संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| वानराख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम वानराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत वानराख्यायिका Translation - भाषांतर शूरवर्माभिधानस्य कुलपुत्रस्य मानिनः । जलशायिन्यभिख्याभूद्भार्या नीचकुलोद्भवा ॥२५२॥ग्रामान्तरगते तस्मिन्सा तन्मित्रेण संगता । मृगदत्ताभिधानेन सिषेवे सुरतोत्सवम् ॥२५३॥शूरवर्मा समभ्येत्य ज्ञात्वा तस्या विचेष्टितम् । तत्याज नो वधार्हेति निकारे गतविक्रियः ॥२५४॥उक्त्वेति राजतनयं पुनः प्रोवाच गोमुखः । श्रूयतामधुना देव कथां चित्तविनोदिनीम् ॥२५५॥दाक्षिणात्ये जनपदे विबुधव्रातसेवितम् ।मिहिलारोप्यनामास्ति पुरं सुरपुरोत्तम म् ॥२५६॥वर्धमानकनामाभूत्तत्रातिधनदो वणिक् । प्रस्थितो द्वीपयात्रायां स विवेश महावनम् ॥२५७॥तत्रास्य विषमग्रावविदीर्णपदविक्लवः । धुर्योऽवसन्नो वृषभो वृशाङ्कवृशसंमितः ॥२५८॥याते वणिग्वरे त्यक्तस्तन्नियुकैः स रक्षिभिः । नवौषधिचयाहारः कालेन स्वास्थ्यमाययौ ॥२५९॥पीनदर्पाकृतिजले तस्मिन्संजीवकाभिधे । निर्झरोपान्तपारीषु स्वच्छन्दसुखवारिणि ॥२६०॥उदकार्थं समभ्यायात्पिङ्गलाख्यो मृगाधिपः । वनं यत्केसरैः स्फारैः साट्टहार्समिवाभवत् ॥२६१॥ स शुश्राव वृषस्योग्रं श्रृङ्गाघातं स्फुटं तटे । टाङ्कारनादमुखरं हुंकारनिबिडध्वनिम् ॥२६२॥श्रुत्वा तदुग्रनिनदं विषमं स्थगितक्रमः ।स तस्थौ फुल्लरोमाञ्चैः पीनलाङूलपल्लव्ह ॥२६३॥करटो दमनश्चैव सचिवौ तस्य जम्बुकौ ।दूरतश्चित्तसंक्षोभं विलोक्य स्वैरमूचतुः ॥२६४॥ पूर्वसंस्कारयोगेन सत्त्वान्मुनिवरेण वा । संस्फुटोच्चरति प्राय पशूनामपि भारती ॥२६५॥ततोऽब्रवीद्दमनकः सखे किमयमिश्वरः । अदृष्टशब्दमात्रेण क्षोभाकुल इवेक्ष्यते ॥२६६॥ तच्छ्रुत्वा धीमतां धुर्यो हसन्करटकोऽब्रवीत् । निरर्थचिन्तायोगेन किं प्रयोजनमावयोः ॥२६७॥ अप्रयोजनकर्ता यः सर्वथा दुःखभाजनम् । अकार्यदुर्ग्रहग्रस्तः कीलाकर्षकवानरः ॥२६८॥श्रूयते नगराभ्यासे गृहनिर्माणकारिणः । अर्धस्फुटितकाष्ठाग्राः परं स्थपतयो ययुः ॥२६९॥ गतेषु तेषु विपुलः कपिसार्थः समाययौ ।वल्लीतानैकविन्यस्तसभाविभवनिर्मितः ॥२७०॥तत्रैकश्चापलात्कीलं स्फाटिकस्तम्भमस्तकात् । स्पृशन्नुवाच केनायमस्थाने विनिवेक्षितः ॥२७१॥ तस्मिन्नभ्युद्धृते यन्त्रकीलके मुष्कपीडनात् । स संघटितसर्वाङ्ग सहसा निधनं ययौअ ॥२७२॥ इति वानराख्यायिका ॥९॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP