विश्वामित्रसंहिता - चतुर्विंशोऽध्याय:

विश्वामित्रसंहिता


काश्यप:---
भगवन् वैष्णवे यागे क्रियमाणेऽपि नित्यश: ।
राजराष्ट्रादिदोषेण विघ्रश्चेज्जायते गुरो ॥१॥
तद्दोषप्रविघाताय किं कार्यं मानवैर्भुवि ।
मय्यनुग्रहबुद्धिश्चेत्तन्मे वक्तुं त्वमर्हसि ॥२॥
विश्वामित्र:----
आराधने भमवत: क्रियमाणे द्विजोत्तमै: ।
मन्त्रलोपे क्रियालोपे शान्त्यर्थं श्रूयतां विधि: ॥३॥
सांवत्सरिकदोषौघप्रायश्चित्तं वदाम्यहम् ।
पवित्रारोणं नाम सर्वपापप्रणाशनम् ॥४॥
वर्षे वर्षे तु कर्तव्यमाराधनमिदं परम् ।
श्रावणे मासि वा कार्यं यद्वा भाद्रपदेऽपि वा ॥५॥
[ऐष्वा(षा ?)दिमासा: सर्वत्र पवित्रारोपणं न च(?)] ।
निर्मितान् विप्रकन्याभिस्तन्तून् कार्पासजानपि ॥६॥
कौशेयानथवा क्रीतान् समान् दोषविवर्जितान् ।
मुद्रमाषादिभिश्चूर्णै: संमिश्रं क्षालयेज्जलै: ॥७॥
शुचिभिश्च प्रसन्नैश्च शुद्धेषु फलकादिषु ।
निधाय शोषयेद्विद्वानातपे शोधि(षि ?)तांस्तत: ॥८॥
परीक्ष्य तृणरोमाणि निरस्य च समाहित: ।
त्रिगुणीकृत्य च पुनस्त्रिगुणानपि कारयेत् ॥९॥
चतुर्गुणीकृत्य च तान् मातुलुङ्गफलोपमान् ।
विधाय स्थापयेत् पूर्वं मृत्पात्रेषु नवेषु च ॥१०॥
गोमयालेपिते शुद्धे भूतले सुसमे शुभे ।
प्रमाणानुगुणं शङ्कुद्वयं जज्ञद्रुमोदभवम् ॥११॥
निघाय शङ्कोरारोप्य तद्वत्कुर्यात्प्रवर्त(वित्र?)कम् ।
स्त्रातै: शुक्लाम्बरधरैर्वेदविदिभ: समाहितै: ॥१२॥
धृतोर्ध्वपुण्ड्रै: कुशलैर्वैष्णवैरविकत्थनै: ।
उदङ्‌मुखै: प्राङ्मुखैर्वा कारयेत्तु पवित्रकम् ॥१३॥
सूत्रैरष्ठोत्तरशतं(?) द्वात्रिंशद्गुन्थिसंयुतम् ।
मूलबेरादिकानां स्यादधिवासार्थमीदृशाम् ॥१४॥
मण्डले पह्मामानं स्यात् कुम्भे तत्कुम्भामानकम् ।
मेखलामानकं कुण्डे पवित्रमघिवासकम् ॥१५॥
चक्रब्जमण्डलस्थेषु पह्मनाभ्यरनेमिषु ।
तत्स्नानि च कुवींत पवित्राणि वहिर्वृते(तौ?) ॥१६॥
तत्समानं पवित्रं स्याद् ग्रन्न्थितन्तुविधिं शृणु ।
तन्तूंश्चतु:शतं विद्धि ग्रन्थय: सप्तविंशति: ॥१७॥
पादोना तन्तुसंख्या स्याद् दिगुणा ग्रन्थयो द्विज ।
तन्तुसंख्या शतयुगं ग्रन्थयस्त्रिगुणात्म(त्मि?)का: ॥१८॥
बाह्मवृत्ते(ह्मवृतौ?) तत्स्ताश्च चतु:शतमितास्तथा ।
ग्रन्थय: पञ्चगुणिता: कुमृभस्याष्टोत्तरं शतम् ॥१९॥
तन्तवो ग्रन्थयश्च स्युश्चतुर्शिंशतिसंख्यका: ।
करके तन्व: कार्या एकाशीतिप्रमाणका: ॥२०॥
सप्तविंशतिसंख्याका ग्रन्थय: करकेऽपि च ।
कौतुकानां पवित्राणि दश तानि क्रमाच्छृणु ॥२१॥
प्रमाणगन्धालंकारवित्रत्रयमुत्तमम् ।
मध्यमं चाधममिति त्रीणि पश्चात् किरीटकम् ॥२२॥
श्रीवत्सं कौस्तुभं चैव वनमाला त्रयं तथा ।
इत्थं दशपवित्राणि तन्तुग्रन्थिक्रमं शृणु ॥२३॥
नाभ्यन्तं प्रथमं सूत्रमष्टोत्तरशतं विदु: ।
द्वात्रिंशत् स्याद् ग्रन्थिसंख्या गन्धाख्यं हृदयावधि ॥२४॥
अशीतितन्तवस्तस्य ग्रन्थय: पञ्चविंशति: ।
अलंकारपवित्रं तु जङ्घामध्योक्तमायतम्(?) ॥२५॥
तन्तवोऽष्टोत्तरशतं द्वात्रिंशद् ग्रन्थयो मता: ।
उत्तमाख्यापवित्रस्य सूत्रसंख्या चतु:शतम् ॥२६॥
ग्रन्थयोष्टोत्तरशतं जानुमध्यान्तमायतम्(?) ।
मध्यमस्य च तन्तूनां शतानि त्रीणि काश्यप ॥२७॥
अशीतिग्रन्थयो ज्ञेया ऊमध्यं तदायति:(?) ।
अधमस्य शते द्वे तु तन्तव: परिकीर्तिता: ॥२८॥
ग्रन्थयस्तस्य षष्टि: स्युर्नाभिमध्यं तदायति:(?) ।
किरीटाख्यपवित्रस्य तन्तव: स्युश्चतु:शतम् ॥२९॥
किरीटमेव मानं स्याद् द्वात्रिंशद्ग्रन्योऽस्य च ।
श्रीवत्साख्यपवित्रस्य तन्तव: स्युश्चतु:शतम् ॥३०॥
ग्रन्थय: सप्तविंशत् (?) स्यादभा(स्युर्हा ?)रान्तं तत्प्रकल्पनम् ।
कौस्तुभस्य शते द्वे तु तन्मूनां परिकीर्तिते ॥३१॥
द्वात्रिंशद् ग्रन्थय: कार्या: स्तनमध्यं तदायति:(?) ।
वनमालाह्वयस्य स्युस्तन्वोऽष्टसहस्त्रकम् ॥३२॥
प्रमाणं चरणायामं ग्रन्थिसंख्या न विद्यते ।
पीठस्य च पवित्रं स्यात् पञ्चविंशतिसूत्रकम् ॥३३॥
दशभिर्ग्रन्थिभिर्युक्तं तदायामसमन्वितम् ।
उर्ध्यापात्रे धूपदीपपात्रे घटाक्षमालयो: ॥३४॥
सर्वेष्वष्टोत्तरशतं सूत्राणि ग्रन्थयोऽपि च ।
यथाशोभं प्रकल्प्या: स्युरायामो द्वादशाङ्गुल: ॥३५॥
विष्वक्सनेनस्य तार्क्ष्यस्य दिक्पालानां च काश्यप ।
दिग्देवतानां च तथा दुर्गाविघ्रेशयोरपि ॥३६॥
ब्रह्मशंकरयोश्चापि तन्तवोऽष्टोत्तरं शतम् ।
द्वात्रिंशद् ग्रन्थय: प्रोक्ता हस्तायामो(?) द्विजोत्तम ॥३७॥
चण्डादीनां च सर्वेषां सप्तविंशतिसूत्रकम् ।
हस्तमानं प्रकर्तव्यं यशाशोभमपि द्विज ॥३८॥
द्वारतोरणकुम्भानां तद्वदेव पवित्रकम् ।
कर्णिकायामसट्टशं बलिठपवित्रकम् ॥३९॥
आचार्याणां यतीनां च नाभ्यन्तपरिलम्बितम् ।
अष्टोत्तरशतै: सूत्रैर्बहुभिर्ग्रन्थिभिर्युतम् ॥४०॥
ऋत्विजां पूजकानां च वैष्णवानां तथैव च ।
सूत्रैरेकोत्तराशीतिमितैर्नाभ्यन्तलम्बितम् ॥४१॥
राज्ञामष्टोत्तरशतै रचितं तन्तुभिर्द्विज ।
निर्मिंतं तूलगर्भैश्च ग्रन्थिभि: शोभितं यथा ॥४२॥
नाभ्यन्तलम्बितं कार्यमन्येषामनुजीविनाम् ।
एकशीतिप्रमाणैश्च सूत्रै: कार्यं द्विजोत्तम ॥४३॥
वैश्यदीनां च कुर्वीत चतुर्विंशतिन्तुभि: ।
विभवे सति सर्वेषां पवित्राणां तु विस्तृति:(?) ॥४४॥
मणिमुक्ताप्रवालाद्यैलोहै: स्वर्णादिभिस्तथा ।
तदभावे च तूलैर्वाग्रन्थिमध्यं प्रपूर्य च ॥४५॥
सूत्रैर्ग्रन्थयन्तरालानि यथाशोभं तु र ञ्जयेत् ।
विभवे सति संकोचो नैव कार्यो विजानता ॥४६॥
पवित्रेषु कृतेष्वेवं शास्त्रचोदितवर्त्मना ।
निक्षिप्य हेमभाण्डेषु महत्सु बहुषु द्विज ॥४७॥
अथवा मृण्मयेष्वेव शुभेषु शंचिषु द्विज ।
वस्त्रखण्डैश्च वक्त्राणि सूत्रैर्बध्वा ट्टढैरपि ॥४८॥
पूर्वपक्षे दशम्यां च सायाह्ने मूर्तिपै: सह ।
सहैव यजमानेन प्रविश्य सदनं हरे: ॥४९॥
आराधयित्वा देवेशं भक्त्या विज्ञापयेत् स्वयम् ।
प्रणत: प्राञ्जलिर्मूत्वा गाथामेतामुदीरयेत् ॥५०॥
भगवन् नृहरे तस्मिन् नित्यपूजाविधौ तव ।
न्यूनातिरेकजनितदुरितोत्सारणक्षमम् ॥५१॥
सर्वासां संपदां चैव समुत्पादनहेतुकम् ।
पवित्रारोह(प?)णं नाम समाराधनमुत्तमम् ॥५२॥
चिकीर्षाभि जगन्नाथ विधिना चोदितेन तत् ।
कारयित्वा त्वविघ्रेन जुषस्व दयया मयि ॥५३॥
इत्थं विज्ञापनं कृत्वा प्रणम्यालयमध्यत: ।
निर्गत्य मण्टपवरं स्वनुलिप्तं खलंकृतम् ॥५४॥
वितानध्वमालाभिर्दर्भमालापरिष्कृतमम् ।
द्वारपर्श्वेषु(र्श्वसु?)विन्यस्तपूर्णकुम्भयुगं द्विज ॥५५॥
चक्राब्जमण्डलं तत्र कारयित्वा विधानत: ।
मण्डलस्य समीपे तु दर्भानास्तीर्य देशिक: ॥५६॥
आसीन: प्राङ्मुखस्तिष्ठन् संकल्प्योवसेत्तत: ।
जाग्रदेव नयेत्तत्र रात्रिं जपपरस्तदा ॥५७॥
एकादश्यां निशादौ तु कारयेदधिवासनम् ।
प्रतिष्ठोक्तेन विधिना विधायाङ्कुररोपणम् ॥५८॥
बन्धनं कौतुकस्यैव कृत्वा कल्याणकौतुकम् (के?) ।
तोराणाद्यर्चनं कृत्वा मण्टपं दिग्विदिक्षु च ॥५९॥
ऋगादिवेदांश्चतुरो द्विजाग्र्यैर्वेवित्तमै: ।
शखामेकायनीं चापि वि?द्वदिभरभिघोष्य च ॥६०॥
भेरीपटहकांस्यादि घोषयित्वा समन्तत: ।
कारयित्वा च गीतादीन् सर्वमङ्गलसंयुतम् ॥६१॥
शीलीनां दशभिर्भारै: कृत्वा माहेन्द्रमण्डलम् ।
पवित्रभाण्डमखिलं तत्र संस्थाप्य देशिक: ॥६२॥
पुण्याहधोषणं कृत्वा दहनाप्यायनादिकै: ।
विशोध्य धूपयित्वा तु कालागरुसमुदभवै: ॥६३॥
कलशैश्चन्दनाद्यैश्च घनसारैश्च सर्वत: ।
सर्वतो गन्धपुष्पैश्च सुशुभैरभिषिच्य च ॥६४॥
क्षौमैरमिनवैस्तानि पात्रण्यावेष्टय काश्यप ।
चक्रमुद्रां दर्शयित्वा सभाज्यास्त्रेण मण्टपम् ॥६५॥
संवेष्ट्ये सूत्रैरीशानीं दिशामारभ्य सर्वत: ।
उपरिष्टान्मण्टपस्य ध्यात्वास्त्रेशं सुदर्शनम् ॥६६॥
भूतले सगदं पह्मं पाञ्चजन्यं दिशास्वपि ।
छिदान्वेषणदक्षाणां भूतानां शान्तये पुन: ॥६७॥
बलिं माषौदनेनैव विकीर्य च समन्तत: ।
स्त्रापयित्वौत्सवं बिम्बमुपवीतावसानकम् ॥६८॥
सभाज्य मण्टपे चैव समानीय द्विजोत्तम ।
निवेद्य च हविस्तत्र समाप्याराधनं हरे: ॥६९॥
कर्करीसहिते कुम्भे हविरन्तं सभाज्य च ।
हव्यवाहगतं देवं तर्पयित्वा हुतेन च ॥७०॥
पवित्रभूषणं सर्वं चतु:स्थानस्थितस्य च ।
पृथक् पृथक् पात्रगतं पुरतो विनिवेश्य च ॥७१॥
जपन्निदं विष्णुरितिमन्त्रं मङ्गलसंयुतम् ।
आसाद्य मूलबिम्बं तु पवित्रं मूलमन्त्रत: ॥७२॥
तस्मिन् विन्यस्य सर्वत्र क्रमादर्चासु देशिक: ।
पवित्रभूषणन्यासं विधाय तदन्तरम् ॥७३॥
सूत्रैश्च पञ्चवर्णाद्यै:(ढ्यै:?)प्रासादं चापि वेष्टयेत् ।
तां रात्रिं सकलां नीत्वा जाग्रदेव जपादिकै: ॥७४॥
प्रभाते मण्डपाग्रस्थं नीत्वा स्त्रानार्थवेदिकाम् ।
स्त्रापयित्वा च विधिना भूषयित्वा तत: परम् ॥७५॥
नीत्वा च मण्डलं तत्र पूजयेद्दीपपाश्चिमम् ।
कुम्भादीनपि चाभ्यर्च्य तिवेद्यान्नं चतुर्विधम् ॥७६॥
हुत्वा च पायसादीनि पुंसूक्तेन पृथक् पृथक् ।
बहुभि: सतिलैर्लार्धूपैरगरुभिस्तत: ॥७७॥
समिदिभराज्यैहुयात् पृथगष्टशताहुती: ।
सांवत्सरोक्ते सुभगे मुहूर्ते देशिकोत्तम: ॥७८॥
मण्डलं भूषयेत्पूर्वं पवित्रैर्मूषाणोत्तमै: ।
मण्डलाङ्गानि च तथा पह्मादीनि यथातथम् ॥७९॥
कुम्भादीनपि चाभ्यर्च्य निवेद्यान्नं चतुर्विण्धम् ।
कुम्भस्थे(म्भे च ?) करके देवे कुण्डे वा तोरणादिषु ॥८०॥
तत्कुम्भेषु च सर्वेषु भूषणानि यथाक्रमम् (?) ।
मण्डलस्यं जगन्नाथं परीत्याथ प्रदक्षिणम् ॥८१॥
सर्वमङ्गलसंयुक्तं मन्दिरान्त: प्रवेश्य च ।
स्त्रपनादिनिवेद्यान्ते विधाय च सभाजनम् ॥८२॥
मूलार्चादीनि सर्वाणि बिम्बान्यपि पवित्रकै: ।
अलंकृत्याथ निर्गत्य चण्डादीनामपि द्विज ॥८३॥
परिवारगणानां च पवित्राणि निधाय च ।
ब्रह्मादीनापि तथा सेनानीतार्क्ष्ययोरपि ॥८४॥
बलिपीठावसानानां सर्वेषामपि काश्यप ।
विष्णुगायत्रिया यद्वा तथेदं विष्णुरित्यपि ॥८५॥
अष्टाक्षरेण वा यद्वा द्वादक्षरविद्यया ।
पवित्राणि प्रदायाथ देशिको मूर्तिपैर्युत: ॥८६॥
प्रविश्य विष्णो: सदनं यजमान: समाहित: ।
अञ्जलौ रत्ननिचयं हैमं वा पुष्पसंचयम् ॥८७॥
निवेश्य स्तोत्रपठनं कुर्वन्नंव पदाब्जयो: ।
विकीर्य तानि रत्नानि हैमानि कुसुमान्यपि ॥८८॥
मनुजानामपि तथा पवित्राणि कृतानि च ।
वस्त्राण्यनि च विज्ञाप्य देवं गृह्णीत देशिक: ॥८९॥
ऋत्विग्भ्य: पूजकेभ्यश्च वेदविद्भ्यश्च दापयेत् ।
विहितानि पवित्राणि ट्टष्ट्वा देवमुखाम्बुजम् ॥९०॥
विज्ञापयेदिमापं गाथां सर्वदेवक्षमापिणीम् ।
देवदेव जगन्नाथ यदाम्भोधे मया कृतम् ॥९१॥
गृहाणाराधनमिदं सर्वभोगप्रपूरणम् ।
स्वातन्?त्र्येण मया नैतद्विहितं जगतां निधे ॥९२॥
किं तु त्वत्प्रेरिमति: किमु बान्यत् क्षमस्व मे ।
इत्थं विज्ञाप्य देवेशं प्रणिपत्य क्षमापयेत् ॥९३॥
यजमानश्च गुरवे तस्मिन् काले पशून् भुव: ।
गृहं च धनधान्याढ्यं दद्यात् प्रीतेन चेसा ॥९४॥
अन्येभ्य: सहकारिभ्यस्तत्तत्कर्मानुरूपत: ।
देया च दक्षिणा तेषां मन:प्रीतिर्यथा भवेत् ॥ ९५॥
अपराह्णे च देवेशां नीत्वा धाम प्रदक्षिणम् ।
सर्वमङ्गलसंयुक्तं मन्दिरान्त: प्रवेशयेत् ॥९६॥
सप्त त्रीन् पञ्च दिवसान् समतीत्यावरोहणम् ।
पौरुषं सूक्तमुच्चार्य तथा साम रथन्तरम् ॥९७॥
त्रिसुपर्णं मूलमथ पवित्राण्यवरोपयेत् ।
गुरवे तानि देयानि प्रीणनार्थं मधुद्विष: ॥९८॥
कुम्भस्थं मण्डलस्थं च वहिस्थं च हरिं पुन: ।
विसृज्य देवस्य तत: स्त्रपनं चापि कारयेत् ॥९९॥
अनेन विधिना विप्र पवित्रारोह(प?)णं हरे: ।
कुर्वत् फलान्यनन्तानि प्राप्रोत्येव न संशय: ॥१००॥
अनेन विधिना विप्र कङ्लारकुसुमान्यपि ।
तथा ?दमन्या: पत्राणि देवस्यारोपयेद् द्विज ॥१०१॥
सांवत्सरिकभोगानां पूरणार्थं श्रिय: पते:॥

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
प?वित्रारोपणविधिर्नाम चतुर्विशोऽध्याय:॥

N/A

References : N/A
Last Updated : January 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP