बिम्बेनैक्यं विभावयेत् ॥११२॥विमाव्येत्थं ततो विप्र मन्त्रन्यासं समाचरेत् ।न्यासेन रहितं वापि मन्त्रन्यासन(सं स?) माचरेत् ॥११३॥प्रणम्य दण्डवत् पश्चादात्मायनसमर्पणम् ।विधायार्ध्यादिभिर्भोगैनैवेद्यान्तै: क्रमाद्यजेत् ॥११४॥ततश्च वेद्या: परितो विप्रानेकायनादिकान् ।दिग्विदिक्संस्थितान् कृत्वा मन्त्रानुद्धोषयेत्क्रमात् ॥११५॥इतिहासपुराणानां स्तोत्रामपि पाठकान् ।वैष्णवान् परित: स्थाप्य तत्तद्धोषणमाचरेत् ॥११६॥चतुर्दिक्षु चतुर्वेदपठनं कारयेद् द्विजै: ।वीणावेणुरवैर्भिश्रान् गीतशब्दांश्च घोषयेत् ॥११७॥नृत्तानां दर्शनं चैव कारयेत् परित: स्थितै: ।यथाक्रमं मूर्तिधरैर्हवनं कारयेत्तथा ॥११८॥प्रत्येकं शतसंख्याकं कृतानां कर्मणां द्विज ।तत्त्वनां चैव शुद्धयर्थं हवनं कारयेन्मतम् ॥११९॥आधारशक्तिमन्त्रेण रत्नाधारशिलाहुतिम् ।भूतमन्त्रेण पीठस्य हवनं विधिवच्चरेत् ॥१२०॥पूर्णाहुतिं विधायान्ते शान्तितोयेन चोक्षणम् ।बिम्बादीनां तथा कृत्वा विष्णुगायत्रिया पुन: ॥१२१॥अध्रर्यादिभोगैर्यजनं कृत्वा तत्पादगौ करौ ।त्वत्सभाजनसिद्ध्यर्थं त्वद्रूपं कल्पितं विभो ॥१२२॥संनिधायात्र देवेश यावदाभूतसंप्लवम् ।त्वदभक्तैर्विहितां पूजां गृहाण परमेश्वर ॥१२३॥गतिस्वमेव परमा मज्जतां भवसागरे ।विज्ञापनीदं कृत्वा प्रणमेद्दण्डवत्क्षितौ ॥१२४॥कुम्भमण्डलगं देवमभ्यर्च्य तदनु द्विज ।मन्त्राणां चैव च तथा न्यस्यानां तु विशेषत: ॥१२५॥अर्चागतस्यापि विभोरेकसंधानकारणात् ।धृतेन दध्रा पयसा मधुना च क्रमाद् द्विज ॥१२६॥अङ्म्रिनाभीश्च हृदयं स्पृष्ट्वा मूर्धानमेव च ।अनिरुद्धादिभिर्मन्त्रैर्हुत्वान्ते प्रोक्षयेत्क्रमात् ॥१२७॥स्पृष्ट्वाङ्गनि समस्तेन तत्तदङ्गनि सर्वत: ।संप्राक्ष्य सर्वगात्राणि द्विषडर्णेन होमयेत् ॥१२८॥पूर्णाहुतिं ततो दद्याददज्ये(?)नामाभिधाय च ।प्रासददिक्षु जुहुयुस्तन्मन्त्रेण बलिं हरेत् ॥१२९॥मूर्तिपा: कुमुदादींश्च पूजयेयु: समन्तत: ।स्त्रात्वा प्रभातजे ह्माचार्यो गत्वा यागनिकेतनम् ॥१३०॥प्रविश्याध्य देवं च विज्ञाप्य तदुनुज्ञया ।अर्ध्यादिपात्रसहितो गत्वा च भगवद्गृहम् ॥१३१॥क्षेत्रेशयजनं कृत्वा स्वमन्त्रेण द्विजोत्तम ।हुत्वाग्रिमाज्येन तत: पूर्णामपि विधाय च ॥१३२॥प्रासाददिक्षु जुहुयुस्तन्मन्त्रेणैव मूर्तिता: ।पश्चद्ग्रर्भगृहं गत्वा सप्तभागं समं द्विज ॥१३३॥मध्यं [बाह्मं] (ब्राह्मं ?)तु जद्ग्राह्मं दैवमानुषमन्वत: ।पैशचं बाह्मगं स्थानं पैशाचादिपदत्रयम् ॥१३४॥परित्यज्याग्रतो विप्र पूजने चैकबेरके ।न्यसेद्रत्नशिलां ब्राह्मे यद्वा ब्रह्मसुरान्तरे ॥१३५॥बहुबेरे तत्र कुर्यात् शृणु स्थापनमुत्तम स्थापनमुत्तमम् ।तत्र संस्थापने देवो भक्तानमापि वाञ्छितम् ॥१३६॥प्रददाति द्विजश्रेश्ठ संपद: सकलास्तथा ।दैवे वा मानुषे वापि संधौ वाथ तयोर्मुने ॥१३७॥बहुबेरप्रतिष्ठानं यद्वा स्याच्छयनासनम् ।कृत्वावटं ब्रह्मशिलामानात् किंचिदिवाधिकम् ॥१३८॥मध्ये तस्य द्विजवर द्वादशाङ्गलविस्तृतम् ।कृत्वा मानं च तन्मात्रं तस्मिन् हेमादिनिर्मितम्॥ १३९॥अड्गलीभिश्चतसृभिरुन्नतं विततं तथा ।हेमरत्नादिसंपूर्णं हेमपात्रं प्रजप्य च ॥१४०॥प्रणवाद्यन्तसंस्थेन विन्यसेद्विष्णुपूर्वया ।गायत्र्या पूरयेद्ग्रर्तं सुधया कारेय् ट्टढम् ॥१४१॥[ब्राह्मादितरसंस्थेन(?)] शिलां तस्योपरि न्यसेत् ।मध्ये नवाम्बुजं कुर्यात् कर्णिकास्ववटं खनेत् ॥१४२॥रत्नानि विन्यसेत् तेषु वज्रमैन्द्रे न्यसेद् बुध: ।याम्येऽम्बुजे गारुडं च मुक्तां वारुणपङ्कजे ॥१४३॥पह्मरागं न्यसेत् सौन्ये स्फटिकं वह्निकोणके ।सूर्यकान्तं नैऋर्ते च नीलं वायव्यपङ्कजे ॥१४४॥ऐशान्ये पुष्यरागं च मध्ये पह्मे च काश्?यप ।समस्तलोहरचितं पह्मं न्यस्य तदूर्ध्वत: ॥१४५॥[सौवर्णमग्रिवसुधासूर्यकान्तं(?)च वहिके] ।नैऋर्ते चन्द्रनीलं च वायव्ये पुष्यरागकम् ॥१४६॥ऐशान्यपह्मे वैङूर्यं स्फटिकं मध्यपङ्कजे ।रूप्यमैन्द्रे तथा याम्ये त्रपुं पशिमपङ्कजे ॥१४७॥कृष्णसीसमय: सारं या(सौ ?)म्ये ताम्रं तु निक्षिपेत् ।वह्मै नैऋर्त [एवं कं(?)कृष्णं यो(?)]वायुङ्कजे ॥१४८॥कांस्यमीशानपह्मे स्यात् स्वर्णं मध्यमपङ्कजे ।सर्वलोहमयं पह्मं मध्यमाम्भोजमध्यत: ॥१४९॥विन्यस्य तस्योपरि च कच्छपं स्वर्णनिर्मितम् ।देवीं च वसुधां न्यस्य नागराजं च रूप्यजम् ॥१५०॥प्रणवेनैव विन्यस्य सकलं वस्तुजालम् ।हरितालं छिन्नपिष्टमञ्जनं च सुराष्टजम् ॥१५१॥ऐन्द्रादिदिक्षु हृदये मांसीं द्विजवरात्मज ।वचां बिल्वं च विन्यस्य कोणेषु रजनीं पुन: ॥१५२॥सहदेवीं विष्णुपूर्वा क्रान्तामैन्द्रयां क्रमान्यसेत् ।मध्यमे शङ्खपुष्पं च मूलमेषां च विन्यसेत् ॥१५३॥वासुदेवादिमन्त्रैस्तु दिक्षु कोणेषु निखिपेत् ।कोणेष्वध्यक्षपूर्वेषु सर्वद्रवयाणि विन्यसेत् ॥१५४॥रत्ना?दीनामलाभे तु मौक्तिकं स्वर्णमेव वा ।रजतं वाथ विन्यस्य हुत्वाजपसया द्विज ॥१५५॥गृहीत्वा प्रणवेनै प्रगाद्यं मध्यपश्चिमम् ।संछाद्य नववस्त्रेण सुधयालिप्य देशिक: ॥१५६॥अभ्यर्च्य गन्धपुष्पाद्यै: पीठं तस्योध्पर्वतो न्यसेत् ।कारयित्वा च सुश्लिष्टं गर्ते पह्मं हिरण्मयम् ॥१५७॥तदूर्ध्वे गरुहं हैमं लधुरूपं निवेश्य च ।पञ्चगव्यं फलं पुष्पमोषधीरपि विन्यसेत् ॥१५८॥मन्त्रेण द्वादशार्णेन पुन: पैठीयदेवता: ।कालकूर्मादय: पूजयास्तत्तन्मन्त्रैरनुक्रमात् ॥१५९॥तैरेव हुत्वा गत्वा च समीपं कौतुकस्य च ।नत्वा हृदयमन्त्रेण निरस्याच्छदितं पटम् ॥१६०॥भावयित्वा प्रबुद्धं च विभुं विज्ञापयेत्तत: ।पुण्डरीकाक्ष भगवन् सर्वलोकहिताय च ॥१६१॥त्वदभक्तानां विशेषेण विप्रादीनां महात्मनाम् ।प्रासादे स्थपयामि त्वां बिम्बरूपिणमव्ययम् ॥१६२॥संनिधत्स्वात्र देवेशं क्षमस्व च दयां कुरु ।इत्थं विज्ञाप्य देवेशमुत्तिष्ठेत्यादिकं मनुम् ॥१६३॥पठन् बिम्बं समुत्थाप्य शयानं मूर्तिपै: सह ।यानमारोप्य पुरत: शिवसंकल्यमुच्चरन् ॥१६४॥प्रदक्षिणं परिभ्राम्य वेदधोषादिभि: सह ।अतो देवेतिन्त्रेण प्रविश्याभ्यन्तरं द्विज ॥१६५॥पुष्याहवाचनं कृत्वा पौरुषं सूक्तमुच्चरन् ।प्रणवद्वयमध्यस्थद्वादशाक्षरविद्यया ॥१६६॥मुहूर्ते सुशुभे प्राप्ते कुम्भीकृत्य हृदन्तरे ।ध्यायन् विष्णुं परतरं परस्माच्छ्रीनिकेतनम् ॥१६७॥श्वभ्र(भ्रे ?)पीठस्य तां मूर्तिमचलां संनिवेश्य च ।समसूत्रेण संस्थाप्य नतोन्नतविशेषवित् ॥१६८॥वायुं विरेचयेत्पश्चाद्वाङ्मन्त्रेणैव मन्त्रवित् ।द्विषडर्णेन दत्वार्ध्यमस्त्रेण हृदयेन च ॥१६९॥वज्रलेपतिबिम्बं तद् ट्टढं निश्चलतां नयेत् ।तत: स्वमन्त्रगनात् पूर्णचन्द्रमसकृतिम् ॥१७०॥ध्यात्वा तस्थसुवौघेन प्रतिमामभिषिच्य च ।ततस्तु नवभि:कुम्भै:स्रापयेत् परमेश्वरम् ॥१७१॥ततो निरुदकीकृत्य गर्भगेहं समन्तत: ।वस्र्द्वयेन तद्बिम्बमधरोत्तरगेन च ॥१७२॥ट्टढं संवेष्टयित्वा च यथाशोभं च काश्यप ।हृदयस्थं तु तद्बिम्बं तस्सूर्यशतदीधितिम् ॥१७३॥विचिन्तयेत् परं रूपं व्याप्तं तेनैव चिन्तयेत् ।गर्भादिशिखरान्तं च बहिरन्तश्च तं(?)मुने ॥१७४॥अङ्गानां त्रिविधं षट्कं न्यसेद्बह्मशिलादिषु ।मन्त्ररूपं तु यत्थूलं तत्राधारशिलाभपवम् ॥१७५॥सूक्ष्मं ज्ञानादिगुणकं पीठयुक्तं तु तं स्मरेत् ।[गुरूणां भागसंस्थं(?)] तत्परं बिम्बं च संस्मरेत् ॥१७६॥पीठदेशे पीठमन्त्रान सर्वानेव निवेशयेत् ।प्रतिमादेहसंस्थांश्च सर्वमन्त्रान् द्विजोत्तम ॥१७७॥तत्त्वन्यासदिकान् सर्वान् स्फुरत्तारकरूपवत् ।विभाव्याथ लयायोक्तं विधाय च जगद्ग्रुरुम् ॥१७८॥तत्पादाब्जयुगं पश्चत्काराभ्यामवलम्बय च ।शिरो निवेश्य तत्रापि गुरुर्विज्ञापयेत् प्रभुम् ॥१७९॥भगवन् पुण्डरीकाक्ष शरणागतवत्सल ।मया दत्तां मन्त्रमूर्तिप्रतिष्ठां स्वीकुरु प्रभो ॥१८०॥सांनिध्यं कुरु देवेश त्वमत्र जगत: पते ।ज्ञानतोऽज्ञानतो वापि प्रभो कृतभिदं मया ॥१८१॥क्षमस्व कृपया देव कृपया परया मयि ।वैष्णवा: पार्श्वगा ब्रूयु: करतालं विधाय च ॥१७२॥एवं स्तुतिवच:स्तोत्रै: स्तुवीत द्विजवरो(स?)त्तम ।लक्ष्म्यादिशक्तिसहितं स्थापनं यदि काश्यप ॥१८३॥बिम्बेन सहितेनैव सर्वं कर्म समाचरेत् ।परिवारप्रतिष्ठानं यथासथानं च कारयेत् ॥१८४॥मासेषु चैववैशाख्जेष्ठेष्वपि च फालुगुनेपौष्करे तु विधातव्या प्रतिष्ठा मधुविद्विष: ॥१८५॥यजमानुकूलेषु दिनेषु सुशुभेष्वपि ।पुनर्वस्वोरुत्तरेषु रोहिण्यां श्रवणे तथा ॥१८६॥रेवतीपुष्यहस्तेषु तथाश्विन्यां द्विजोत्तम ।सिते पक्षे तु पञ्चम्यां दशम्यामपि वा द्विज ॥१८७॥त्रयोदश्यां पौर्णमास्यां तिशिष्वेतासु कारयेत् ।सोमसौन्यगुरूयां च वारा: शुक्रस्य च द्विज ॥१८८॥प्रशस्ता: स्थापनविधौ श्रियो भर्तुर्मुनीश्वर ।गुरौ शुक्रे च मतिमान(?)नस्तंगतयोर्द्वयो: ॥१८९॥स्थिरराशिषु चैव स्यात् प्रतिष्ठा मधुविद्विष:॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायांप्रतिष्ठाविधिर्नाम चतुर्दशोऽध्याय:॥ N/A References : N/A Last Updated : January 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP