संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वामित्रसंहिता| दशमोऽध्याय: विश्वामित्रसंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदर्शोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: विश्वामित्रसंहिता - दशमोऽध्याय: विश्वामित्रसंहिता Tags : samhitavishwamitra samhitaविश्वामित्र संहितासंहिता दशमोऽध्याय: Translation - भाषांतर काश्यप:----आराधनविधिं ब्रह्मन् मम वक्तुं त्वमर्हसि ।येन सम्यक् कृतेनाहं तरामि भवसागरम् ॥१॥विश्वामित्र:---आराघनविधिं वक्ष्ये शृणु कश्यपनन्दन ।संसारपाशबद्धानां विमुक्तेर्हेतुमञ्जसा ॥२॥शुद्धेनैव हि कर्तव्या विष्णोराराधनक्रिया ।स्त्रानेनापि भवेच्छुद्धि: शरीरस्य विचक्षण ॥३॥तस्मात् स्त्रानं प्रवक्ष्यामि शृणुष्वैकाग्रमानस: ।स्त्रानं सप्तविधं प्रोक्तं वाव्यं पार्थिवं तथा ॥४॥दिव्यं वारुणमाग्रयं मानसं मात्रमित्यपि ।गच्छन्तीनां गवां पादैरुद्यतां वायुना हृताम् ॥५॥धूलिं संधारयेन् मूर्ध्रा वाव्यं तत् प्रचक्षते ।प्रशस्तवैष्णवक्षेत्रतातया श्वेतमृत्स्रया ॥६॥मू?तीनां केशवादीनां नामोच्चारणपूर्पकम् ।ललाटादिषु यद्ग्रात्रे ऊर्ध्वपुण्ड्रस्य धारणम् ॥७॥तत्पर्थिवं भवेत् स्त्रानं योगिवर्यैर्निषेवितम् ।निरभ्रपटलव्योम्रि वर्षे जाते च सातपे ॥८॥तेन संप्लावनं यत्स्यात् तद्दिव्यं स्त्रानमुच्यते ।नद्यादिषु तटाकेषु सर्वैर्यदवगाहनम् ॥९॥स्त्रानं तु विधिवद्यत्तद्वारुणं परिचक्षते ।समिदिभर्गोमयै: स्वस्य हवने विहिते सति ॥१०॥तदभस्म संगृह्म करे मन्त्रेणैवाभिमन्त्र्य च ।यदूर्ध्वपुण्ड्रकरणमाग्रेयं स्त्रानमेव तत् ॥११॥पादौ प्रक्षाल्य चाचम्य धौतवासेयुगं दधत् ।आसीनश्चासने शुद्धे प्राणानायन्य वाग्यत: ॥१२॥हृत्पुडरीकसंस्थस्य हरेर्यत् स्मरणं पुन: ।करोति मानसं तत्स्यात् स्त्रानं स्त्रानेषु पूजितम् ॥१३॥आपो हि ष्ठेति मन्त्राणामुच्चारणपुरस्मरम् ।कुशग्रै: शुचिभिस्तोयै: प्रोक्षणं यद्विधीयते ॥१४॥तन्मान्त्रं स्त्रानमित्युक्तं सप्तैतान्युदितानि ते ।कृत्वापि वारुणं पूर्वमितरेषां विधिर्मवेत् ॥१५॥तस्मान्योच्यते स्त्रानं वारुणं तच्छृणु द्विज ।नदीसरित्तटाकादि गत्वा दक्षिणतीरग: ॥१६॥उदकाञ्जलिभि: पूर्वं तीरं संशोध्य तत्र च ।निधाय तत्र स्त्रानीयं धौतं वस्त्रयुगं तत: ॥१७॥शुचेर्देशात् समानीय मृत्तिकां विभजेद् द्विधा ।कुर्यादेकेन भागेन शरीरपरिशोधनम् ॥१८॥स्त्रानीयादिभिरन्यैश्च शिर:प्रभृति शोधयेत् ।स्त्रात्वाचन्य मृदो भागं स्थापितं विन्यसेत् त्रिधा ॥१९॥एकं वामकरे कृत्वा एकं दिग्बन्धमाचरेत्॥भागेनान्यरेणैव लिम्पेद्ग्रात्रं स्वकं पुन: ॥२०॥अवशिष्ठेन वै पीठं तेन तीर्थस्य कल्पयेत् ।तत्र गङ्गां स्मरेद्ग्रिष्णोर्वामपादाब्जनि:सृताम् ॥२१॥अर्ध्यादिकं निवेद्याथ समाहृत्य जलाञ्जलिम् ।त्रीन् वारान् सप्त वा मन्त्रानुच्चार्य शिरसि क्षिपेत् ॥२२॥हृदि नारायणं देवं ध्त्यात्वा तत्पादपह्मयो: ।अधो निवेश्य स्वशिरो यथाशक्ति जपेन्मनुम् ॥२३॥उत्तीर्य पश्चादाचम्य शुद्धवासेयुगं दधत् ।कृतोर्ध्वपुण्ड्रकरणो देवर्षिपितृरूपिणम् ॥२४॥ध्यायेद्देवं तर्पयित्वा स्वसूत्रोक्त्तेन वर्त्मना ।विधायाह्निकशेषं च कृत्वोपस्थानकं रवे: ॥२५॥आगम्य यागसदनं प्रक्षाल्य पदयोर्युगम् ।आ जानु हस्तुग्मं च प्रक्षाल्या मणिबन्धनात् ॥२६॥आचम्य द्वारमाश्रित्य उङ्गन्यासपुरस्सरम् ।पाणिभ्यां ताडनं चैव कृत्वा द्वारस्य संमुखम् ॥२७॥विधाय चाग्रिप्राकारं तर्जन्या चोर्ध्वसंस्थया ।कवाटं वायुमन्त्रेण समुद्धाठ्यान्तरं व्रजेत् ॥२८॥देवव्रतं साम जपन् ?दक्षिणाङ्घ्रिपुरस्सरम् ।गन्धादिसंभारयुतं जप्त्वा वरुणमन्?त्रकम् ॥२९॥द्वा:स्थानामर्चनं कृत्वा सर्वेषां मण्डपं व्रजेत् ।सर्वमङ्गलसंयुक्तं रत्नकुट्टिमिसंयुतम् ॥३०॥सौवीरतोणैश्चापि ध्वजैश्च समलंकृतम् ।मणिकिङ्किणिमालाढ्यं मणिपीठविचिव्रकम् ॥३१॥माणिक्यमालिका[भिश्च] (युक्तं?)लम्बमालाविराजितम् ।एवं कर्तुमशक्तश्चेत् मनसैवं स्मरेद्बुध: ॥३२॥गत्वा च देवपुरत: पुण्डरीकाक्षविद्यया ।प्रणन्य दण्डवद् भूमावुत्थाय रचिताञ्जलि: ॥३३॥आरोप्य दीपनिकरं मालाद्यपि निरस्य च ।पात्रप्रक्षालनं कृत्वा निर्गते परिचारके ॥३४॥शुक्लाम्बरयुगं बिभ्रत् सर्वालंकारभूषित: ।स्त्रग्भिर्विलेपनै: श्वेतैरलंकृतशरीक: ॥३५॥ऊर्ध्वपुण्ड्राणि पिन्यस्य द्वादश श्वेतमृत्स्रया ।देवस्य दक्षिणे पार्श्वे वृस्यादावासने शुभे ॥३६॥उस्त्रमन्त्रेण संशुद्धे स्वयमासीत वाग्यत: ।बध्वा पह्मासनं वाथ स्वस्तिकासनमेव वा ॥३७॥शङ्खकाहलसंश्रिं तूर्यघोषं प्रवर्त्य च ।तिरस्करिण्या द्वारं च निच्छिद्रमपिधाय च ॥३८॥संकल्प्य वह्निप्राकारं तन्मन्त्रेणात्मनो बहि: ।चक्रमन्त्रेण चाब्ध्य चक्रमुदां स्वरक्षणम् ॥३९॥विधायेत्थं तत: कुर्यात् प्राणायामत्रयं क्रमात् ।इत्थं स्वरक्षणं कृत्वा योगमुद्रां विधाय च ॥४०॥नाभिकन्दे चतुष्कोणे मण्डले वायुसंज्ञिते ।तद्बीजं मनसा ध्यात्वा तत्समुत्थेन वायुना ॥४१॥धूम्रवर्णेन देहसथं पाप्मानमपि शोष्य च ।हृदब्जान्तस्त्रिकोणस्थं वह्निबीजं विचिन्त्य च ॥४२॥रक्तवर्णं तदुत्थाग्रिज्वालाभि: कल्मषं दहेत् ।पीताभं कण्ठदेशे च माहेन्द्रं चतुरश्रकम् ॥४३॥बीजं विधाय ज्वलनमुत्थितं वायुना सह ।स्तम्भयेत् कुमभकेनैव मूर्ध्रि स्फटिकसंनिभम् ॥४४॥वर्तुलं मण्डलं ध्यात्वा वारुणं तस्य मध्यभाक् ।तद्बीजनि:सृतेनैव क्षालयेदमृताम्भसा ॥४५॥आ पादादा च मूर्ध्रश्च शरीरं सर्वतस्तत: ।भूमिप्रभृतितत्त्वानि?नि सावधानेन चेतसा ॥४६॥संहारक्रमयोगेन कारणेषूपसंहरेत् ।आ पादादा च जान्वन्तं पृथिवीस्थानमुच्यते ॥४७॥तत्रस्थं पञ्चगुणितं पीताभं चतुरश्रकम् ।घ्राणोपस्थसनायुक्तं तन्मात्रालक्ष्यते तत: ॥४८॥गन्धे संहृत्य पश्चात्तमप्सु चैवोपसंहरेत् ।आ जानो: [पायु](नाभि?)पर्यन्तं [वायु](अपां ?)स्थानं विदुर्बुधा: ॥४९॥तस्माच्च्तुर्गुणा आप: श्वेताश्चन्द्रार्धसंस्थिता: ।रसनां पायुसंयुक्तां गन्धतन्मात्रया सह ॥५०॥रसे संहृत्य पश्चात् तं संहरेत् तेजसि द्विज ।नाभेर्हृदयपर्यन्तं वह्निस्थानं प्रकीर्त्यते ॥५१॥तत्संस्थं त्रिगुणं त्र्यश्रं पाटलं वह्निमुज्जवलम् ।सरसं टृष्टिपादाभ्यां रूपे संहृत्य तत्पुन: ॥५२॥वायौ संहृत्य हृदयादा भ्रूमध्यं मरुस्त्थिति: ।तत्स्थं वायुं धूम्रवर्णं द्विगुणं रूपसंज्ञितम् ॥५३॥संहृत्य ततस्पर्शगुण खे चैव पुनराहरेत् ।आ भ्रूमध्याच्छिरोऽन्तं च गगनस्थानमुच्यते ॥५४॥तत्थं शब्दगुणं नीलं श्रुतिवाक्सहितं तत: ।संहरेत् स्पर्शसंसुक्तं शब्दतन्मात्रमध्यत: ॥५५॥संहृत्य शब्दतन्मात्रं खान्ते तच्चाप्यहंकृतौ ।तां बुद्धौ प्रकृतौ तां च तां जीवे सवासनाम् ॥५६॥तं सूक्ष्मं नाभिचक्रस्थं सूर्यप्रतिमतेजसम् ।पह्मसूत्रा[ह](भ ?)या नाङ्या सूक्ष्मया च सुषुम्रया ॥५७॥वायुना कुम्भकेनोर्ध्वं शनैरारोहयेत्तत: ।निर्भिद्य ब्रह्मणो रन्ध्रं देहादूर्ध्वं विनिर्गतम् ॥५८॥रविबिम्बं प्रविश्योर्ध्वमुत्थितं चाशरीरिणम् ।परं ब्रह्म प्रविष्टं तं जीवं ध्यात्वा समाहित: ॥५९॥वह्निबीजेन पादाग्रसंस्थितेनोज्जवलत्विषा ।योनिजं स्वशरीरं तु दग्धं सर्वं विचिन्त्य च ॥६०॥ध्यायेन्निवृत्तिगीजं खे चन्द्रकोटिसमप्रभम् ।तदुत्थे चामृतमये जलधौ श्वेतपङ्कजम् ॥६१॥ध्यात्वा तु जीवं संभूतं परस्माद्ब्रह्मणो मुने ।जीवाच्च प्रकृतिं तस्या बुद्धिं बुद्धेरहंकृतिम् ॥६२॥[तस्मान्म](स्या म ?) न: समुत्पन्नं शब्दतन्मात्रमप्यत: ।तस्माज्जातं वाक्श्रुतिभ्यां सहकाशं विचिन्येत् ॥६३॥शब्दैकगुणकाकाशात् स्पर्शतन्मात्रमुत्थितम् ।युक्तं शब्दस्पर्शरूपैश्चक्षु:पादसमन्व्रितम् ॥६४॥अग्रेश्च रसतन्मात्रं तस्मादापश्चतुर्गुणा: ।सायुजिह्ना: संजातस्ताभ्या वै गन्धमात्रकम् ॥६५॥तस्माच्छब्दस्पर्शरूपरसगन्धुणैर्यु[तम् [(ताम् ?) ।घ्राणोपस्थयुतां भूर्मि समुत्पन्नां विचिन्तयेत् ॥६६॥इत्थं शरीरमापाद्य पञ्चभूतसमुदभवम् ।पूर्वोक्तात् पङ्कजात् तस्मादमृतौघै: समुत्थितै: ॥६७॥स्नापयित्वा निजं देहं शुद्धमप्राकृतं स्वकम् ।समाराधनयोम्यं तद्धरेरिति विचिन्त्य च ॥६८॥संस्मृत्याष्टाक्षरं मन्त्रं द्विषडखरमेव वा ।त्रिषु न्यासेष्वेकतमं कृत्वाङ्गन्यासमादरात् ॥६९॥ऋष्यादिप्रणवं कृत्वा नम:स्वाहान्तमेव वा ।वर्णात्मानं वासुदेवं गन्धपुष्पादिभि: क्रमात् ॥७०॥अर्चयित्वा ततो देवं हृदयाम्भोजसंस्थितम् ।मानसैरुपचारेश्च होमान्तैरर्चयेत् क्रमात् ॥७१॥ततो विज्ञप्य देवेशं बाह्मयागं समाचरेत् ।समाराधनवस्तूनि क्षलनीं जलपूरिताम् ॥७२॥?दक्षिणे स्थापयित्वा तु वामे पार्श्वे गलन्तिकाम् ।विष्णुगायत्रियार्ध्यादिपात्राणि क्षालयेत् सुवी: ॥७३॥अग्रे देवस्य सौवर्णं स्थापयित्वासनं तत: ।क्षालयित्वा तदुपरि पादानि स्थापयेत् पुन: ॥७४॥क्रमशस्तेषु पादेषु पात्राष्यपि निवेशयेत् ।अग्रिकोणे न्यसेदर्ध्यपात्रं दक्षिणपश्रिमे ॥७५॥पाद्यपात्रं च विन्यस्य पात्रमाचमनार्थकम् ।विन्यसेद्वायुकोण तु स्त्रानीयं शांकरे पुन: ॥७६॥प्रोक्षणार्ध्यस्य पात्रं च विन्यसेत् सर्वमध्यत: ।सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेव च ॥७७॥यवं गन्धं फलं पुष्पमर्ध्यमाष्टाङ्गमुच्यते ।दूर्वा च पिष्णुपणीं च श्यामाकं पह्ममेव च ॥७८॥पाद्ये द्रव्याणि चैतानि निक्षिप्य तदनन्तरम् ।लवङ्ग जाति[त](क ?) कोलद्रव्याण्याचमनीयके ॥७९॥सिद्धार्थकादि स्त्रानीये पूर्ववत् कल्पयेद् बुध: ।पात्राण्येतानि सर्वाणि पूरयेद्ग्रालितोदकै: ॥८०॥हस्ते वामेतरे चक्रं द्वादशारं ससूर्यकम् ।ध्यात्वा तद्रश्मिपुञ्जेन दहेद् द्रव्याणि तानि च ॥८१॥वामे हस्ते सिते पह्मे चन्द्रं ध्यात्वा सुभास्वरम् ।तदुत्थैरमृताम्भोर्ध्यात्वा सिक्तानि तानि च ॥८२॥उभयोर्हस्तयोर्ध्यात्वा देवं नारायणं प्रभुम् ।ताभ्यां द्रव्याणि पात्रेषु स्पृष्ट्वा सर्वेष्वनन्यधी: ॥८३॥उचचार्य विष्णुगायत्रीमभिमन्त्र्य सकृत् सकृत् ।संप्रदर्श्य ततो मुद्रां सौरभेयीं तदुत्थया ॥८४॥दुग्धस्य धारया तानि पूरितानि विचिन्त्य च ।ओमर्ध्यं कल्पयामीति पात्रमर्ध्यस्य संस्पृशेत् ॥८५॥एवमन्यान्यपि स्पृष्टवा कल्ययामीति चोच्चरेत् ।पात्रान्तरेणार्ध्यपात्रात् किंचिदुद्धृत्य वारि च ॥८६॥निवेश्य वामहस्ते च मूलमन्त्रेण मन्त्रयेत् ।सप्तकृत्व: पठेत्तेन तदादाय जलं पुन: ॥८७॥कूर्चेन तानि द्रव्याणि प्रोक्ष्य चात्मानमन्वत: ।कल्पयेद्देवदेवस्य योगपीठं समाहित: ॥८८॥आधारशक्तिं प्रथमं कालाग्रिं कूर्ममन्वत: ।अनन्तमुपरिष्ठाच्च सहस्त्रफणसंयुतम् ॥८९॥तस्योपरि भुवं देवीं चतुरश्रां विचिन्त्य च ।तस्योपरिष्टाद्धर्मादीन् पादानष्टौ प्रकल्पयेत् ॥९०॥धर्मं ज्ञानं च वैराग्यमैश्वर्यं कोणदिक्षु च ।नपूर्वाश्चतुरोऽप्येतान् पूर्वाद्यासु ककुप्सु च ॥९१॥सिता: पूर्वे च चत्वार: पाश्चात्या रक्तवर्णका: ।पुरुषाकृतय: सर्वे सिंहवकत्राश्चतुर्भुजा: ॥९२॥ध्यातव्याश्चर्चनीयाश्च चतुर्थ्यन्तैर्नमोऽन्वितै: ।नामभि: प्रणवाद्यैश्च मन्त्रा: कल्प्या द्विजोत्तम ॥९३॥एताश्चतस्त्र: पूर्वाद्यास्तासु देवचतुष्टयम् ।अहंकारत्रयं पाशा गुणा: सत्त्वादयो गुणा: ॥९४॥जीवामत्मा पञ्चभूतात्मा तूलिका स्यात् तदूर्ध्वत: ।विद्यादास्तरणं चाग्रेर्मण्डलं सोमसूर्यणे: ॥९५॥[मण्डलानि (लं च ? )क्रमाद् ध्येया(यं ? )[स्तदूर्ध्वे द्वादशच्छदम् ।स्मेरकेसरसंपूर्ण मध्ये कर्णिकया युतम् ॥९६॥[दलद्वादश वि (के ? ) ज्ञेया:] क्रमाद् द्वादशमूर्तय: ।मोहिन्याद्या: पञ्चदश केसरेषु च शक्तय: ॥९७॥कर्णिकायास्तु मूले स्यात् गुण्योनित्रयं मुने ।गुणशक्तित्रयं मध्ये क्रमेणैवं विचिन्तयेत् ॥९८॥भद्रसनं विधायैवं तस्मिन् देवं समर्चयेत् ।पीठस्य दक्षिणे पार्श्वे ब्रह्मविष्णुशिवान् यजेत् ॥९९॥गन्धपुष्पादिभिर्भो?गौरिष्ट्वा पार्श्वे तथोत्तरे ।सनत्कुमारसनकसनन्दानर्चयेदपि ॥१००॥यजेत् पश्चिमपार्श्वे च दुर्गाविध्नेशनारदान् ।आत्मनो गुरुपङ्क्तिं च पूजयित्वा विधानत: ॥१०१॥कस्मिंश्चित् क्षालिते पात्रे पूरिते चार्ध्यवारिणा ।मूलमन्त्रेण हस्ताभ्यां ललाटे (ट ?)सममुद्धृते ॥१०२॥आवाह्म मूलबिम्बात्तु दीपाद्दीपवदच्युतम् ।आगच्छपदसांयुक्तं चतुष्कृत्वा समुच्चरेत् ॥१०३॥मूलमन्त्रं जलं तच्च कर्मार्वाशिरसि न्यसेत् ।कूर्चेन तद्ग्रतं देवं विचिन्तय प्रणमेत् क्षितौ ॥१०४॥उत्थाय स्वागतं ब्रूयात् पश्चान्मुद्रां च दर्शयेत् ।सन्निधिं प्रार्थयेतत्र यावत्पूजावसानकम् ॥१०५॥आभिमुख्यं विघायास्य पुण्डरीकाक्षविद्यया ।आसनं च विधायास्य मूलमन्त्रेण मन्त्रवित् ॥१०६॥अर्चायां [देह(अङ्ग ? )विन्यासं] मन्त्रस्य विदधीत च ।विनैव तु करन्यासं शङ्मुद्रां च दर्शयेत् ॥१०७॥सुरै: सिद्धै: सत्त्वनिष्ठैर्मुनिभिश्चैव कारिते ।आवाहनं न कुर्वीत स्थापिते निश्चले हरौ ॥१०८॥आवाहनं भवेदस्य संमुखीकरणं द्विज ।कुण्डस्थितं हव्यवाहं होमकाले समागते ॥१०९॥उत्थापयेत्तथा देवभिज्याकाले प्रबोधयेत् ।योगपीठ[प्रकलृप्तं] च (कलृप्तिश्च ? ) मन्त्रन्यासश्च काश्यप ॥११०॥इत्याकले विधातव्ये स्थिरबिम्बे महामते ।[दिक्षुर](देवम ?)र्ध्याम्बराकल्पुष्पगन्धानुलेपने ॥१११॥स्थितं ध्यायेत् तथासीनं पाद्याचमनयो: पुन: ।आसीनमभिषेके तु पह्मासननिवेशितम् ॥११२॥धूपप्र?दीपनैवेद्येष्वसीनं स्वस्तिकासने ।अन्येष्वप्युपचारेषु तत्कर्मानुगुणं स्थितम् ॥११३॥देवमाराधको ध्यायन् तत्तत्कर्म साचरेत् ।अर्चयामीति साम्रादौ विकिरेत् पुष्पसंपुटम् ॥११४॥विज्ञापयेज्जगाथं [कृत्वा](ता ?)ञ्जलिपुट: स्थित: ।प्रभो सर्वामराधीश विष्णो जिष्णो श्रिय: पते ॥११५॥यजाम्यर्ध्यादिभिर्भोगैस्त्वां जुषस्व कृपां मयि ।इति विज्ञाप्य शिरसा प्रणम्यार्ध्यं तु मूर्धनि ॥११६॥दद्यात् पादाब्जयो: दाद्यं क्षिपेत् पाद्यप्रतिग्रहे ।ध्यायेदाचमनस्याथ दाने देवं जलैईरिम् ॥११७॥आचामन्तं पुनस्तच्च देवदेम्भ:परिग्रहे ।धूपं चागरुगन्धाढ्यं देवदेवस्य दर्शयेत् ॥११८॥सकर्पूरदशं दीपं देवदेवस्य दर्शयेत् ।आवहनार्ध्यधूपेषु परिवारस्य भोजने ॥११९॥घण्टां संचालयेद्दीपदर्शने नैव चालयेत् ।पुष्पाञ्जलिं च विकिरेत् प्रतिभोगं पदाब्जयो: ॥१२०॥मधुपर्कं दर्शयित्वा हस्ताभ्यां तत्पदाम्बुजे ।गृहीत्वा शिरसा चैव प्रणमेदभक्तिपूर्वकम् ॥१२१॥प्रणम्य दण्डवद् भूमौ देवं विज्ञापयेत्तत: ।दासोऽहमस्मि ते देव सपुत्र: सपरिग्रह: ॥१२२॥नियुङ्क्ष्व मां यथाकामं कर्तव्येषु जगद्ग्रुरो ।इत्थं विज्ञाप्य तदनु परिवारान् प्रकल्पयेत् ॥१२३॥दलेष्वासनपह्मस्य प्राच्यादिषु यजेत् क्रमात् ।श्रीकत्सं वनमालां च योगमायां च वैष्णवीम् ॥१२४॥विमला सृष्टिशक्याह्वा तथा चोत्कर्षिणीति च ।ज्ञानशक्ति: सत्यशक्तिरीशान्या ह्मनुकम्पका ॥१२५॥पितामही क्रमेणैता: स्मृता द्वादश शक्तय: ।प्रथमावरणे दिक्षु प्रागादिषु यथाक्रमम् ॥१२६॥व्याप्ति: कान्तिश्च तृप्तिश्च श्रद्धाविद्ये दया क्षमा ।अष्टैता: शक्तिपर्यन्ता: शक्तिचामरधारिणी: ॥१२७॥इष्ट्वा द्वितीयावरणे शङ्खचक्रादिधारिण: ।प्राच्याद्यसू चतुर्दिक्षु पूजयेत् पुरुषानिमान् ॥१२८॥श्रीवाराहं नारसिंहं श्रीधरं च हयाननम् ।आग्रेयादिषु कोणेषु रामौ भार्गवराघवौ ॥१२९॥वामनं वासुदेवं च क्रमादष्टाविमे स्मृता: ।आवृतौ च तृतीयायां पूजयेदायुधाष्टकम् ॥१३०॥पाञ्चजन्यं च मुसलं चक्रं नन्दकमेव च ।गदां शार्ङ्गं च तह्मं च वनमालां क्रमाद्यजेत् ॥१३१॥चतुर्थ्यामावृतौ पश्चात् कुमुदादीन् यजेत् क्रमात् ।पञ्चमावरणे चैव दिक्पालानिन्द्रपूर्वकान् ॥१३२॥एवं विधाय गरुडं देवस्याभिमुखं स्थितम् ।कृताञ्जलिकरद्वन्दं भौगैरर्ध्यादिभिर्यजेत् ॥१३३॥देवस्य दक्षिणे पार्श्वे श्रियं देर्वी समर्चयेत् ।वामे भूभिं यथादेवमिह चार्ध्यादिभिर्यजेत् ॥१३४॥बहिर्द्वितीयावरणात् सोमेशानदिगन्तरे ।विष्यक्सेनं चतुर्बाहुं शङ्खचक्रधरं यजेत् ॥१३५॥पश्चादिज्ञपयेद् देवं गन्तुं स्नानासनं प्रति ।उत्थितस्य प्रभो: पश्चात् पादुके प्रणिधापयेत् ॥१३६॥इदं विष्णुरिति द्वाभ्यामृग्भयामारोपयेत्तयो: ।उत्तिष्ठ ब्रह्मण इति प्रापयेत् स्त्रानवेदिकाम् ॥१३७॥भद्रं कर्णेभिरिति च वेदिकायां निवेशयेत् ।विष्णुगायत्रियार्ध्यं स्यात् पाद्यं विष्णु (त्रीति ?) पदेति च ॥१३८॥आचामयेज्जगन्नाथं पश्चादाप: पुनन्त्विति ।शालिमात्र: प्रदर्श्याथ विष्णुगायत्रिया पुन: ॥१३९॥मधुपर्कं च दातव्यं जितं त इति मन्त्रत: ।निवेदयेच्च ताम्बूलं मुखवासं च दापयेत् ॥१४०॥दन्तधावनकं दद्यात् तद्विष्णोरिति विष्ण्वे ।जिह्वानिर्लेहनं दद्यात् तद्विप्रास इति प्रभो: ॥१४१॥मुखप्रक्षालनं दद्याद् विष्णुगायत्रिया पुन: ।निवेदयित्वा ताम्बूलं जितं त इति मन्त्रत: ॥१४२॥विकिरेत् पादपुष्पाणि पश्चादभ्यञ्जयेद्विभुम् ।वामदेव्येन मन्त्रेण स्त्रजं तेनैव दापयेत् ॥१४३॥आदर्शनं दर्शायित्वा कुर्यादुद्वर्तनं तत: ।माषचूर्णेन च ततो विष्णोर्नुकमिति प्रभो: ॥१४४॥न ते विष्णो इति ददेत्(?) शुद्धामलकवारि च ।संक्षालनं गन्धतोयैरापो हि ष्ठादिमुच्चरेत् ॥१४५॥धान्यराशिस्थितै: सप्तदशकुम्भैश्च सेचयेत् ।हिरण्यवर्णां हरिणीमित्यालेपो हरिद्रया ॥१४६॥विलिप्य कुङ्कुमेनैव पुष्पस्त्रग्भिर्विभूष्य च ।नीराप्य कलशाम्भोभि: क्षालयेत् पावमानिभि: ॥१४७॥परिधाप्याम्बरयुगं चन्दनेन विलप्य च ।ब्रह्म जज्ञानमिति च कया नश्रित्र आभुवत् ॥१४८॥स्त्रग्भिर्विभूष्य चार्ध्याद्यैर्यजेत परमेश्वरम् ।सहस्त्रधारया स्नानं पुंसूक्तेन विधाय च ॥१४९॥?अग्रिर्मूर्धेति मन्त्नेण प्लोतेनाङ्गानि [अर्ह](मार्ज ? )येत् ।विधय धौते द्वे वस्त्रे निर्मले परिधाप्य च ॥१५०॥प्रणवेन ब्रह्मसूत्रमुत्तरीयं प्रकल्प्य च ।दत्वा चाचमनं तस्माद्ग्रमनं प्रार्थयेदनु ॥१५१॥प्रदाय पादुके देवमलंकारासनं नयेत् ।तस्मिन् देवे सुखासीने यजेदर्ध्यादिना पुन: ॥१५२॥केशानगरुजैर्धूपैर्धानं दिव इत्यृचा ।शोषयित्वाथ शुचिना चन्दनेन सुगन्धिना ॥१५३॥सकर्पूरेण तुहिनजलसंद्रावितेन च ।इदं विष्णु पठन् मन्त्रं विलि[(प्या ?)विरलं तनौ ॥१५४॥इरावतीतिमन्त्रेण पादयोरक्षतं क्षिपेत् ।जितं त इति मन्त्रेण मकुटादिविभूषणे: ॥१५५॥विभूष्य धारयित्वा च विचित्रा: सुमनस्त्रज: ।तद्विष्णोरिति मन्त्रेण विष्णुगायत्रियाञ्जनम् ॥१५६॥निधाय चक्षुषो: पश्चादर्शमपि दर्शयेत् ।व्याहृतीभिर्जितं तेन धूपयेदगरूत्थितै: ॥१५७॥धूपै: सुरभिगन्धैश्च दीपान् संदर्शये पुन: ।उद्दीप्यस्वेति मत्रेण तिलान् वै तण्डुलानपि ॥१५८॥वस्त्रं स्वर्णं च ताम्बूलं रत्नानि विविधानि च ।पलानि गाश्च धान्यानि सघृतानि यथावसु ॥१५९॥गोम्रासं चैव पुरतो देवदेवस्य देशिक: ।वैष्णवेभ्य: कृते त्वस्मिन् दाने राष्ट्रस्य भूपते: ॥१६०॥सुखहेतुर्भवेच्चैव प्राणिनां राष्ट्रवर्तिनाम् ।तिरस्करिष्यपनयं कृत्वा भक्तानुकम्पया ॥१६१॥वादयेत् सर्ववाद्यानि शङ्खकाहलनि:स्वनै: ।शृङ्गैरपि च सौवर्णै: श्रवणानां सुखवाहै: ॥१६२॥गापयेद्ग्रायकैश्चैव नर्तकीभिश्च नर्तनम् ।कारयेद्रथमातङ्गतुरङ्गशिबिकादिकान् ॥१६३॥दर्शयेद्वाहनवरान् गरुडं च ध्वजोपरि ।निवेश्य दर्शयित्वा तु छत्रं मुक्तामयं तत: ॥१६४॥[?श्वेते च(तैश्च ?) वालव्यजने(नै:?) मायुरव्यजने] (नै:?) तथा ।तालवृन्तैरपि क्षोमैर्वीजयेदभितो विभुम् ॥१६५॥ब्राह्मणैश्चतुरो वेदान् श्रावयेत् सषङ्गकान् ।कारयेत् स्तोत्रपठनं ब्राह्मणैर्वेदवित्तमै: ॥१६६॥सौवर्णपात्रनिक्षिप्तैर्गव्याज्परिदीपितै: ।आहृतैर्द्विजवर्यैश्च देवं नीराजयेदपि ॥१६७॥भोजनासनयानाय देवं विज्ञापयेत् तत: ।प्रदाय पादुके पश्चात् भोजनासनमानयेत् ॥१६८॥तत्रासीनाय देवाय दद्यार्ध्यं सपाद्यकम् ।पश्चादाचमनीयं च मधुपर्कं निवेदयेत् ॥१६९॥प्रणवेन ततो दद्यात् ताम्बूलीवीटिकां तत: ।धेनुं सवत्सां सौवर्णखुरशृङ्गविभूषिताम् ॥१७०॥पात्रस्थैरष्टभिर्धान्यै: सह मात्रां प्रदर्शयेत् ।आर्चाय च तां दद्यात् पूजासंपूराणाय च ॥१७१॥अन्नं निवेदयेत् सिद्धं पायसद्यं चतुष्ठयम् ।अपक्वैरतिपक्वैश्च यथायोगं प्रकल्पितै: ॥१७२॥फलै: सर्वर्तुसंभूतैर्मधुरादिसमन्वितै: ।संप्रोक्ष्य चास्त्रमन्त्रेण परिविच्य च वर्मणा ॥१७३॥प्रणवेनार्हणं दत्वा दहनाप्यनादिकम् ।इविषो दोषाशान्त्यर्थं कारयित्वा प्रदक्षिणम् ॥१७४॥मुद्रां च सौरभीं कृत्वा दर्शयित्वा च भक्तित: ।अर्ध्यपात्रस्थितं पुष्पं विन्यस्य च यथाक्रमम् ॥१७५॥विष्णुहस्तमाख्यं च कृत्वा वामकरेण च ।अन्वारब्धं दक्षिणेन ग्रासमुद्रायुतेन च ॥१७६॥देवस्य त्वेतिमन्त्रेण करे देवस्य दक्षिणे ।निर्वपेत् सावधानेन भक्तियुक्तेन चेतसा ॥१७७॥अर्ध्ये धूपे च नैवेद्ये त्रिषु घण्टां निनादयेत् ।दत्वा च पावनं भक्तं पानीयं च सुसंस्कृतम् ॥१७८॥दद्यादचमनीयं च मृजेत् पाण्योश्च चन्दनम् ।निवेदयेच्च तताम्बूलं कर्पूरेण समन्वितम् ॥१७९॥सरत्नतिलमात्रं च ह्माचर्याय प्रदापयेत् ।कर्मार्चायां दुदितं क्रियाजातं द्विजोत्तम ॥१८०॥तत्सर्वं ध्रुवबेरादौ विदधीत विचक्षण: ।क्षमापयित्वा देवेशं भक्तिनम्रेण चेतसा ॥१८१॥परिवारांश्च गन्धाद्यैश्चतुर्भि: पूजयेद् द्विज ।स्तोत्राणि विज्ञाप्य पुनर्मूलमन्त्रं जपेद् बुध: ॥१८२॥अष्टोत्तरशतं वापि तदर्धं वा तदर्धकम् ।अर्ध्यपात्रकर: पश्चात् विनिर्गत्याग्रिमण्डपम् ॥१८३॥तथा होमं विधायाथ गत्वा देवस्य संनिधौ ।निवेद्य [तत्कर्म----न] (जातां ?) देवापाम्बुजद्वये ॥१८४॥महोत्सवविधानेन परिवारबलिं चरेत् ।देवभुक्तोज्ज्ञितैर्भोगैर्विष्वक्सेनं च पूजयेत् ॥१८५॥विज्ञप्य देवदेवाय प्रणमेद्दण्डवत् क्षितौ ।आदाय चावशिष्टानि पूजावस्तूनि कृत्स्नश: ॥१८६॥गृहं गत्वा च तैर्द्रव्यैर्हृदयाम्बुजसंस्थितम् ।अर्चयित्वा जगन्नाथं कृतकृत्य: सदा भवेत् ॥१८७॥इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां[नित्याराधनक्रमविधिर्नाम] दशमोऽध्याय:॥ N/A References : N/A Last Updated : January 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP