संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| एकविंशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - एकविंशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता एकविंशोऽध्याय: Translation - भाषांतर काश्प:---देवालस्य निर्माणं देवस्य च विनिर्मित(ति ?)म् ।श्रोतुमिच्छामि भगवन् किंचित् यंक्षिप्य [वक्ष्य] (चोच्य ?)ताम् ॥१॥विश्वामित्र:---देवधाम्रो विनिर्माणप्रकारं श्णु काश्यप ।यस्य श्रवणमात्रेण निर्माणफलमश्रुते ॥२॥अश्वमेधादिभिर्यज्ञैरिष्ट्वा यत्फलमाप्रुयात् ।देवधामविनिर्माणसंल्पेन लभेत तत् ॥३॥शिलेष्टकाकाष्ठकृतमुत्तमाधममध्यमम् ।शिला वै चोत्तमं मध्यमिष्टकारचितं द्विज ॥४॥अधमं काष्ठरचितं क्षुद्रं मृण्मयमुच्यते ।यजमानानुकूलर्क्षे शुभे चैवोत्तरायणे ॥५॥शुभे योगे शुभे लग्रे भूमिभागस्य संग्रहम् ।?विधाय तत्र देवेशं वराहतनुमच्युतम् ॥६॥प्रणम्य खातयेद्यावज्जलस्योद्ग्रमनं भवेत् ।शल्यादीनपि चोद्धृत्य बहि: प्रक्षेपयेद् द्विज ॥७॥शुभसंदर्शने सिद्धिरशुभे शान्तिमाचरेत् ।सौदर्शनेन मन्त्रेण हुने(?)दष्टसहस्त्रकम् ॥८॥वास्तुदेशस्थितान् देवान् पूजयेदवटे तत: ।पाषाणवालुकाद्यैस्तं पूरयेदवटं तत: ॥९॥दक्षिणेनोन्नतं कृत्वा निम्रमुतरतोऽपि च ।तं देशं गोमयाम्भोभि: समीकृत्य विशोध्य च ॥१०॥जुहुयान्मूलमन्त्रेण सभिदाज्यचरून् पृथक् ।अष्टोत्तरशतं मन्त्री पुण्डरीकाक्षमन्त्रकम् ॥११॥जपित्वा वाचयेत्पश्चात् पुण्याहं ब्राह्मणोत्तमै: ।सथापतिस्थापकयुतो मतिमान् गणकै: सह ॥१२॥तन्मध्ये स्थापयेच्छुङ्कुमृजुं ग्रन्थिविवर्जितम् ।शङ्कुद्विगुणविस्तारं तद्ब्रहिजर्मण्डलं लिखेत् ॥१३॥प्रात: सायं च गच्छाया मण्डलान्ते द्विजोत्तम ।तत्र बिन्दुद्वयं कृत्वा प्राक्प्रत्यक् सूत्रयुग्मकम् ॥१४॥क्षिप्त्वा बिन्द्वन्तरे भ्राम्येत् कच्छपाननपुच्छवत् ।प्रागुदग्दिम्द्वयं ज्ञात्वा समीकृत्य च तत्पुन: ॥१५॥उत्तरार्धपरं सूत्रं द्विहस्तं भ्रामयेत्तत: ।त्रिहस्तं पञ्चहस्तं वा सप्तहस्तमथापि वा ॥१६॥अधिकं वा यथेष्टं तत्सूत्राणि स्फालयेत् पृथक् ।दिक्सूत्रं भ्रामयित्वा च लाञ्छयेत् कोणसूत्रकम् ॥१७॥कोणदिक्संप्रसिद्ध्यर्थं कोणसूत्रं क्षिपेत्तत: ।सूत्रस्य वृत्तभ्रमणात् समतां परिकल्प्य च ॥१८॥सूत्रद्वयं समालम्ब्य कोटिं निणीयं च द्विज ।क्रमेणैव दिशश्चाष्ठौ निर्णयेच्च पृथक् पूथक् ॥१९॥तक्षव(वा ?)स्तुविघिज्ञेन चतुरश्रं विधाय च ।निनादयेदष्ठशङ्कून् निमित्तानि च लक्षयेत् ॥२०॥निमित्ते तु शुभे कार्यमशुभे शान्तिमाचरेत् ।सौदर्शनेन जुहुयान्मन्त्रेणाष्ठसहस्त्रकम् ॥२१॥वह्वयादियाम्कोणान्तमष्टौ देवा: स्थिता: पदे ।मारुतादीशपर्यन्तं तथैवाष्टौ पदे स्थिता: ॥२२॥अबाद्या: पृथ्विपर्यन्ता: स्थिता: शिष्टा: पदेष्वपि ।उक्तै: संख्यै: (?) समाराध्य यथान्यायं गुरुर्द्विज ॥२३॥पूरयेच्चैव तं देशं बालुकाभिर्यथा समम् ।आरभेत तत: प्राज्ञ अधमं [दारुणा च यम्] ॥२४॥गृहीतस्थानकं प्राच्यां दक्षिणे चोत्तरेऽपि वा ।यथैवाभिमतस्थानं कुर्यात् कृत्रिममालयम् ॥२५॥प्राकारं परित: कृत्वा कुर्यादग्रे च मण्डपम् ।हैमं वा रूप्यमथवा तर्थोदुम्बरमेव वा ॥२६॥हस्वकायधरं देवं चतुर्बाहुधरं हरिम् ।विघाय जलवासादि क्रमात् कृत्वाथ मण्डपम् ॥२७॥अविवास्य तथा कृत्वा मूर्तिहोमं च शान्तिकम् ।सुप्रभाते सुलग्रे च विमले च तथाम्बरे ॥२८॥प्रदक्षिणं घाम नीत्वा गर्भगेहं प्रवेशयेत् ।एकहस्तसमायामविस्तारे तत्समोच्छ्रयम्(ये ?) ॥२९॥वेदिमध्ये च संस्?थाप्य मूलमन्त्रेण देशिक: ।निश्चलं स्थापयित्वा व तत्र देवं सनातनम् ॥३०॥आदित्यमण्डलान्त:स्थं नाराणमनन्यधी: ।आवाह्म च जितं तेन बिम्बमध्ये निवेशयेत् ॥३१॥संपूज्य चथाशास्त्रं ततो विज्ञापयेदिदम् ।यावद्धामसमाप्ति:स्यात् तावत्कालं सुरोत्तम ॥३२॥अल्पगेहेऽत्र वस्तव्यमस्मत्प्रीत्या जनार्दन ।इति विज्ञाप्य देवेशं दण्डवत् प्रणिपत्य च ॥३३॥प्राप्ते चतुर्थदिवसे स्त्रापयित्वोत्तमेन तु ।उत्सवं कारयित्वाथ तीर्थयात्रां च कारयेत् ॥३४॥यजमानानुकूले तु शुभेऽहनि समाहित: ।इष्टका द्वादशाष्ठौ वा चतस्त्रो वा शिवा: शिला: ॥३५॥गृहीत्वा शिख(तक्ष ?)यित्वा च तक्षकै: शि(त ?)क्षित(ता?)तत: ।पञ्चगव्यै: क्षालयित्वा मण्डपे चाधिवासयेत् ॥३६॥इष्ठकानां दक्षिणत: कलशान् धान्यराशिषु ।स्थापयित्वा विधानेन दिगीशान् पूजयेदथ ॥३७॥कुम्?भं मध्ये च संस्थाप्य प्रागुक्तविधिना द्विज ।तन्मध्ये पूजयित्वाथ ब्रह्मणां कमलासनम् ॥३८॥क्षौमै: शुद्धैर्नवै: कुम्भै:(म्भं ?) कलशानिष्टका अपि ।संवेष्टयोत्तरतो वह्निमाधाय विधिना द्विज ॥३९॥समीकृत्य चरून् हुत्वा पृथगष्टोत्तरं शतम् ।देशिको मूलमन्त्रेण जगरेण नयेन्निशाम् ॥४०॥उदिते विमले सूर्ये सुमुहूर्ते समागते ।द्वारदेशं तु संकल्प्य दक्षिणेन समाहित: ॥४१॥कुम्भोदकेनाभिषिच्य ब्राह्मणानुमतेष्टका: ।मनुना लोकपालानां कलशैरष्टभि: क्रमात् ॥४२॥प्रासादमध्यगो भूत्वा जपेदष्टाक्षरं मनुम् ।नरनारायणं देवं श्रिया सार्धं जगद्गुरुम् ॥४३॥प्रणामं दण्डवत्कृत्वा प्रणवं मनुमुच्चरन् ।द्वारदक्षिणभागे तु स्यापयेत् प्रथमेष्टकाम् ॥४४॥चह्निकोणं समारभ्य प्रादक्षिण्येन विन्यसेत् ।ऐन्द्राग्रि(न्त?)मिष्टकाश्चाष्टौ रक्षार्थं मन्दिरस्य च ॥४५॥जपेत्सौदर्शनं मन्त्रमष्टोत्तरशतं सुधी: ।अष्टाक्षरं च मन्त्रेशं वाराहं नारसिंह?कम् ॥४६॥जपेदष्टोत्तरशतं पृथक् पृथगुदारधी: ।प्रीणयित्वा च विप्रग्र्यान् शिल्पिसंघं च तोषयेत् ॥४७॥वासोभिर्मूषणैश्चैव साघनैर्धान्यराशिभि: ।आचार्याय च ऋत्विग्भ्य: क्रमाद्दत्वा च दक्षिणाम् ॥४८॥भेरीकाहलशङ्खादिवादकानपि तोषयेत् ।श्वभ्रमदिभश्च संपूर्य रत्नैर्धान्येश्च देशिक: ॥४९॥गन्धाक्षतं च निक्षिप्य प्रणवं मन्त्रमुच्चरन् ।परीक्षेत जलावर्तं शुभं चेज्जायते शुभम् ॥५०॥अशुभे जुहुयादाम्नौ मनुनाष्टाक्षरेण तु ।पूरयित्वावटं तच्च वालुकाभि: समन्तत: ॥५१॥तत: प्रभृति तं देशं रक्षेच्चैकाग्रमानस: ।हस्तत्रयं समारभ्या नवहस्तावधि द्विच ॥५२॥हस्तैरयुग्मै: कुवींत क्रमादेकतलं द्विज ।कुर्यात्ततश्च द्वितलं यत् त्रयोदशहस्तकम् ॥५३॥हस्तैर्दशाधिकैर्वापि पञ्चोर्ध्वैर्वास्तुभूमिकाम् ।प्रासादस्याधिकं कुर्यात् षड्ढस्तं तु विशेषत: ॥५४॥एवमा द्वादशतलाद् विस्तारं विदधीत च ।उत्तमं द्विगुणोच्छ्रायं विस्तारादुच्यते द्विज ॥५५॥सप्तधा विहिते चैव विस्ताराद् द्वाशाङ्गुलम् ।मध्यमं प्राहुरधममेकादशभिरंशकै: ॥५६॥एवमा द्वादशतलागुत्सेधे विहिते सति ।पदा च (नि?) सूत्रपातेन विदधीत च षोडशा ॥५७॥चतुष्पदं गर्भगेहं मध्यं स्याद्ब्राह्मतस्तत: ।भित्त्यर्थं द्वादशपदान्यन्यानि परिकल्नयेत् ॥५८॥प्राच्योदीच्यैश्च षट्सूत्रै: पञ्चविंशतिसंख्यया ।?B पदानि स्युर्नवनदं गर्भगेहान्तरं भवेत् ॥५९॥पदै: षोडशाभि: कुर्यादिभत्ती: सर्वा: समन्तत: ।प्रासादस्त्रिविध: प्रोक्तस्त्वाकृतीनां विभेदत: ॥६०॥नागरं चतुरश्रं स्यादास्थूप्यन्तं द्वितोत्तम ।प्रासादं कण्ठेशान्तमष्टाश्रं द्राविळं(डं?) भवेत् ॥६१॥वृत्तमाकण्ठदेशान्तं तद्वेसरमुदाहृतम् ।आयामे चतुरश्रं च व्यायामे वर्तुलं तथा ॥६२॥चतुरश्रं तु वृत्तं वा चतुर्धा स्यात् पुनर्द्विज ।कृत्वा तु धाम्नो विष्कम्भं पञ्चभागविभाजितम् ॥६३॥तेषु त्रिषु विभागेषु सप्तधा त्रिभिरेव वा ।अथवा नवभागेषु चतुर्भिर्वा प्रकल्पयेत् ॥६४॥विस्तारं द्वारदेशस्य यद्वा गर्भगृहं द्विज ।कृत्वा त्रिधैकभागेन तदर्धैकेन वा पुन: ॥६५॥पञ्चस्वेकेन वा कर्याद् द्वारदेशत्य विस्तृति:(तिम्?) ।विस्ताराद् द्विगुणं कुर्यादुत्सेधं भूसुरोत्तम ॥६६॥प्रासादेष्वेवमेवाथ विहितं स्याद् द्विजोत्तम ।मूतीनां स्थापनं वक्ष्ये समाहितमना: श्णु ॥६७॥आद्ये तले तूपरिष्टात् स्थापयेच्च चतुर्दिशम् ।वाराहं नारासिंहं च श्रीधरं हयववत्रकम् ॥६८॥चतुर्षु कोणदेशेषु गरुडं तन्निभाननम् ।आसीनं वा स्थितं वापि कुर्यात्तत्तद्दिगाननम् ॥६९॥अथवा केणदेशेषु कल्पयेत् सिंहमेव वा ।कर्णकूटेषु शालासु तथा द्वारान्तरेष्वपि ॥७०॥कुमुदादीनुपेन्द्रादीन् सगणान् ?परिकल्पयेत् ।सिद्धविद्याधरादींश्च नृत्यतो गायतोऽपि वा ॥७१॥वाद्यवादनकारांश्च पश्यतोऽन्योन्यमेव तान् ।कल्पयेदिभत्तिभागेषु शिल्पिशास्त्रविशारद: ॥७२॥द्वितीये तु तले ब्रह्मन् शृणु देवान्. पृथक् पृथक् ।नरं नारायणं चैव हरिं कृष्णं यथाक्रमम् ॥७३॥कल्पयेच्चतुर्दिक्षु पूर्वाद्युत्तरपश्चिमम् ।अन्येषु चावकाशेषु केशवादीन् सशक्तिकान् ॥७४॥कल्पयेद् द्विजाशर्दूल भित्तिभागेषु पूर्ववत् ।तले तृतीये कुवींत चतुर्दिक्षु यथाक्रमम् ॥७५॥पुरुषं सत्यमनु च तथाच्युतमनन्तरम् ।अनन्तमपि कुवींत शेषेषु च यथापुरम् ॥७६॥इन्द्रादींश्चैव लोकेशानादित्यान् द्वादशापि च ।गन्धर्वाप्सरसंधं च सकिंनरमहोरगम् ॥७७॥नर्तनादिकृत: कुर्यात् सर्वानपि समन्तत: ।चतुर्थेऽपि तले विप्र स्थितं देवगणं शृणु ॥७८॥पूर्वे वा वामनं कुर्याद्दक्षिणस्यां त्रिविक्रमम् ।पश्चिमायां जामदग्रि(ग्नय ?)सुत्तरस्यामपि द्विज ॥७९॥बलदेवं विदध्याच्च शेषेष्वपि समन्तत: ।वैभवं देवसंघातं पह्मनाभादिकं द्विज ॥८०॥पञ्चमेऽपि तले कुर्याच्चतुर्दिक्ष्वपि काश्यप ।सुदर्शनं पाञ्चजन्यं गदां पह्मं तथैव च ॥८१॥मूर्धभि: स्वायुधधरान् कृताञ्जलिपुटान् क्रमात् ।अवशिष्टेषु देशेषु कृष्णस्यापि विचेष्टितम् ॥८२॥सप्तमेऽपि तले कुर्याच्चतुर्दिक्षु यथाक्रमम् ।वासुदेवादिकान् देवाँश्चतुरोऽपि महामुने ॥८३॥कर्णकूटेषु धर्मादीन् पञ्जरेषु यथाक्रमम् ।[महाँश्च](?) चतुरो वेदान् कृतत्रेतादिकानपि ॥८४॥दिव्यायुधानि कुर्वीत [हाराणा(?)]मन्तरेषु च ।कोणेषु गरुडं कुर्यामुने सप्ततलेष्वपि ॥८५॥सिंहानेव तथा कुर्याद्वीरसेनं सुषेणकम् ।वीरनाथं सुभद्रं च भुजै: प्रासादधारिणौ ॥८६॥कुर्याच्चतुर्दिशं विप्र चण्डादीन् द्वारपार्श्वत: ।शङ्खपह्मनिधीन्(धी ?) कुर्यादेवं प्रासादेवता: ॥८७॥कारयेद् द्विजवर्यास्य प्रासादस्य चतुर्दिशम् ।संभवेत्युर्यदि पुरा प्रथमादितलेष्वपि ॥८८॥तृतीयादितलेषूक्तदेवता एव कल्पयेत् ।गोपुरेषु कृतेष्वेवं देवतान्यासमाचरेत् ॥८९॥[प्रते](?)रूर्धवप्रदेशे तु भूतमालां विधापयेत् ।हंसमालां च विप्राग्र्य यथेष्टं विदधीत च ॥९०॥अधिष्ठानेऽपि चाधस्ताल्लोहिताक्षादि चाष्टकम् ।चक्रादि चाष्टकं चैव कल्पयित्वा तदन्तरे ॥९१॥आरभे(लिखेत् ?)दिभत्तिभागेऽपि प्रादुर्भावगणानपि ।धाम्र: समन्तात्कुवीतं मालिकाविस्तृतिं द्विज ॥९२॥कारयेत् स्त्रपनार्थं च तद्ब्रहिर्मण्टपं द्विज ।पानीयशलां कुवींत विशालां शीतकारिणीम् ॥९३॥वारुणे वाहनस्थानं मारुते वासुमन्दिरम् ।शयनस्योत्तरे स्थानमीशे कुसुममण्डपम् ॥९४॥तृतीयावरणे कुर्यादग्रेये नृत्तमण्डपम् ।याम्ये गानालयं कुर्यात् सभां निऋर्तिकोणके ॥९५॥वारुणे पुस्तकख्थानं वायौ धान्यालयं(यो ?)भवेत् ।उत्तरस्यां दिशि भवेदधिकं(को ?) वैष्णवालयम् (य:?) ॥९६॥गोशालां मध्यत: कुर्यात् सोमेशानदिशि द्विज ।मातॄणामालयं कुर्यात् प्रासादस्य च दक्षिणे ॥९७॥महानसस्य च पुर: कूप: कार्यो विजानता ।एवं विदध्यात्प्रासादं गर्भन्यासमथो शृणु ॥९८॥हैमं रौप्यं तथा ताम्रपात्रमायसमेव वा ।षोडश्?ाङ्गुलविस्तारमथवा द्वादशाङगुलम् ॥९९॥अष्टाङ्गुलं वा कुवींत यथेष्टं द्विजपुंगव ।विस्तारस्यो(मु?)च्छ्रयं कुर्यात् तदर्धेन द्विजोत्तम ॥१००॥वृत्तं वा चतुरश्रं वा चतुष्पादं द्विजाथवा ।त्रिपादमथवा कुर्याद्यथेष्टं द्विजसत्तम ॥१०१॥अथवा गर्तनवकं विदधीत विचक्षण: ।वेदिकां तत्पुर: कुर्यात् तामालिप्य च गोमयै: ॥१०२॥शालिभिर्मण्डलं कुर्यादष्टभारप्रमाणकै: ।तदर्धतण्डुलयुतं वस्त्रैराच्छाद्य चापि तत् ॥१०३॥कुम्भं चोपरि विन्यस्येदम्भ:पूर्णं सरत्नकम् ।पञ्चायुधं स्वर्णमयं कुम्भमम्ये च विन्यसेत् ॥१०४॥अर्चयेद्ग्रन्धपुष्पाद्यैर्ब्रह्मबीजेन देशिक: ।परितस्तस्य कलशान् निधायाष्टौ समभाजयेत् ॥१०५॥इन्द्रादीशानपर्यन्तं कलशेष्वष्टकेषु च ।क्षालयित्वा पञ्चगव्यै: पात्रं पूर्वं प्रकल्पितम् ॥१०६॥कलशै: कुम्भसहितै: प्रणवेनाभिशेचयेत् ।स्थण्डिलं पूर्ववत्कृत्वा वस्त्रैराच्छाद्य दर्भकै: ॥१०७॥तन्मध्ये वेष्टयेत्पात्रं(?) वेष्टयित्वाम्बरैरपि ।अद्रेर्मृदादि खर्णं च न्यसेत्पात्रावटेष्वथ ॥१०८॥सर्वेषु च सुवर्णादीन् ध्यात्वा ब्रह्मणमत्र च ।अष्टाक्षरं जपन् मन्त्रं प्रसृतेन स्पृशेच्च तत् ॥१०९॥दैशिक: शीलसहितो जनान् सर्वान् विलम्बय च ।गर्भगेहं प्रविश्याथ प्राङ्मुखो वाप्युदङ्मुख: ॥११०॥दक्षिणे द्वारपार्श्वे तु भागौ द्वौ परिशिष्य च ।तृतीयभागे विन्यत्य विशेषेणोरुमूलके ॥१११॥पष्टिकायां तु देवानां गर्भन्यास: प्ररशस्यते ।द्विजानां पट्टिकाधस्तान्नृपाणां कुमुदोपरि ॥११२॥वैश्यानां कुमुदाधस्तात्तुर्याणां [जगतोपरि] (?) ।गायत्र्या प्रोक्षणं कृत्वा वारुणे होममाचरेत् ॥११३॥स्वनाम्रा केशवादींश्च घृतेन जुहुयात्तत: ।इन्द्रादीन् ब्रह्मपर्यन्तान् पृथगश्टाहुतीर्हुनेत् (?) ॥११४॥हुत्वा व्याहृतिभिश्चान्ते शास्त्रचोदितवर्त्मना ।वैष्णवं शिल्पशस्त्रज्ञं क्रियासु कुशलं गुरु: ॥११५॥एवंगुणसमायुक्तं [शृणुयाद्]द्विजपुंगव (?) ।संपाताज्येन सिक्त्वाथ मूलविद्यां जपन् सुधी: ॥११६॥अपिधाय च तत्पात्रं प्रणवेन समाहित: ।दक्षिणाङ्गुष्ठशिरसा स्पृशन्नष्टाक्षरं जपेत् ॥११७॥प्राङ्मुख: सेचने तत्र स्मरन् भूभिं कृताञ्जलि: ।इमां गाथां जपेन्मन्त्ररूपिणीं देशिकोत्तम: ॥११८॥सर्वभूतघरे कान्ते पर्वस्तनमण्डिते ।समुद्रपरिधानीये देवि गर्भं समाश्रय ॥११९॥अनेन विधिना रात्रौ गर्भन्यासं समाचरेत् ।मूर्धेष्टकां विधायाथ शिल्पशास्त्रोक्तवर्त्मना ॥१२०॥स्थूपिकां संनिवेश्याथ स्थापयित्वा शिखाघटम् ।वर्णकैर्लेपयित्वा च प्रासादं चापि सर्वत: ॥१२१॥पूजयित्वा गुरुं पूर्वं पूजयेच्छिल्पिनं बुध: ।प्रासादं यो विधानेन वासुदेवस्य कारयेत् ॥१२२॥सर्व कुलं समुद्धृत्य विष्णुलोके सुपूज्यते॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायांप्रासादनिर्माणं(णविधि:?)नाम एकविंशोऽध्याय:॥ N/A References : N/A Last Updated : January 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP