संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| षड्विंशोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - षड्विंशोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता षड्विंशोऽध्याय: Translation - भाषांतर विश्वामित्र:---दमनारोपणविधिं वक्ष्यामि द्विजसत्तम ।यदनुष्ठानतो विप्र ऐहिकामुष्मिकं फलम् ॥१॥अवाप्य चान्ते परमं पदमाप्रोति मानव: ।चैव मासे तु वैशाखे सितपक्षे विशेषत: ॥२॥द्वादश्यां पौर्णमास्यां च दमनीदलपूजनम् ।कर्तव्यं तद् द्विजश्रेष्ठ तत्प्रकारोऽद्य वक्ष्यते ॥३॥संकल्पितदिनात्पूर्वं नवमे सप्तमेऽपि वा ।पञ्चमे वा तृतीये वा दिवसेऽङ्कुररोपणम् ॥४॥कारयित्वा च पूर्वोक्तविधानेन महामुने ।एकादश्यां प्रभातेऽथ सान्धं कर्म समाप्य च ॥५॥स्त्रात: शुक्लाम्बरधर: सर्वाभरणभूषित: ।पवित्रितकर: शुक्लविलेपनविभूषित: ॥६॥गत्वोद्यानं सहर्त्विग्भिर्यजमानेन संयुत: ।गत्वा दमनवाटीं तु तस्या: पश्चिमतो मुने ॥७॥चतु:स्तम्भां प्रपां कृत्वा वितानेन पिनध्य(ह्म ?) च ।संवेष्टयु दर्भमालां च तस्याधो वेदिकां तत: ॥८॥चतुरश्रं कल्पयित्वा गोमयेनापलिप्य च ।तस्योपरि विनिक्षिप्य व्रीहिभारचतुष्टयम् ॥९॥आस्तीर्य तस्योपरि च पटमास्तीर्य तण्डुलान् ।तदर्धानथ विस्तीर्य तस्योपर्यम्बरोर्ध्वत: ॥१०॥तिलांस्तदर्धान् विन्यस्य तदूर्ध्वं(र्ध्वे ?) विन्यसेद् घटम् ।तन्तुवेष्टितसर्वाङ्गं विन्यस्तनवरत्नक्नम् ॥११॥क्षौमयुग्मेन संवेष्ट्य कुशकूर्चं तु विन्यसेत् ।ताट्टग्विधं च करकं तस्य दक्षिणतो न्यसेत् ॥१२॥कुम्भाष्टकं च विन्यस्य तस्य दिक्ष्वष्टसु क्रमात् ।कुम्भे प्रद्युम्रमभ्यर्च्य करके च सुदर्शनम् ॥१३॥कुम्भाष्टके च ?परित: शक्रादीनर्चयेत् क्रमात् ।पायसान्नं निवेद्याथ चोत्तरे हव्यवाहनम् ॥१४॥आधायाज्येन हुत्वाथ चाष्टोत्तरशताहुती: ।प्रद्युम्रेनैव मन्त्रेण पश्चात् क्षेत्रेशमर्चयेत् ॥१५॥पायसान्नेन च बलिं दिक्षवष्टसु विनिक्षिपेत् ।आचार्यो मूर्तिपै: सार्धं मनुं प्रद्युम्रमुच्चरन् ॥१६॥लृत्वा दमनपत्राणि स्वर्णपात्रेषु निक्षिपेत् ।तानि पत्राणि कुम्भस्य पुन(र:) संस्थाप्य भूतले ॥१७॥तदम्भसा च संप्रोक्ष्य वाहयित्वा द्विजोत्तमै: ।उच्चरञ्छाकुनं सूक्तं वह्वृचैर्द्विजपुंगव ॥१८॥अन्यैरपि च विप्राग्र्यै: स्वशाखामुखराननै: ।संयुतस्तूर्यघोषेण बधिरीकृत्य दिग्वधू: ॥१९॥छत्रचामरकेतूनां संघैराच्छाद्य चाम्बरम् ।सर्वमङ्गलसंयुक्तं प्रविश्य सदनं हरे: ॥२०॥देवस्य(वाय ?) दर्शयित्वा च पुष्पमण्डपमानयेत् ।शुचिमिर्द्विजर्यैश्च निपुणैर्मालिकादिधौ ॥२१॥कह्लारवत्प्रमाणेन कल्पेन्मालिकागणम् ।उत्तमादिक्रमेणैव तत्तद्ब्रेरानुसारत: ॥२२॥कुम्भमण्डलकुण्डानां स्थौल्यं हस्तप्रमाणकम् ।चण्डादीनामपि तथा तार्क्ष्यसेनेशयोरपि ॥२३॥कह्लारदामवद्दैर्ध्यं स्थौल्यं हस्तप्रमाणकम् ।तोरणानां च सर्वेषां [दमनीदलमालया](?) ॥२४॥कारयेन्मध्यतो लग्रां शुभां दमनमालिकाम् ।वितानं परितो मालां लम्बयेद्दमनीं शुभाम् ॥२५॥मन्दिरं मण्डपं चैव वेष्टयेद्दमनीत्रजा ।दमनीदामभि: कुर्याद्विमानमपि मण्डपम् ॥२६॥स्थूणादमनालभिर्वेष्टयेत्तासु लम्बयेत् (?) ।मण्डपं परित: कुर्यादुद्यानमिव पूर्ववत् ॥२७॥मण्डपं मण्डलं कुर्याद्यथापूर्वं द्वितोत्तम ।तस्यैशान्ये च दिग्भागे कुग्भं धान्यस्य संचये ॥२८॥करकं च यथापूर्वं वेष्टितं तन्तुभि: शुभै: ।वेष्टितं क्षौमयुग्मेन निक्षिप्तनवरत्नकम् ॥२९॥घटाष्टकं च विन्यस्य दिक्ष्वष्टास्वपि तद्विधम् ।मण्डलस्यापि परित: स्थापयित्वा घटाष्टकम् ॥३०॥सर्वं कुर्यात् कुम्भसंधं माहघटविधानत: ।चूताश्वत्थदलाढ्यं च विदधीत द्विजोत्तम ॥३१॥शयनं देवदेवस्य कल्पयित्वा च पूर्ववत् ।शालीनां भारदशकं पूर्वमास्तीर्य भूतले ॥३२॥आच्छाद्यामिनवै: सूक्ष्मै: सदशैरंशुकैरपि ।तण्डुलैरपि तस्योर्ध्वे तन्मानैरपि कल्प्य च ॥३३॥तिलैस्तदुपरिष्टाच्च तत्संख्यातै(?)र्दिजोत्तम ।कल्पयित्वा च शयनं क्षौमानास्तीर्य चोपरि ॥३४॥कम्बलानुपरिष्टाच्च विचित्रांस्तस्य चोपरि ।आच्छाद्य तत्र परितो यथापूर्वं घटाष्टकम् ॥३५॥सतन्तुकं सकौशेयं सरत्नं च सपल्लवम् ।सकूर्चं धान्यपीठस्थं यथापूर्वमुदाहृतम् ॥३६॥पात्रेष्वष्टसु धान्यानि प्रत्येकं भारसंख्याय ।स्थापयित्वा च कदलीपनसाम्रफलान्यपि ॥३७॥नालिकेरी(?)मातुलुङ्गपूगीफलयुतान्यपि ।ताम्बूल(लं?) पूगिकाभिश्च घटेषु विनिवेश्य च ॥३८॥आर्द्रा हरिद्रा: पात्रस्थं मङ्ग्रलाष्टकमेव च ।प्रत्येकं निष्कमानेन विहितं कनकेन च ॥३९॥मण्डलोत्तरदिग्भागे वह्लिकुण्डं विधाय च ।सभेखलं सयोनिं च कुम्भैरष्टाभिरावृतम् ॥४०॥सतन्तुभिश्च सक्षौभेरन्तर्विन्यस्तरत्नकै: ।सपल्लवै: सकूर्चैश्च सविता(सापिधा ?)नै: समन्तत: ॥४१॥चतुर्षु द्वादेशेषु मण्डपस्य पार्श्वयो: ।घटानाष्टौ यथापूर्वं तन्तुभि: संवृतानपि ॥४२॥प्रत्येकं वस्त्रयुग्मेन वेष्टयित्वा सरत्नकान् ।स्थापयेत् कलशान् सम्यक् पूर्वस्यां दिश काश्या ॥४३॥प्रत्येकं धान्यपीठेषु शतमष्टोत्तरं तु वा ।एकशीतिमथैकोनपञ्चाशतमथापि वा ॥४४॥पूरितान् गन्धतोयेन सकूर्चन् सापिधानाकन् ।सूक्ष्मैर्नवैश्च सुश्लक्षणैरम्बरै: कलशानपि ॥४५॥छादियत्वा च सद्रव्यान् यथापूर्वमुदीरितम् ।वासांस्यप्यहतान्यत्र कुम्भीदिषु महामते ॥४६॥नानाकौशेयवल्कानि (?) यदि संप्रोक्ष्य वेष्टयेत् ।फलानि यदि संक्षाल्य रोमाण्यपि परीक्ष्य च ॥४७॥आतपे शोषयित्वा च विनियुञ्ज्याद् द्विजोत्तम ।दमनीमालिकासंधं पात्रेषु ?विनिवेश्य च ॥४८॥मूर्तिपैरानयित्वा(?)च धान्योपरि निवेष्य च ।आचार्यो मूर्तिपुयत: स्त्रात: शुक्लाम्बरावृत: ॥४९॥सुगन्धिना चन्दनेन विलिप्ताङ्ग्र: सुभूषित: ।घृतोर्ध्वपुण्ड्र: सोष्णीष: श्वेतमापल्यपरिष्कृत: ॥५०॥सोत्तरीय: पवित्राढ्य: साङ्गलीयकभूषण: ।ला??ञ्छितश्चक्रशङ्खैर्दिव्यैरायुधपञ्चकै: ॥५१॥यजमानेन सहित: सायाह्ले मन्दिरान्तरम् ।प्रविश्य देवं विज्ञाप्य बिम्बमौत्सवमादरात् ॥५२॥आरोप्य शिबिकां धाम परिभ्राम्य प्रदक्षिणम् ।आनीय मण्डपं देवमारोप्योत्तमविष्टरे ॥५३॥सभाजयित्वा चाध्यौ: पुण्याहं वाचयेत्तत: ।देवस्य कौतुकं हेमनिष्केण रचितं शुभम् ॥५४॥देव्योरपि तदर्धेन पृथङ्निर्माय काश्यप ।आचास्यार्धनिष्केण रचितं बन्धयेत्तत: ॥५५॥क्रमेणानेन बध्रीयात् कौतुकानां चतुष्टयम् ।द्वारदैवतपूर्वं च पूजां निर्वर्त्य दिशिक: ॥५६॥कलशानर्चयित्वा च निशाचूर्णघटं तत: ।कलशोत्तरदिग्भागे ताडुलद्रोणमूर्धनि ॥५७॥निहितं कूर्चसहितं मध्यवेष्टितवस्त्रकम् ।तत्रावाह्म श्रियं देवीं समराध्य विधाय च ॥५८॥कुम्भान्त:स्थं जगन्नाथं नैवेद्यान्तं समर्च्य च ।मण्डलेऽपि समाराध्य देवं लक्ष्मी?पतिं प्रभुम् ॥५९॥निवेद्य पायसं तस्मै कुण्डेऽग्निं संनिधाय च ।गर्भाधानादिसंस्कारगणं सर्वं समाप्य च ॥६०॥देवं सभाज्य तदनु मन्त्रासनविधानत: ।निवेद्य मधुपर्कं च वेदिं समधिरोप्य च ॥६१॥तत्राप्याराध्य कलशै: स्त्रापयित्वा विधानत: ।अलंकृत्य जगन्नाथ निवेद्यान्नं चतुर्विधम् ॥६२॥मुखवाससमायुक्तं ताम्बूलं संनिवेद्य च ।वह्लिमध्यगतं देवमभ्यर्च्य विधिना तत: ॥६३॥समिदिभ: सप्तभिर्हुत्वा दमनं घृतसंप्लतम् ।अष्टोत्तरसहस्त्रं च हुत्वा पूर्णां विधाय च ॥६४॥देवेशमर्चयित्वा च हवनं विधिना कृतम् ।इन्द्रादीनां च पुरतो बलिं ?दत्याष्टदिक्ष्वपि ॥६५॥अधिवासनामालां च कुम्भमण्डलयो?रपि ।सशक्तिकस्य देवस्य मूलबेरादिकस्य च ॥६६॥एकैकां संनिवेश्याथ शयने च जगद्गुरुम् ।शययित्वा च संप्राश्य हुतशेषं चरुं तत: ॥६७॥तदादिभिर्विनोदैश्च स्वध्यायपठनै: सह ।गेयनृत्तादिभिश्चैव जागरेण निशां नयेत् ॥६८॥तत: प्रभाते सुस्त्रात: परिधायांशुकं नवम् ।यथापूर्वमलंकृत्य मण्डपान्त: प्रविश्य च ॥६९॥कृत्वा न्यासादिसकलमर्ध्यादि परिकल्प्य च ।द्वारेषु पूजनं कृत्वा तिष्ठन्नासीन एव वा ॥७०॥अर्चयित्वा च सकलान् कुम्भमाण्डलगं विभुम् ।आराध्य च निवेद्यान्तमग्रिसंस्थं जगद्गुरुम् ॥७१॥सभाजयित्वा देवं च संपूज्य स्त्रापयेत् क्रमात् ।अलंकृत्य ततो देवं निपेद्य च माहवि: ॥७२॥देव्यो?रपि निवेद्यान्नं पायसादि चतुर्विधम् ।मूलबेरादिबिन्बेषु सविशेषं सभाजनम् ॥७३॥विधाय च निवेद्यान्ते हुत्वा सप्तसमितद्ग्रणम् ।मुहूर्ते शोभने प्राप्ते यजमानसुखावहे ॥७४॥कुम्भे च मण्डले चैव कुण्डे चार्यास्वपि द्विज ।मूलदिषु समस्तेषु देव्योरपि पृथक् पृथक् ॥७५॥प्रदाय दमनीमालां देवं विज्ञाप्य देशिक: ।कुम्भमण्डलवह्लिस्थं देवमुद्धास्य वै द्विज ॥७६॥धान्यपात्रणि सर्वाणि मङ्गलाष्टकमेव च ।फलानि च समस्तनि दर्श्यायित्वा च विष्णवे ॥७७॥आचार्याय प्रदाद्याच्च धान्यसंचयमेव च ।क्षौमाणां निचयं सर्वमन्यच्चानीतमत्र्?ा च ॥७८॥तत्सर्वं देशिक: कृत्वा चात्मसात् स्वगृहं नयेत् ।देव(बेर ?)मुत्सवसंज्ञं च वाहने विनिवेश्य च ॥७९॥सर्वालंकारसंयुक्तं परिभ्राम्य प्रदक्षिणम् ।प्रवेशयेदालयान्त: स्वस्थाने विनिवेशयेत् ॥८०॥यजमानेन सहित: ऋत्विग्भिरपि देशिक: ।प्रणम्य देवदेवस्य पादब्जयुगलं द्विज ॥८१॥गृहीत्वा पाणियुग्मेन देवं विज्ञापयेदिदम् ।अत्सवं देवदेवेश दमनीदलकल्पितम् ॥८२॥अस्मासु दयया देव गृहाण परमेश्वर ।इति विज्ञापनं कृत्वा सर्वदेवाधिदैवतम् ॥८३॥प्रसाद्य देवदेवेशं वर्धसयेदेनमाशिषा ।यजमतानोऽपि गुरवे दक्षिणां प्रतिदापयेत् ॥८४॥शतनिष्कं तदर्धं वा वासांसि विविधानि च ।रत्नोर्मिका: पशून् कामान् गृहाणि सुमाहन्त्यपि ॥८५॥क्षमापयेत् संप्रदाय ऋत्विमग्भश्च तदर्धकम् ।परिवारक?विप्राणामन्येषां सहकारिणाम् ॥८६॥सदस्यानां सेवकानां गीतनृत्तरतात्मनाम् ।भेर्यादिवादकानां च तत्तत्कर्मानुरूपत: ॥८७॥प्रदापयेद्धनगणं सस्त्रौधं धान्यसंचयम् ।वितीर्य भोजयेद्विद्वान् यथाशक्ति महामते ॥८८॥कारयेत् प्रतिवर्षं यो दमनीपत्रपूजनम् ।देवस्य वासवुदेवस्य श्रद्धया परया युत: ॥८९॥तस्य विध्यन्ति सकला: संपदस्तत्प्रसादत: ।इह प्राप्य परमृद्धिं वितॄनुत्तार्यं सर्वत: ॥८९॥पूर्पानप्यप(व ?)रान् सप्त स्वदेहस्य समन्तत: ।प्राप्रुयाद्वैष्णवं धाम सर्वयोगीन्द्रदुर्लभम् ॥९०॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायांदमनारोपणविधिर्नाम षङ्विंशोऽध्याय:॥ N/A References : N/A Last Updated : January 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP