संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| जम्बुकाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम जम्बुकाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत जम्बुकाख्यायिका Translation - भाषांतर मिहिलारोप्यनगरे पुरासीद्वायसाधिपः । शाल्मलिस्कन्धवसतिर्लघुपातीति विश्रुतः ॥३९२॥स कदाचिद्ददर्शाग्रे कपोतेशं सहानुगम् । चित्रग्रीवाभिधं जाले पतितं पाशजीविनाम् ॥३९३॥जालं हरन्तमालोक्य कौतुकात्तं विहायसा । वायसोऽनुययौ द्रष्टुं तस्य बुद्धिचिकीर्षितम् ॥३९४॥चित्रग्रीवोऽपि संप्राप्य सुहृदं वृद्धमूषकम् । हिरण्याख्यं महापाशच्छेदने तमनोदयत् ॥३९५॥छिन्नपाशं हिरण्येन ततस्तं वीक्ष्य वायसः । सख्यं यत्नेन विदधे तेन विस्रब्धामाखुना ॥३९६॥प्ररूढतां ययौ प्रेम प्रीतिभुक्तिपुरःसरम् । याति काले रहः काकः कदाचिन्मित्रमब्रवीत् ॥३९७॥वृत्तियुक्तमपि स्नानमिदं मम न रोचते । सखे जातरतिर्देहे पुष्टिर्हि प्रथमा रतिः ॥३९८॥तदेहि मन्थरो नाम मित्रं मे कच्छपाभिधः । जाह्नव्यामस्ति गच्छामो विहाराय तदन्तिकम् ॥३९९॥( ...........................................कच्छपम् । कुशलानामयं पृष्ठा चक्रतुर्विविधाः कथाः ) ॥४००॥अपापः खिन्नः प्राप्तोऽयमित्युक्तो वायसेन सः । पृष्टो हिरण्यः प्रोवाच निजागमनकारणम् ॥४०१॥ परिवाड् गूढकर्णोऽस्ति प्रख्यातो नगरान्तिके । तदाश्रमेऽहं सततं पूर्णं वृत्तिमकल्पयम् ॥४०२॥नागदन्ताग्रसंसक्तभिक्षाभोजनसंस्थितेः । ............नारदपरिष्कारं स्निग्धाव(न्न)मृदुभोजनैः ॥४०३॥याति काले ततस्तस्य परिव्राडाययौ परः । स भुक्त्वा निशि विश्रब्धं प्रोवाच विविधाः कथाः ॥४०४॥गूढकर्णस्तु मामेव चिन्तयञ्जर्जरं मुहुः । अवादयत्कथाविघ्ने बृहत्स्फिक्कुपितोऽब्रवीत् ॥४०५॥अहो विद्यावयोवृद्धो निःसङ्गोऽपि भवान्सखा । कथाखनादरो दर्पान्मदान्ध इव लक्ष्यते ॥४०६॥ तच्छ्रुत्वा लज्जितः किंचिद्रूढकर्णोऽप्यभाषत । न दपादन्यचित्तोऽहं श्रूयतामत्र कारणम् ॥४०७॥सततं मूषकः पापो बहिक्ष्यपात्रादलक्षितः । समश्नाति भिया तस्य जर्जरं वादयाम्यहम् ॥४०८॥बृहत्स्फिग्गूढकर्णस्य श्रुत्वेति प्राह सस्मितः । यत्तवावहितस्यापि भक्षयत्येष भोजनम् ॥४०९॥अवश्यं कारणेनात्र भवितव्यं तपोधन । करोति शाण्डिलीमाता नाकस्मात्तिलविक्रयम् ॥४१०॥पुरापश्यमहं पान्थः स्थितो ब्राह्मणवेश्मनि । ब्राह्मणी कुपिता पत्युः सर्वान्नव्ययकारणात् ॥४११॥लुब्धामवोचतां भर्ता भद्रे नाशोऽतिसंचये । संचयेनातिलुब्धो हि निहतो जम्बुकः पुरा ॥४१२॥अरण्ये प्राप गोमायुः परस्परहतान्पुरा । लुब्धकक्रोडहरिणान्यत्रारूढं च कार्मुकम् ॥४१३॥ अयत्नोपनतं प्राप हर्षपूर्णोऽथ जम्बुकः । तान्संचयं विधायैव कार्मुकं भोक्तुमुद्यतः ॥४१४॥चापचर्वणसक्तस्य तस्य यन्त्रेषुणा दृढम् । दारितस्य ययुः प्राणास्तस्मान्नाशोऽतिसंचयः ॥४१५॥पत्युः श्रुत्वेति वचनं पर्वयागानुकारिणी ।स्नानाय तं विसृज्याशु पाकसक्ताभवत्क्षणात् ॥४१६॥तत्तिलान्कृशराहेतोः शिष्येण स्थापितान्पुरः । अभ्येत्य श्वा क्रियायोग्यांश्चक्रे चिह्वावलेहनैः ॥४१७॥तिलानां विक्रयं कर्तुमुद्यतामपरैस्तिलैः । दृष्ट्वा परो गॄहस्वामी विचिन्त्य क्षणमब्रवीत् ॥४१८॥करोति ब्राह्मणवधूर्नाकस्मात्तिलविक्रयम् । तस्मादाखुस्तथैवैष न शक्तः कारणं विना ॥४१९॥इति जम्बुकाख्यायिका ॥२१॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP