विश्वामित्रसंहिता - चतुर्थोऽध्याय:

विश्वामित्रसंहिता


काश्यप:---
भगवत्परमित्युक्तं तन्त्रमेतत् त्वया गुरो ।
किमर्थो भगवच्छब्द: कीटृशो भगवांश्च स: ॥१॥
विश्वामित्र:---
वदामि भगवच्छब्दं श्रृणुष्व मुनिसत्तम ।
ज्ञानं निस्सीममैश्वर्यमनन्युरुषाश्रयम् ॥२॥
सर्वातिशायिनी शक्ति: बलं सर्वोत्तमं तथा ।
अन्यैरहार्यं वीर्यं च तेज: सर्वोत्तरोत्तरम् ॥३॥
एतानि षडुदीर्यन्ते भगशब्देन काश्यप ।
यस्मिन्निमे गुणा: सन्ति स उक्तो भगवानिति ॥४॥
ए?कववत्रो द्विहस्तश्च शुद्धस्फटिकसंनिभ: ।
अयुतात्यिवहीन्दुको?टिकोटिसमप्रभ: ॥५॥
तेजोऽतिरेकाद् दुष्प्रेक्ष: शङ्खचक्रधर: स्वयम् ।
कौस्तुभं वक्षसा बिम्रत् श्रीवत्सश्रीनिकेतन: ॥६॥
पीताम्बरधरो नित्यं वनमालाविभूषित: ।
किरीटहारकेयूरकुण्डलोज्ज्वलविग्रह: ॥७॥
एवंरूपो वामुदेवो भगवानिति शब्दित: ।
हत्युडरीकमध्यस्थं यं ध्यायन्ति मुमुक्षव: ॥८॥
गुणवैषम्यतोऽभूवन् तस्मात् संकर्षणावदय: ।
काश्यप:----
गुणवैषम्यतो जाता: संकर्षणमुखा इति ॥९॥
आख्यातं भवता ब्रह्मन् तन्मे विस्तरतो वद ।
विश्वामित्र:--
पूर्वमुक्तं भगवतो [वासुदेवो ददत् त्रिधा] ॥१०॥
अन्योऽभूद्वासुदेवाख्य: सृष्टिस्थित्यन्तकारक: ।
एकवक्त्रश्चतुर्बाहु: शङ्खचक्रगदाब्जभृत् ॥११॥
श्रीवत्सं वक्षसा बिभ्रत् कौस्तुभं च प्रभोज्जवलम् ।
वनमालां तथा बिभ्रत् दिव्यामतिमनोहरम् ॥१२॥
पीताम्बरधर: सौम्य: शिखिकण्ठोपमच्छवि: ।
स्वातन्त्र्येण स्वकीयेन द्विधात्मानं चकार स: ॥१३॥
तयोर्भगवतोरेको विमलस्फटिकच्छवि: ।
अन्य: कालाम्बुदाभासो नारायण इतीरित: ॥१४॥
वासुदेवात् ततो जज्ञे संकर्षणसमाह्वय: ।
तस्मात् प्रद्युम्रसंभूतिरनिरुद्धस्ततोऽभवत् ॥१५॥
एते सर्वे चैकववत्राश्चतुर्बाहुसमन्विता: ।
सर्षिभिर्जातिभि: सर्वैर्वासुदेवसमैर्युता: ॥१६॥
ज्ञानाधिक्यादभूदेवं संकर्षणसमाह्वय: ।
प्रद्युम्रस्तु बलाधिकयादैश्वर्याधिक्यतोऽभवत् ॥१७॥
अनिरुद्ध इमे सर्वे स्वै: स्वै: षड्भिर्गुणैर्युता:॥
चतुर्भुजा: सर्व एते प्रागुक्तायुधधरिण: ॥१८॥
वासुदेवात् प्रथमत: त्रयो देवास्तु जज्ञिरे ।
चत्वारश्चाथ तन्नाम्रा क्रमादेते द्विजोत्तम ॥१९॥
चत्वारोऽमी चतुर्भ्यश्च संभूतास्तु यथाक्रमम् ।
अषोक्षजो नृसिंहश्च वामनो भार्गवस्तथा ॥२०॥
जनार्दन उपेन्द्रश्च हरि: कृष्णश्च नामत: ।
वासुदेवाद्देवदेवादष्टैता मूर्तयोऽभवन् ॥२१॥
ब्राह्मी तु प्रथमा मूर्ति: प्राजापत्या च वैष्णवी ।
दिव्या चार्षी मानुषी च सप्तमी कीर्तितासुरी ॥२२॥
पैशाची चाष्टमी तासां मूतनींनां दशमूर्तय:॥
मीनमुख्या द्विजश्रेष्ठ व्यूहे यथाक्रमम् ॥२३॥
मत्यकूर्मवराहास्तु वासुदेवात् प्रजज्ञिरे ।
[अच्युतादच्युतो भूत्वा वासुदेवाच्च जज्ञिरे] ॥२४॥
बभ्रूत्रैलोक्यमोहाह्वौ दाशार्ह: शौरिसंज्ञक: ।
अन्नाधिपतिनामा च पञ्चैता मूर्तयो द्विज ॥२५॥
संकर्षणाद्धयग्रीव: शङ्खोदरनृकेसरी ।
वैकुण्ठमूर्तिराद्यस्तु मुकुन्दोऽथ वृषा?कपि: ॥२६॥
वराहश्च तथानन्दो नागराजश्च जज्ञिरे ।
सर्वासामेव मूतींनां मुहूर्तसमये द्विज ॥२७॥
शङ्कचक्रगदापह्माद्यायुधानि सहैव तु ।
किरीटहारकेयूरकटकानि च जज्ञिरे ॥२८॥
[श्रियादयोऽथं देव(व्य?)स्तु श्रीवत्सा?(त्सात् ?)दिव्यालाञ्छना:(नात?)]।
अजायन्ताथ गरुड: संजातो मूर्तिसंचयात् ॥२९॥
वासुदेवादिकाद्वेदमूर्तस्तद्वाहनात्मना ।
कुमुद: कुमुदाक्षश्च पुण्डरीकोऽथ वामन: ॥३०॥
शङ्कुकर्ण: सर्पनेत्र: सुमुख: सुप्रतिष्ठित:॥
प्रश्रिगर्भो मानवश्वच भूतनाथा अमी दश ॥३१॥
सर्वै: पारिषदै: सार्धमनिरुद्धाङ्ध्रितोऽभवन् ।
सर्वत: पाणिपादाच्च सर्वतोऽक्षिशिरोमुखात् ॥३२॥
सर्वत: श्रुतिसंयुक्तादनिरुद्धात्मन: प्रभो: ।
अङ्गादासीत् जगत्सर्वं सदेवासुरमानुषम् ॥३३॥
इन्द्रवह्नी च चत्वारो वेदाश्चाङ्गानि षट् तथा ।
अजायन्तास्य मुखतो द्यौर्मूर्ध्रश्चक्षुषो रवि: ॥३४॥
चन्द्रमा मनसो जात: श्रोत्रात् सर्वा दिशोऽभवन् ।
नाभेरभून्नभश्चास्य पदभयां भूमिरजायत ॥३५॥
वायु: प्राणात् तथा मृत्युरपानात् केशतोऽम्बुद: ।
क्षणादय: कालभेदा: शरीरादस्य जज्ञिरे ॥३६॥
ओषध्यो रोमकूपेभ्यो वनस्पतिभिरन्विता: ।
आसन् यज्ञाश्च बहवो दक्षिणासहिता द्विज ॥३७॥
ब्रा?ह्मणा मुखतोऽभूवन् बाह्वोश्च क्षत्रियास्तथा ।
ऊवोर्वैश्यास्तथा पदभ्यां शूद्रा जाता: पृथक् पृथक् ॥३८॥
कृत्वैवं जगत: सृष्टिं क्षीरार्णवगत: प्रभु: ।
अनन्तभोगिपर्यङ्के श्रीभूमिभ्यां समन्वित: ॥३९॥
सनन्दनाद्यैर्योगीन्द्रैश्चिन्त्यमानो हृदम्बुजे ।
ब्रह्मेन्द्रशर्वप्रमुखैर्वन्द्यमानो मरुद्ग्रणै: ॥४०॥
चण्डाद्यैर्द्वारपालेश्च भूतेशै: कुमुदादिभि: ।
विष्वक्सेनगरुत्मदभ्यां सेव्यमानश्च सर्वदा ॥४१॥
शेते विष्णुरचिन्त्यात्मा भूतानामनुकम्यया ।
इत्येवं गुणवैषम्यात् मूर्तिभेदसमुदभव: ॥४२॥
जगदुदभूतिसंयुक्त: प्रोक्तस्ते कश्यपात्मज ।
अत: परं महाप्राज्ञ किमन्यत् कथयामि ते ॥४३॥
इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां वासुदेवादिमूत्युंत्पत्ति
कथनं नाम चतुर्थोऽध्याय:

N/A

References : N/A
Last Updated : January 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP