विश्वामित्रसंहिता - प्रथमोऽध्याय:

विश्वामित्रसंहिता

अव्यक्तायाप्रमेया विशुद्धज्ञानहेतवे ।
श्रीमते श्रेयसां धाग्ने नम: पुंसे परात्मने ॥१॥
सिद्धाश्रमे श्रमहरे सिद्धमंघनिवेविते ।
आम्रायघोवैरनिशं मुनीनां मुखरीकृते ॥२॥
वैखानसैर्वालखिल्यै: फेनपैरूश्मपैरपि ।
अश्मकुट्टैश्च मुनिभिर्दन्तोलूखलिमिभिर्वृते ॥३॥
सदा संफुल्लकह्लारकुमुदोत्पलसेविते ।
विकस्वराम्भोजगलन्मक्षुचन्द्रकिताम्बुभि: ॥४॥
[ अन्त्यजैरतिशीतैश्च पूर्णैरशनमम्बुभि: ।]
ट्टष्ठमात्रश्रमहरै: सरोभि: समलङ्कृते ॥५॥
चूतचम्पकपुंनागनागकेसरकेसरै: ।
तमालतालहिन्तालकुन्दामलकतिन्दुकै: ॥६॥
कदग्बजम्बूजम्बीवीरणोदुम्बरैरपि ।
प्रियालैर्नालिकेरैश्च वकुलै: पनसैरपि ॥७॥
कुन्दचन्दनमन्दारदेवारुशतैस्तथा ।
सदाफलै: सदापुष्पै: सदापल्लवशोभितै: ॥८॥
स्तबकस्तनभारेण संनताभि: समन्तत: ।
नानालताभि: कान्ताभिराश्लिष्टैस्तरुणैरिव ॥९॥
उत्फुल्लपुष्पपटलीसौरभासारलम्पटै: ।
भ्रमदिभरभितो भृङ्गैर्नददिभरिव कुण्ठितै: ॥१०॥
मञ्जुलालापमधुरै: कोकिलाकलितान्तरै: ।
मत्तबर्हिणसन्नादैराह्वयदिभरिवातिथीन् ॥११॥
दात्यूहैर्भृङ्गराजैश्च कोकिलै: कृकरैस्तथा ।
अन्यैश्च विविधैर्जुष्टैरभित: पक्षिमण्डलै: ॥१२॥
 [ छायासु गोमयस्यथासु ] (याक्तासु ?) सुखासीनैर्द्विजोत्तमै: ।
क्वचिद्व्याख्याननिपूणै: क्वचिदामग्रयपाठकै: ॥१३॥
वावदूकै: क्वचिच्चैव क्वचित् पौराणिकैरपि ।
अन्यैश्च नानाशास्त्रज्ञैरक्षिदैवयुतैरपि ॥१४॥
स्वादुपक्वफलोपेतै: पुष्पामोदितदिङ्मुखै: ।
एतैश्चान्यैश्च विविधैस्तरुभि: परिवारितै: ॥१५॥
गायदिभ: किंनरगणै: श्रोत्रेन्द्रियसुखावहै: ।
 [ कोकै रावकुलैर्नित्यमाश्रिकाहच (ताभ्य ?)र्णभूतले ] ॥१६॥
वराहपुरुषोत्खात[मुक्तासौरिभिरुच्छ्रिते] (मुस्तासुरभितान्तरे ?)
हरिणैरर्धसंदष्टशष्पश्यामलितान्तरे ॥१७॥
शार्दूलशाबैरापीतस्तनिभिर्गोभिरावृते ।
भल्लूककान्तशमित्मुनिदारकरोदने ॥१८॥
शाखामृगसमारब्धशुष्यद्धान्यसमूहके ।
उच्चद्रुमलेप्सूनामृषीणामभित: स्थिते ( तै:?) ॥१९॥
करिभि: कौतुकारब्धशाखावनमनक्रिये ।
शुकसङ्घातविसृतवेदपाठकसंशये ॥२०॥
उत्सर्पिताग्रिधूमस्य [ दमपावितदिङ्मुखे ] ।
समासीनं द्विजवरैरर्च्यमानपदाम्बुजम् ॥२१॥
अशेषवेदवेदान्तवाक्यसूक्ष्मार्थदर्शिनम् ।
सांख्य(ख्ये ?)योगे न निरतं सर्वशास्त्रोप?निष्ठितम् ॥२२॥
संदीप्यमानं तपसा मोक्षकाममिवापरम् ।
ब्राह्मण्यं तपसा स्वेन समुपार्जितमूर्जितम् ॥२३॥
दधानं सर्वतीर्थेषु कृतस्त्रपावनम् ।
पञ्चरात्रमहाम्भोधिपारटृश्वानमञ्जसा ॥२४॥
अशेषावभृथस्त्रानपवित्रितजटावनम् ।
लोकाचारविशेषज्ञं पञ्चकालपरायणम् ॥२५॥
पुण्यतीर्थोद्धृतेश्वेतमृत्स्राविरचितैश्शुभै: ।
ऊर्ध्वपुण्?ड्रैर्द्वादशभि: सौम्यैरावृतविग्रहम् ॥२६॥
खस्थानविधृताशेषपञ्चायुधविभूषितम् ।
सौम्यत्वेऽपि दुराधर्षं तेजोमण्डल?मण्डितम् ॥२७॥
क्षान्तं च दान्तमनघं सदा दीनानुकन्पिनम् ।
गाधिसूनुं महात्मानं विश्वामित्रं तपोधनम् ॥२८॥
अभ्येत्य काश्यपो नाम कदाचिट्टषिसत्तम: ।
प्रणम्योपान्तिके तस्थौ शिरस्याधाय चाञ्जलिम् ॥२९॥
ततस्तं भगवान् ट्टष्ट्वा विश्वामित्र: समागतम् ।
विनयावनंतं विप्रं वाक्यमेतदुवाच ह ॥३०॥
विश्वामित्र:---
कच्चित्ते कुशलं विप्र ?कच्चित्ते वर्धते तप: ।
वर्धन्ते क्रतव: कच्चिदिविच्छिन्नास्तवाश्रमे ॥३१॥
कच्चित् खाध्यायविच्छेदो जायते न तवानिशम् ।
गृहागतास्त्वतिथयो यथालं त्वया मुने ॥३२॥
अर्च्यन्ते कच्चिदेतन्मे सर्वमाचक्ष्व पृच्छत: ।
कायप:---
भगवन् यत्त्वया पृष्टं सर्वमेतत्तथा मयि ॥३३॥
एवं यमनुगृह्णाति भवान् तत्याशुभं कुत: ।
विश्वामित्र:----
एवं चोदित आसीन: शुभागमनकारणम् ॥३४॥
वक्तुमर्हसि तत्त्वेन वत्स काश्यपनन्दन ।
एवमुक्त: स मुनिना समासीन: कृताञ्जलि: ॥३५॥
शेकवेगसमाक्रान्तचेता वचनमब्रवीत् ।
पठिता: सकला वेदा: सरहस्या महामुने ॥३६॥
मीमांसाद्यानि शस्त्राणि वेदान्तानि यथार्थत: ।
पठितानि मया सम्यगादिमध्यान्तसंगतम् ॥३७॥
व्यामुह्मतीव मे चेतो बहुशस्त्रनिरीक्षणात् ।
इदं नि:श्रेयसकरीमिति बुद्धौ न निश्चय: ॥३८॥
अद्यत्वे भगवान् सर्वं जानातीति तपोधना: ।
सर्वे ददन्ति ते [ वेदाज्ञानामृतमहोदधि: ] ॥३९॥
तस्मादिहागतोऽस्यद्य तत्त्वज्ञानबुभुत्सया ।
केनोपायेन भगचन् ! तरन्ति भवसागरम् ॥४०॥
माट्टशा ज्ञानहीनास्तु तन्द्रालुमनसो जना: ।
प्रसीद सीदते मह्मं [ नोयत्वं नृपसंनिधौ (?) ] ॥४१॥
[करुणं चरणाम्भोजशरणाय विधत्ख माम् ] ।
संसारापारजलधौ मज्जतो माट्टशान् जनान् ॥४२॥
तत्त्वज्ञानप्लवेनैव संतारयति यदभवान् ।
अतस्त्वामद्य शरणं यातो येनाहमाप्नुयाम् ॥४३॥
अमृतत्वं वदतु मे तमुपायं महामुने ।
एतावदुक्त्वा विरते तस्मिन् काश्यपनन्दने ॥४४॥
धात्वा मुहूर्तं प्रोवाच प्रसन्नो गोधिनन्दन: ।
साधु साधु महाप्राज्ञ वत्स काश्यप सुस्थिर ॥४५॥
ईट्टशी ते समुत्पन्ना बुद्धिर्वयसि नूतने ।
इत्यस्माकमतीवासीदान्दमतिनिर्मरम् (?) ॥४६॥
हृदयं सदयं यातुं पारितोषिकमिच्छति ।
भवते भक्तियुक्ताय भावम्भोनिधिभीरवे ॥४७॥
तस्माद्वदामि ते वत्स नि:श्रेयसकरं परम् ।
उपाय: कथित: पूर्वं ब्रह्मणा मत्प्रियेप्सुना ॥४८॥
[ पुराभावेतिभवता ] तस्मादभीतो भृशं मुने ।
एवं निवृत्तिकर्तारमुपायं लब्धुमञ्जसा ॥४९॥
तपसोग्रेण सुरसं(?) ब्रह्मणां समतोषयम् ।
तत: प्रसन्नो भगवान् ब्रह्मा लोकपितमाह: ॥५०॥
दयया दर्शनं देवो ददौ मह्मं दिट्टक्षवे ।
ततो इर्षसमाविष्टहृदयो रचिताञ्जलि: ॥५१॥
प्रणाम्य दण्डवद् भसूमौ स्तोत्रमेतदुदैरयम् ।
नमस्ते सर्वजगतां स्रष्ट्रे जगति तस्थुषे ॥५२॥
अवते सत्त्वमाश्रित्य संहर्त्रे तामसाश्रयात् ।
अचिन्त्यायाप्रमेयाय नमस्ते परमात्मने॥ ५३॥
अक्षरायाविकाराय भक्तानामार्तिनाशिने ।
नमस्तुभ्यं त्रिकोकेश त्रयीमय जगन्मय ॥५४॥
अनघाघौघविध्वंसकारिणे मीढुषे नम: ।
सूक्ष्मसूक्षमतराव्यक्तकारिणे मीढुषे नम: ॥५५॥
स्थूलात् स्थूलतराव्यक्त सूक्ष्मात् सूक्ष्मतर प्रभो ।
व्योमवाय्वग्रिसलिलपृथिवीमयविग्रह ॥५६॥
भगवन् पाहि मां देव कृपया भक्तवत्सल ।
प्राणिनामन्तरात्मा यो हृदयेप्वधितिष्ठति (?) ॥५७॥
सत्यमित्येव विदूदिभ: सर्वदा विनिगद्यते ।
सर्वौषधीर्यथाकालं प्रसूते पृथिवी प्रभो ॥५८॥
रात्रिंदिवविभागेन यश्च सूर्यश्च चन्द्रमा: ।
[ परत: पतितो योगातनतन्त्रौ गतक्लमौ ] ॥५९॥
यश्च वायु: सदा जन्तून् प्राणयत्यनिशं चरन् ।
[ त्वत्तोत्पन्न ]भयादेतत् क्रियते कमलासन ॥६०॥
हिरण्यकेश भगवन् हिरण्यश्मश्रुसंयुतम् ।
आनखात् खर्णरूपं त्वां संपश्यन्तिव हि यरोगिन:॥६१॥
सरखतीप्राणनाथ जगन्मय जनार्तिहन् ।
जय ज्ञानमयाचिन्त्य जय ज्ञेय महाप्रभो ॥६२॥
जयकारण सर्वस्य यजकारणकारण ।
जय विश्वामरा?धीश वेदवेद्य जयस्व च ॥६३॥
एवं स्तुवन्तं प्रणमनाथं कृपणं च माम् ।
प्रसन्नो भगवान् ब्रह्मा प्राह गम्भीरया गिरा ॥६४॥
ब्रह्मा---
उत्तिष्ठ ते प्रसन्नोऽहं वरं वरय सुव्रत ।
यद्यदिच्छसि तर्त्वं दास्यामि कथयस्व मे ॥६५॥
इत्युक्तोऽहं भगवता ब्रह्मणाव्यक्तजन्मना ।
परमां प्रीतिमासाद्य बाप्पकण्ठो व्यजिज्ञपम् ॥६६॥
यदि प्रसन्नो भगवान् मह्मं भक्तिमते भृशम् ।
उपायं कथयत्वद्य नि:श्रेयसकरं परम् ॥६७॥
मया महीमिमां कृत्स्त्रां भान्त्वा चिरमुपासिता: ।
आचार्या बहवस्तेभ्यो ल्बधं त्रैवर्गिकं फलम् ॥६८॥
तस्सात् संसारपाथोधेर्विषयग्राहसंकुलात् ।
तस्मादुद्धर्तुमिच्छामि तदुपायं वद प्रभो ॥६९॥
ब्रह्मा---
गाधिसूनो महाप्राज्ञ साध्वी ते मतिरागता ।
पुरा नरायणो दवे: परमात्मा सनातन: ॥७०॥
भूत्वा हंसवपुर्दैत्यान् हत्वा सर्वान् क्षणेन च ।
प्रत्याहृत्य चतुर्वेदान् तेभ्यो मह्ममदात् प्रभु: ॥७१॥
ततो मुदं परां प्राप्य नत्वा देवं जगद्गुरुम् ।
व्यजिज्ञपमिदं वाक्यं कृत्वा शिरसि चाञ्जलिम् ॥७२॥
वेदास्त्वया मे चत्वारो दत्त दैत्यहृता: प्रभो ।
एषामर्थं न जानामि संकीर्णत्वाच्च विस्तरात् ॥७३॥
[ एषां (ते ?) निर्वाफलदमि(दा इ ?)त्यप्यासीन्न मे मति: ]।
 तस्मात् संक्षिप्य वेदानामर्थं निर्वाणहेतुकम् ॥७४॥
 कथयख दयाम्भोधे भगवन् भ?क्तवत्सल ।
 एवमुक्तो मया देव: सर्वलोकेश्वरो हरि: ॥७५॥
 प्राह गन्मभीरया वाचा प्रसन्नेनान्तरात्मना ।
श्रीभवानुवाच---
 ब्रह्मन् नि:श्रेयसकरं ज्ञेयानां ज्ञेयमुत्तमम् ॥७६॥
 वेदार्थसारसर्वखं मम प्रीतिकरं परम् ।
 पञ्चरात्राख्यममृतं कथयामि श्रृणुष्व मे ॥७७॥
 इत्येवमुक्त्वा भगवान् पञ्चरात्रमशेषत: ।
 ततो(?)?पदिष्टवान् मह्मं तदिदानीं वदामि ते ॥७८॥
एतदुक्त्वा तु वचनं स्वयंभूर्लोकपावन: ।
पञ्चरात्राह्वयं ज्ञानं दिदेश मम सादरम् ॥७९॥
दत्वा पुनर्वाक्यमेतदुवाच कमलासन: ।
अत: परं त्वयोक्तत्वात् भूमौ त्वन्नामधेयत: ॥८०॥
विश्वामित्रीयमित्येव तन्त्रं तात भविष्यति ।
इत्युक्त्वान्तर्दधे देवो ब्रह्मा लोकपितामह: ॥८१॥
तदाप्रभृति तज्ज्ञेयं हृदये मम वर्तते ।
सत्पात्रादर्शनाद् गुप्तं भवानद्य समागत: ॥८२॥
इदानीं भक्तियुक्ताय विनीताय च काश्यप ।
तुभ्यं ददामि तत्तन्त्रं श्रयतामवधार्यताम् ॥८३॥
॥ इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
[तन्पवतरणं नाम] प्रथमोऽध्याय:॥

N/A

References : N/A
Last Updated : January 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP