संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| वेश्याख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम वेश्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत वेश्याख्यायिका Translation - भाषांतर अत्रैव गोमुखः प्राह प्रस्तावसदृशीं कथाम् । राजा विक्रमसिंहाख्यः प्रतिष्ठानपुरेऽभवत् ॥८४॥बभूव शशिलेखाख्या प्रिया तस्य सुलोचना । अनन्तगुणनामा च सचिवो धीमतां वरः ॥८५॥स कदाचिन्महीपालो बलिभिः पञ्चभिर्नृपैः ।निरुद्धनगरो मानी स्वयं युद्धाय निर्ययौ ॥८६॥स तैः समरभङ्गाद्यैर्विजितो युधि शत्रुभिः । सहानन्तगुणेनैव छन्नो देशान्तरं ययौ ॥८७॥ आसाद्य सुन्दरीं चैव रागिणी धनगौरवात् । शनिरुज्जयिनीं प्राप्य गणिकाया निवेशनम् । रम्यं कुमुदिकाख्यायां सोऽविशन्मन्त्रिणा सह ॥८८॥तं राजलक्षणोपेतं सिंहस्कन्धं महाभुजम् । सिषेवे सा महीपालं प्रेमबन्धैः सविभ्रमैः ॥८९॥स राजा द्रविणं तस्या गृहादादाय भूरिदः । याचकेभ्यो ददौ नित्यं निजवद्विपुलाशयः ॥९०॥अत्यन्तरागिणीं मता नृपतिस्तां सविस्मयः । मन्त्रिणं प्राह पश्येमां मदेकशरणामिति ॥९१॥( अमात्यः प्राह मा राजन्वेश्यासु प्रत्ययं कृथाः । दृक्संविभागमप्येता नैव कुर्वन्त्यकारणम् ॥९२॥इति ) श्रुत्वा नृपश्चक्रे परीक्षायै मृगीदृशः ।मिथ्यैवातुरमात्मानं कृतकत्यक्तजीवितम् ॥९३॥सोऽथ कूटमृतस्तेन मन्त्रिणा कृतसंविदा ।नीतः श्मशानं हा राजन्निति तारप्रलापिना ॥९४॥ततः सा गणिका दुःखात्कल्पिते प्रवरेऽनले । कण्ठे गृहीत्वा तं कान्तं त्यक्तुमात्मानमुद्ययौ ॥९५॥ अत्रोत्तस्थौ नरपतिः संजातप्रमादाकुलः । तां गाढरागिणीं ज्ञात्वा तं निनिन्द च मन्त्रिणम् ॥९६॥संजाताधिकविश्रम्भं सेवमानं घटस्तनी । कान्ता क्ष्मापालतिलकं बभाषे मन्त्रिपुंगवः ॥९७॥ ( दृष्टानुमरणात्तस्यास्त्वदेकशरणा मतिः । तथापि देव जानेऽहं कूटमेतद्विचेष्टितम् ॥९८॥इति मन्त्रिवरो राजा श्रद्दधे नैव सस्मितः ) । संजातप्रत्ययो रागः कस्य वाचा निवर्तते ॥९९॥अत्रान्तरे स भूपालः शुश्राव महिषीं निजाम् । तस्मिन्रणे मानभङ्गशोकात्संत्यक्तजीविताम् ॥१००॥ ततो दुःखाकुलं दृष्ट्वा क्षिप्रं श्रुत्वा च तत्कथाम् । प्रगल्भललना स्वैरं नृपं कुमुदिकावदत् ॥१०१॥ राज्ञो न शोभते शोकस्तव दोर्दर्पशालिनः । पराक्रमो हि वीराणां मानभङ्गे प्रतिक्रिया ॥१०२॥सन्त्येव मे सहस्राणि मत्तवारणवाजिनाम् । हेम्नश्चैतैः कृतोद्योगो जहि शत्रून्धनुर्धर ॥१०३॥ इति तद्वचसा राजा हविषेव हुताशनः । स्फूर्जत्प्रतापः प्रययौ परांस्तु तुरगद्विपैः ॥१०४॥बलिना सुहृदा सार्धं राज्ञा धवलकीर्तिना ।गत्वा जघान ताञ्शत्रून्सानुगानुग्रविक्रमः ॥१०५॥श्रीमान्विक्रमसेनोऽथ राज्यं प्राप्य निजं पुनः । वराङ्गनानां विदधे प्रधानान्तःपुरे स्त्रियम् ॥१०६॥ततः सा प्राह भूपालं कृतज्ञ श्रृणु देव मे । संकल्पकल्पविटपी सर्वदैव प्रवर्तसे ॥१०७॥ शत्रवो विजिताः सर्वे प्राप्ता श्रीर्यशसा सह । त्वया धैर्यसहायेन प्रणयिप्रियकारिणा ॥१०८॥अद्य चेत्करुणा चित्ते तवास्मिन्प्रेमलेशके ।तन्मे वितर भूपाल सतताभीप्सितं वरम् ॥१०९॥ उज्जयिन्यां नरेन्द्रेण बद्धो मे हृदयप्रियः । द्विजन्मा श्रीधरो नाम स बलान्मुच्यतां त्वया ॥११०॥ तदर्थमेव राजेन्द्र सेवितोऽसि मया चिरम् । इति श्रुत्वा महीपालस्तथेत्याह सविस्मयः ॥१११॥ततः स विपुलानीको विजित्योज्जयिनीपतिम् । मोक्षयित्वा द्विजसुतं पुनः स्वपुरमाययौ ॥११२॥प्रहृष्टां संगताम तेन चिराद्यूना द्विजन्मना । दत्त्वा बहुगुणं हेम क्ष्मापतिर्विससर्ज ताम् ॥११३॥अथान्तगुणो मन्त्री विहस्य नृपमब्रवीत् ।एतदर्थं पुरा देव सा भवन्तमसेवयत् ॥११४॥ दृशान्यत्र गिरान्यत्र चेतसान्यत्र कृतिम म् । प्रेम संदर्शयन्त्येव कुशला वेशयोषितः ॥११५॥ इति मन्त्रिवचः श्रुत्वा भूपालो विस्मयाकुलः ।एवमेतदिति प्राह तन्मतिं प्रशशंस च ॥११६॥ गोमुखेनेति कथितं श्रुत्वा वत्सेश्वरात्मजः ।कुटिलं गणयामास गणिकावृत्तमद्भुतम् ॥११७॥इति वेश्याख्यायिका ॥३॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP