संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
यूकाख्यायिका

यूकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्युक्त्वा पिङ्गलं द्रष्टुं यातो दृष्ट्वा प्रणम्य च ।
इदं दमनको वाक्यमेकान्ते विरतोऽ‍ब्रवीत् ॥३०२॥
कुलक्रमागता भृत्या हितवाक्येषु मूकताम् ।
यत्प्रायान्ति सदोत्सेकाः स्वामिनः सावलिप्तता ॥३०३॥
संजीवकोऽयं वृषभः स्वामिद्रोहे समुद्यतः ।
यथा वक्राञ्चितग्रीवः संग्रामार्थिव लक्ष्यते ॥३०४॥
अयं चाभेषजो दोषो यदेतत्ककुदुद्भवः ।
कृमयो नित्यसंग्रामव्रणेषु विषमास्तव ॥३०५॥
अविज्ञातस्वभावैर्हि संगतिर्विपदां पदम् ।
हता मत्कुणदोषेण यूका मन्दविसर्पिणी ॥३०६॥
दुग्धाब्धिफेनधवलक्श्मापशय्यातलाश्रया ।
यूका ददर्श पवनानीतं टिट्टिभमत्कुणम् ॥३०७॥
तं दृष्ट्वा साब्रवीद्देयो न ते तीक्ष्णमुखाश्रयः ।
तच्छ्रुत्वा सोऽवदद्देनमेकरात्रिं वसाम्यहम् ॥३०८॥
दत्ताश्रयोऽथ कृपया तया स सहसा नृपम् ।
अदशद्येन तत्क्रोधाद्धता यूकैव सेवकैः ॥३०९॥
इति यूकाख्यायिका ॥१२॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP