संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
सत्याख्यायिका

सत्याख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गच्छाधुना न ते मित्रमः कुटिलचेतसः ।
शिशुमारो निशम्येति वानरं प्राह दुखितः ॥५४३॥
न ददाति प्रतिश्रुत्य यः सत्यपदविच्युतः ।
निरालम्बी तमो याति स शिलाशतताडितः ॥५४४॥
वानरस्तद्वचः श्रुत्वा प्रोवाच मतिरस्ति ते ।
न पुण्यं सत्यमात्रेण सत्यान्नाशोऽस्ति केवलात् ॥५४५॥
पुरा खर्परघाताङ्कललाटः पुरुषो नृपम् ।
अवाप्य विपुलां वृत्तिं लेभे विक्रमलाञ्छितः ॥५४६॥
कालेन पृष्टो राज्ञा च स प्रहारस्य कारणम् ।
पूर्यद्धटप्रपातेन खर्पराघातमभ्यधात् ॥५४७॥
तज्ज्ञात्वा राजपुरुषैर्निरस्तः प्रच्युतः क्षणात् ।
इति केवलसत्त्वेन न भवन्ति हितश्रियः ॥५४८॥
इति सत्याख्यायिका ॥३६॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP