संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| अलजालाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम अलजालाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत अलजालाख्यायिका Translation - भाषांतर इति वत्सेश्वरः श्रुत्वा सामात्यो दयितासखः । क्षणं स्मितसुधाधौतकपोलफलकोऽभवत् ॥२६॥ततो मध्यं समारूढे व्योम्नः कमलिनीप्रिये । वत्सराजो नृपशतैः सहोत्थाय सभातलात् ॥२७॥ स्नात्वार्चयित्वा श्रीकण्ठं भुक्त्वान्तःपुरमभ्यगात् ।नरवाहनदत्तोऽपि निशि शय्यागृहं ययौ ॥२८॥वयस्यैः सहितस्तत्र नर्मकेलिकथान्तरे । बहिः स्थितानां शुश्राव गीतं हरिणचक्षुषाम् ॥२९॥वाराङ्गनानां गीतेन संजातपुलकं ततः । मरुभूतिं समालोक्य हसन्प्राह तपन्तकः ॥३०॥देव वेश्याङ्गनागीतध्वनिना पश्य ते सुहृत् ।आकृष्यमाणहृदयः कुरङ्ग इव लक्ष्यते ॥३१॥श्रुत्वेति तद्वचः प्राह मरुभूतिः स्मिताननः ।मृषा तपन्तकेनोक्तं जानेऽहं वैशिकीं स्थितिम् ॥३२॥क्रूराणाम क्षणरक्तानामवसाने तमःस्पृशाम् । संधानामिव वेश्यानां गुणिसङ्गकथैव का ॥३३॥चपलाः क्षिप्ररुचयस्तूर्णं स्रस्तपयोधराह । निरम्बरदशा यान्ति पर्यन्ते वारयोषितः ॥३४॥ दर्शनेष्वेव सुखदा वेश्या वेशोज्ज्वलश्रियः ।भोगवैरस्यकारिण्यः काठिन्यकटुकास्ततः । श्रूययां गणिकावृत्तं विचित्रं कथयाम्यहम् ॥३५॥ नगरे चित्रकूटाख्ये रत्नधर्माभवद्वणिक् । श्रीमानीशानधर्माख्यस्तस्याभूत्तनयः प्रियः ॥३६॥ कलाकलापकुशलो विद्यासु च कृतश्रमः । पित्रा महाधनेनासौ श्रीरक्षार्थं समर्पितः ॥३७॥कुट्टिन्यै यमजिह्वायै वेश्यावञ्चनशिक्षणे । पुत्रप्रीत्या ददौ तस्यै शिक्षामूल्यं वणिग्वरः ॥३८॥अशिक्षितेऽस्मिन्द्विगुणं ग्रहीष्यामीति संविदा । शिश्यतां प्रतिपन्नं तं सा गृहीत्वा वणिक्सुतम् ॥३९॥संवत्सरेण विदधे वेश्यावञ्चनकोविदम् । ततः कदाचित्स युवा विसृष्टो द्रविणार्जने ॥४०॥पित्रा जलनिधेस्तीरे स्थितं हेमपुरं ययौ । पञ्चकोटीः समादाय रूप्याणां सचिवैर्वृतः ॥४१॥प्रविश्य तत्पुरं प्राप देवायतनमुत्तम म् ।ददर्श तत्र नृत्यन्तीं हरिणायतलोचनाम् ॥४२॥तरुणीं सुन्दरीं नाम गणिकां रतिजीविनीम् ।प्रदाय सुहृदा तस्यै ताम्बूलं मन्मथाकुलः ॥४३॥धन्याहमिति वादिन्या गॄहं तस्या विवेश सः । महार्हभूषणे तत्र कर्पूरागुरुधूपिते ॥४४॥पुष्पोपहासरुचिरे बद्धपट्टवितानके । शय्यागृहे हिमस्चच्छन्यस्तचीनोत्तरच्छदे ॥४५॥उपविष्टः समायातां लतां वाताकुलामि(व ) ।सोऽपश्यत्सुन्दरीं हृष्टामग्राम्यहितमण्डनाम् ॥४६॥तस्यां समुपविष्टायां प्रवृत्ते पानकोत्सवे ) । यथेष्टवादो मित्राणां निर्मर्यादमवर्तत ॥४७॥ ततो मकरदंष्ट्राख्या सुन्दर्या जननी शनैः स्वयं गृहीतताम्बूला हर्षपूर्णा समाययौ ॥४८॥संशुष्कविकटाकारां जरतीपूतनामिव । रक्तक्षयकरीं चौरां पिशाचीमिव वञ्चकाम् ॥४९॥प्रणनम वणिक्पुत्रास्तां वलीनालिताङ्गिकाम् । कामिसर्वस्वसंहारसंख्ह्यारेखाङ्कितामिव ॥५०॥ तस्य त्यागप्रधानैः सा विपुलैर्गुणसंस्तवैः । जग्राह हृदयं तूर्णं सुहृदां च यथोचितैः ॥५१॥ततो नीते विजनतां तस्मिन्क्रीडनमण्डपे । स लीलारसिको भेजे सुन्दर्याः सुरतोत्सवम् ॥५२॥वैदग्ध्यमौग्ध्यसंदिग्धै रसारम्भैश्च विभ्रमैः । सद्भावभावितैर्भावैः स विवेश तदाशयम् ॥५३॥ ततः प्रभाते सानन्दौ गाढालिङ्गननिःसहौ । चक्रतुस्तौ समुत्थय श्रृङ्गरोचितमाह्निकम् ॥५४॥इत्थं प्रतिदिनं श्रीमान्स तयाराधितः शनैः । हेमरत्नाम्बराश्वादि तस्यै कोटिसमं ददौ ॥५५॥स किंचिच्छेषसर्वस्वः कालेन सुहृदो गिरा । पित्रा लेखेन चाज्ञप्तो द्वीपं गन्तुं समुद्ययौ ॥५६॥ततः कृतकबाष्पाम्बुप्लावितोच्चकुचस्थली ।आश्चिष्टानेन मूढेन सव्यथेन मुहुर्मुहुः ॥५७॥ पाणिपङ्कजविन्यस्तकपोलकलिताकृतिः ।आश्वास्यमाना बहुशो मात्राकृतकसंचयैः ॥५८॥सा प्रस्थितं तमवदच्छेषार्थहरणोद्यता । त्वां विना नैव जीवामीत्युक्त्वाभूद्गुम्फिताधरा ॥५९॥ आकृष्टः प्रेमपाशेन तया भीत्या पितुश्च सः । दोलाविलोकहृदयः प्रतस्थे भृशदुःखितः ॥६०॥ततः प्रविदधे कूपे कुट्टिनी रज्जुजानकम् । विसृज्य गूढं पुरुषान्सुतां तत्रैव चाक्षिपत् ॥६१॥हा हा त्वद्विरहायासनिःसहा सहसात्यजत् । कूपे क्षिप्ता च सुन्दर्या चुक्रोशेत्यथ कुट्टिनी ॥६२॥ श्रुत्वा प्रतिनिवृत्तस्तां सुहृद्भिस्तूर्णमुद्धृताम् । कण्ठे गृहीत्वा सोत्कण्ठं स रुरोद वणिक्सुतः ॥६३॥ततस्तत्रैव तां कान्तां सेवमाः कृशोदरीम् । अनल्पेनैव कालेन निःशेषविभवोऽभवत् ॥६४॥चिरात्प्रतिगृहं प्रायात्स्वबाहुस्वस्तिकांशुकः । कृशो विच्छायवदनस्तदाहूतोऽतिलज्जितः ॥६५॥ ततस्तज्जनकः कोपाद्यमजिह्वामुपेत्य ताम् । उवाच बत मत्पुत्रस्त्वयासौ शिक्षितः कलाः ॥६६॥वञ्चितः काञ्चनपुरे कुट्टिन्या प्रीतमायया । विनष्टाः पञ्च कोट्यो मे शिक्षामूल्यं प्रयच्छ मे ॥६७॥इति श्रुत्वा वणिगाक्यं पृष्ट्वा वृत्तं च तत्सुतम् । यमजिह्वावदत्पुत्र पुनर्गच्छ धनाप्तये ॥६८॥ एको जालप्रयोगोऽस्ति सत्यं मोहात्स विस्मृतः । तत्प्रत्यस्त्रं गृहाणेदमित्युक्त्वास्मै ददौ कपिम् ॥६९॥अनेन तद्दशगुणं तया भक्षितमाप्स्यसि । धनमस्य प्रभावश्च प्रत्यक्षं परिदृश्यताम् ॥७०॥ इत्युक्त्वा रूप्यकशतं मर्कटायैव सा ददौ । निगीर्य स ततः प्रादाद्यावद्यो यः समीहते ॥७१॥आलं नाम तमादाय मर्कटं प्रत्ययाद्वणीक् । बहुलद्रविणापूर्णः पुनर्हेमपुरं ययौ ॥७२॥ आसाद्य सुन्दरीं तत्र रागिणीं धनगौरवात् । पुनर्महोत्सवं चक्रे तद्गृहे रतिलालसः ॥७३॥ निगीर्णरूपकं तस्यै तं मर्कटमदर्शयत् । उद्गीर्य वक्त्रादसकृत्प्रददौ रूपकानि यः ॥७४॥दृष्ट्वा तं सहिता मात्रा सुन्दरी समचिन्तयत् । अहो निधानरूपोऽयं चिन्तामणिनिभः कपिः । बहूपायैरसंपूर्णैः किं धनैः क्लेशचिन्तितैः ॥७५॥इति संचिन्त्य सा मात्रा शनैः प्रियमयाचत । मर्कटं तं च न ददौ निजोत्सङ्गगतं वणिक् ॥७६॥प्रीत्या विपुलनिर्बन्धात्सुन्दर्या प्रार्थितश्चिरम् ।ददौ कोटिशतेनास्यै रूपकष्ठीविनं कपिम् ॥७७॥ तत्सर्वस्वं समादाय क्रयविक्रयसंचितम् । वणिङ्गिजपुरं प्रायात्ततो वैश्रवणोपमः ॥७८॥ अथाज्ञया पितुः श्रीमान्परिणीय कुलोचितम् । कलां गुणवतीं नाम विललास कलानिधिः ॥७९॥ कुट्टिन्या याच्यमानोऽपि स चिरात्क्षीणरूपकः । मर्कटो न ददौ किंचिदस्थितं दीयते कुतः ॥८०॥स सान्त्वितोऽपि बहुशः कशाभिश्चाहतो मुहुः । महाधनव्ययरुषा तादितश्चमहाश्मना ॥८१॥ निर्जीवितः कृतस्ताभ्यामालो मर्कटपोतकः । इत्यालजालैर्ग्णिका वञ्च्यन्ते वञ्चयन्ति च ॥८२॥इति राजसुतः श्रुत्वा कथितं मरुभूतिना । बभूव गणिकासङ्गसंकल्पशिथिलादरः ॥८३॥इत्यालजालाख्यायिका ॥२॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP