संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| मूशककाककूर्मकच्छपाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम मूशककाककूर्मकच्छपाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत मूशककाककूर्मकच्छपाख्यायिका Translation - भाषांतर इत्युक्त्वा मद्बिलद्वारं स विदार्यातिकोविदः ।येनाहमभवं द्रष्टा तत्सुवर्णं जहार मे ॥४२०॥ततो मे शक्तिहीनस्य क्षीणवृत्तेर्गतत्विषः । त्यक्तस्य भृत्यस्वजनैरिदमासीन्मनोगतम् ॥४२१॥अहो नु धनहीनानां मरणं सुगतिः परा । गतासुः सेव्यते गृध्रैर्न तु केनापि निर्धनः ॥४२२॥इति चिन्तापरीतोऽहमनेन लघुपातिना । संगतो जाह्नवीकूले प्राप्तो भद्र त्वदन्तिकम् ॥४२३॥तच्छ्रुत्वाश्वासयामास हिरण्यं कच्छपाधिपः । उद्योगशीलो विभवं प्राप्स्यसीति पुनः पुनः ॥४२४॥ एवं प्रब्रुवतां तेषां लुब्धकस्तत्र(?) ( आययौ । चित्राङ्गो नाम सारङ्गं प्रशंसन्निव मित्रताम् ) ॥४२५॥तेषां विश्रम्भसौहार्दे वर्धमाने परस्परम् । मृगः कदाचित्संकेतवेलायां न व्यलम्बत ॥४२६॥ततस्ते शङ्किता मित्रं बद्धं विज्ञाय वायसात् । अचोदयत्कुरङ्गस्य बन्धच्छेदाय मूषकम् ॥४२७॥ नीतोऽथ मूषकस्तत्र वायसेन विहायसा । दृष्ट्वा कुरङ्गं प्रोवाच देशकालाज्ञता क्क ते ॥४२८॥ इति श्रुत्वाब्रवीदेनं प्राप्तोऽहं दैवशासनात् ।क्रीडार्थं राजपुत्राणां दृष्टबन्धोऽप्यहं पुरा ॥४२९॥ देशकालबलज्ञो हि दृष्टोपायोऽपि पण्डितः ।सखे पराङ्मुखे दैवे समर्थोऽपि करोति किम् ॥४३०॥ एवं तयोः कथयतोर्मकरोऽपि सुहॄत्प्रियः ।आययौ शनकैर्यत्र मृगमूषकवायसाः ॥४३१॥।दृष्ट्वा कच्छपमायान्तं मूषकः कुपितोऽब्रवीत् ।धिक्त्वामदेशकालज्ञं यत्प्राप्तोऽसि छलैरिति ॥४३२॥ततः कुरङ्गपाशाग्रे कॄते सत्वरमाखुना । लुब्धकः सहसा प्राप्य बबन्धाभ्येत्य कच्छपम् ॥४३३॥ते च जग्मुर्भयात्तस्य गत्वा चाचिन्तयत्क्षणम् । ततः संमन्त्र्य चक्रुस्ते व्याजेन पतितं मृगम् । नेत्रे विपाटयन्तं तं तस्यैवोपरि वायसम् ॥४३४॥तं दृष्ट्वा लुब्धके मुग्धे त्यक्त्वा कच्छपमञ्जसा । अभिद्रुते कुरङ्गाय कूर्ममाखुरमोचयत् ॥४३५॥स तस्मिन्मूषके याते सारङ्गोऽपि सवायसः । जगाम तूर्णमि(त्येवं बुद्धिः सर्वार्थसाधिनी ॥४३६॥इति मूशककाककूर्मकच्छपाख्यायिका ॥२२॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP