संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| द्वादशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - द्वादशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता द्वादशोऽध्याय: Translation - भाषांतर विश्वामित्र:---नित्योत्सवविर्धि ब्रह्मन् प्रवक्ष्यामि शृणुष्व(?)तम् ।उत्सवं(व:?) त्रिविधं ( ध:?) प्रोक्तं (क्त:?) तन्त्रेऽस्मिन् ब्रह्मणा पुरा ॥१॥पात्रस्थे तण्डुले प्रातरावाह्म परमेश्वरम् ।परिक्रमेद् द्वादशभि: शक्तिभि: सहितो मुने ॥२॥अह्मे (न्ने?)मध्याहसमये सायं कुसुमसंचये ।अथावा त्रिषु कालेषु बल्यर्थं चारयेद् द्विज ॥३॥बलिप्रदानस्य कृते सर्वेष्वावरणेष्वपि ।ध्रुवादावह्म देवेशं बलिबिम्बे निवेश्य च ॥४॥अर्चयेदर्ध्यपूर्वाभि: सपर्याभिर्द्विजोत्तम ।तत: शुचिं द्विजवरं श्वेतवस्त्रोपधारिणम् ॥५॥सोत्तरीयं च सोष्णीषं धृतद्वादशपुण्ड्रकम् ।वैष्णवं सुमुखं दान्तं युवानं जपतत्परम् ॥६॥गरुत्मन्तं भावयित्वा [तन्मूर्ध्रि विनिवेशयेत्] (बलिं तन्मूर्ध्रि विन्यसेत् ?) ।शङ्खकाहलनादाढ्यं तूर्यघोषपुर:सरम् ॥७॥अन्येन स्वर्णभृङ्गारं धारयेद्वण्टया सह ।अपरो धारयेत् पात्रं बलिद्रव्येण संयुतम् ॥८॥गर्भगेहद्वारपाश्वमार्श्वसाद्याथ उदुम्बरे ।दक्षिणे वास्तुनाथस्तु द्विभुजो रक्तपात्रधृक् ॥९॥श्वेतवस्त्रधरो हस्ते दक्षिणे सुरसंश्रय: ।गदोद्यतकरो वास्तुनाथो ध्येयो द्विजोत्तम ॥१०॥क्षेत्रनाथं वण्डहस्तं नीलनीमूतसंनिभम् ।समुष्टिकं वामहस्तं दधानं वामपार्श्वगम् ॥११॥वीक्षमाणं विभोर्वक्त्रं ध्यात्वा द्वौ पूजयेद् द्विज ।ऊर्ध्वोदुम्बरमध्यस्थां सर्वाभरणभूषिताम् ॥१२॥तप्तकार्तस्वरनिभां विद्रुमप्रतिमाग्बराम् ।पह्मकुम्भकरां पह्मसंसथां द्वारश्रियं यजेत् ॥१३॥बाह्मे गर्भगृहद्वारशाखानूले तु दक्षिणे ।बद्धोष्णीषं सोर्ध्वपुण्ड्रं शुक्लाम्बरधरं द्विज ॥१४॥हारकेयूरकटककुण्डलादिविभूषितम् ।तरुणादित्यवर्णाभं चतुर्बाहुं च दक्षिणे ॥१५॥भुज(हस्त ?)द्वये चक्रधरमूर्ध्वहस्ते(?)गदामपि ।श्रोणीतटनिषण्णां च विश्रान्ताग्रां भुक्स्तले ॥१६॥ज्वलन्तं दधतं वामे शङ्खमूर्ध्वेऽक्षसूत्रकम् ।अधश्च चण्डं ध्यात्वैवं पूजयेद् द्विजसतम ॥१७॥व्यत्यस्तभुजयुग्मं च प्रचण्डमपि पूजयेत् ।गरुडं काञ्चननिभं कुटिकभ्रूयुगोज्जवलम् ॥१८॥लम्बोदरं च वृत्ताक्षं सर्वाभरणभूषितम् ।नीलाम्बरं पक्षयुग्ममण्डलेन विराजितम् ॥१९॥कृताञ्जलिं देवदेवसुमुखं(संमुखे ?) सम्यगर्चयेत् ।अथाग्रमण्डपद्वारशाखाद्वयसुसंस्थितौ ॥२०॥पह्मगर्भनिभौ चण्डप्रचण्डसटृशौ भुजे ।रक्ताम्बरादिसहितौ पूजयेद् गणनायकौ ॥२१॥उभौ धातृविधातारौ प्रथमावरणे तथा ।कुमुदं पूर्वदिग्भागे नानावस्रादिभूषितम् ॥२२॥चतुर्भुजं दक्षिणकरद्वन्द्वे श्वेतं च चामरम् ।मुद्रामभयसंज्ञां च सव्ये हारस्त्रजं तथा ॥२३॥तूष्णी [मानम]संज्ञां च दधानं च सभाजयेत् ।कुमुदाक्षं वह्निकोण व्यत्यस्तुभुजयुग्मकम् ॥२४॥दक्षिणे पुडरीकं च कह्नचाभं गरुडध्वजम् ।दधानं नैऋर्ते चैव वामनंतद्वदर्चयेत् ॥२५॥पश्चिमे शङ्कुकर्णं च पञ्चरागशरीरकम् ।मायूरपिञ्छव्यजनधारिणं वायुकोणगम् ॥२६॥सर्पनेत्रं च विधिवदर्चयेद् द्विजपुंगव ।सोमे सुमुखसंज्ञं च श्यामं छत्रधरं भजेत् ॥२७॥सुप्रतिष्ठं तथेशाने ध्यात्वैवं च सभाजयेत् ।अनुक्तं शेषमेतेषां कुमुदस्येव काश्यप ॥२८॥ऊर्ध्वपुण्ड्रेण सर्वेऽपि ललाटस्थेन शोभिता: ।तद्बाह्मद्वारपार्श्वस्थं जयं सविजयें यजेत् ॥२९॥चण्डप्रचण्सटृशावुभावेतौ चतुर्भुजौ ।पीतमाल्याम्बरधरौ [पीतोष्णीषशिरी] (धरौ?) मुने ॥३०॥पश्चादुपेन्द्रं प्राग्भागे वह्निकोणे च सत्तम ।तेजोधरं दक्षिणे च दुरतिक्रमसंज्ञितम् ॥३१॥नैऋर्ते पश्चिमे चैव महाकर्ममहाह्नदौ ।अगृह्मं वायुकोणेच वसुरेतसमुत्तरे ॥३२॥वर्धमानं तथेशाने साक्षिणं गगनोपरि ।अधोभागे च सर्वस्य आधारनिल्यं क्रमात् ॥३३॥एतान् स्फटिकवर्णाभान् वराभयकरान् यजेत् ।अथवाक्षस्त्रजं चक्रं शङ्खं चगदया सह ॥३४॥करैश्चतुर्भिर्दधतो मकुटादिविभूषितान् ।ततस्तृ?तीयावरणद्वारपार्श्वस्थितावुभौ ॥३५॥यजेदभद्रं सुभद्रं च यथा चण्डप्रचण्डकौ ।इन्द्रं यजेत तदनु श्यामर्णं चतुर्भुजम् ॥३६॥सिद्विपस्थं कुलिशं बिभ्रतं तीक्ष्णधारकम् ।[अजारुसं] (अजारूढं ?) रक्तवर्णं हुताशं शक्तिहस्तकम् ॥३७॥यमं महिषसंस्थं तु कृष्णं दण्डकरं यजेत् ।प्रेतासनं खङ्गधरं निऋर्तिं चासितद्युतिम् ॥३८॥वरुणं मकरारूढं मुक्ताभं पाशधारिणम् ।वायुं हरिणमारूढं कृष्णध्वजपदाङ्कितम् ॥३९॥शशिनं शशकारूढं श्वेतं शिशिरपर्वतम् ।वृषारूढं प्रवालाभं शूलिनं त्र्यम्बलं यजेत् ॥४०॥कूर्मारूढं हलधरमधस्तान्नागराजकम् ।ब्रह्माणं हंससंस्थं च चतुर्ववक्त्रं स्मरन् यजेत् ॥४१॥चतुर्भुजा: सर्व एतेसाक्षमाला: परं विभुम् ।ध्यायन्त इति संस्मृत्य वराभयकरान् यजेत् ॥४२॥अमरेशविरूपाक्षौ तथा गोपुरपार्श्वगौ ।इष्ट्वा चतुर्थावरणे चक्राद्यायुध्संहतिम् ॥४३ ।वज्रं शक्तिं च दण्डंच खङ्गं पाशं ध्वजं तथा ।शिशिरास्त्रं त्रिशूलं च क्रमेणैतानि पूजयेत् ॥४४॥महागोपुरपार्श्वस्थौ शूङ्खपह्मनिधी उभौ ।शङ्खपह्मसमानाभौ शुक्लमाल्याम्बरावृतौ ॥४५॥निधिभाण्डसमारूढौ हस्वपाणिपदौ यजेत् ।शङ्खपह्मधरावेतौ निधिहस्तावथापि वा ॥४६॥इष्ठ्वा भगवतो हेतीरष्टदिक्षवदिक्ष्वभिपूजयेत् ।शङ्खं समुसलं चैव चक्रं नन्दकमेव च ॥४७॥गदां शार्ङ्गं च पह्मं च वनमालां क्रमाद्यजेत् ।देवमारोप्य शिबिकां बलिदानाय नाथयेत् ॥४८॥बलिप्रदानसमये तत्तद्रागांश्च गायकै: ।गापयित्वा नर्तकीभिस्तत्तन्नृत्तं च दर्शयेत् ॥४९॥शङ्खकाहलभेरीभिस्तूर्यषोषेण सर्वत: ।बधिरीकृत्य ककुभो बलिदानविधिं चरेत् ॥५०॥ध्वजैशछत्रैश्च विविधैस्तालवृन्तगणैरपि ।चामरैर्धार्यमाणैश्च संछादितदिगन्तरम् ॥५१॥कन्यकाभिर्विचित्राभिर्भूषिताभिश्च सर्वत: ।वसानाभिश्च वासांति पट्टांशुकमयान्यपि ॥५२॥गन्धर्वराजसंकाशैर्गायकानां गणैरपि ।पुरत: प्टष्ठतश्चैव सेव्यमानो द्विजोत्तमै: ॥५३॥पठदिभश्चतुरो वेदान् संघश: सेवित: पृथक् ।स्थाने स्थाने तु ताम्बूलं भक्ष्याणि विविधानि च ॥५४॥फलाकानि च सुपक्वानि सापूपानि निवेद्य च ।वेदविदभयो गायकेभ्यो नर्तकीभय: प्रसाद्यच ॥५५॥एवं सर्वत्र संचार्य गोपपुरद्वारनिर्गमे ।निवार्य तूर्यघोषादि शङ्खमेव निनादयेत् ॥५६॥निर्गत्य च महापीठसमीपे धामसंमुख: ।वाद्यवादिविशेषेण घोषयित्वा समन्तत: ॥५७॥संक्षाल्य पीठमूर्धानं शुचिना गन्धवारिणा ।आराधयित्वा तत्रापि विष्णुपारिषदेश्वरान् ॥५८॥क्षिप्त्वा च पीठशिरसि बलिशेषमशेषयेत् ।गायकैर्गापयित्वा च रागान् बहुविधानपि ॥५९॥उपनृत्य समन्ताच्च नर्तकीभि: प्रदक्षिणम् ।परीत्य वारत्रितयं धामान्त प्रविशेत् पुन: ॥६०॥मुखमण्डपमासाद्य शिबिकामवरोप्य च ।दत्वा च पादुके देवमासने चोपवेश्य तम् ॥६१॥अर्ध्यादिभिश्च सकलैर्भोर्गैराराधयेत् पुन: ।उपहारान् बहुविधान् निवेद्यावसरोचितम् ॥६२॥धामान्तर्देवदेवं तं शाकुनं सूक्तमुच्चरन् ।प्रवेश्य च यथापूर्वमासेन विनिवेष्य च ॥६३॥अर्ध्यादि संप्रदायाथ बहिर्देवस्य संमुखम् ( खे ?) ।गेयं नृत्तं बहुविधं दर्शयेत् पूजकोत्तम: ॥६४॥अतिवृष्टिमहातप्रभृतिक्षोभंसंभवे ।नित्योत्सवो न कर्तव्यो बलिमात्रं प्रदायेत्॥ ६५॥चण्डप्रचण्डयोर्वापि केवलं निक्षिपेद्बलिम् ।तयोर्द्वयोर्वा पुरतो मूलमन्त्रपुरस्सरम् ॥६६॥नमो भूतेभ्य इत्युकत्वा सोदकं प्रक्षिपेद्बलिम् ।बलिप्रदानकाले च संज्ञभि: स्वाभिरेव च ॥६७॥चतुर्थ्यन्तनमोऽन्ताभि: प्रणवाद्याभिरुत्सृजेत् ।स्वस्वमुद्रां प्रदर्श्यैव नान्यथा विहितो विधि: ॥६८॥इति प़ञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायांनित्योत्सवविधिर्नाम द्वादशोऽध्याय:॥ N/A References : N/A Last Updated : January 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP