संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
चतुराख्यायिका

चतुराख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


एवं शक्तविनोदेन महतामपि नोदयः ।
किमुतैकान्तभक्षाणामस्माकं मूढचेतसाम् ॥३४४॥
कृत्वेति भेदनोपायं ययौ करटकान्तिकम् ।
हसन्दमनकोऽभ्येत्य हृष्टोऽखिलमुवाच तम् ॥३४५॥
पैशून्योऽसि ततस्तेन पुनः प्राह च जम्बुकः ।
हृदये तैक्ष्ण्यमादायावदच्चामृतसंनिभः ॥३४६॥
एकद्रव्यार्थिनं हन्यां किं मामङ्ग विगर्हसे ।
पराभिघातादश्नाति विभूतिं विबुधो जनः ॥३४७॥
अलक्श्यप्रतिभाद्भेदो मांसं चतुरको यथा ।
करभः शङ्कुकर्णाख्यः क्रोष्टा चतुरकश्च सः ॥३४८॥
साचिव्यं कुशलौ सिंहं वज्रदन्तमुपाश्रितौ ।
ततो युद्धार्दिततनौ कदाचिद्वारणद्विषि ॥३४९॥
वृत्तिच्छेदाच्चतुरकः शङ्कुकर्णमभाषत ।
सखे वक्त्रं कया बुध्द्या स्वामिने किं न दीयते ॥३५०॥
शरीरेणातिपुष्टेन किमनेन प्रयोजनम् ।
एवमस्त्विति तेनोक्तः सिंहमभ्येत्य सोऽवदत् ॥३५१॥
बृहत्प्रस्थाङ्कमानेन शरीरं संप्रयच्छति ।
करभो वः स्वया बुद्ध्या प्रसादः क्रियतां विभो ॥३५२॥
तद्वाक्यादथ शार्दूलः शङ्कुकर्णं विदार्य तम् ।
ययौ स्नानाय धॄत्वास्य द्वितीयं परिचारकम् ॥३५३॥
तमाह क्र्व्यवदनं जम्बुकं चतुरस्ततः ।
भक्षयावो बृहन्मांसमिति श्रुत्वाब्रवीच्चसः ।
तच्छ्रुत्वा चतुरः प्राह तदा मे दृष्टिमर्पय ॥३५४॥
अथ संभक्षिते मासे संप्राप्ते च मृगाधिपे ।
आलुलोके भयाक्रनतः स क्रोष्टा चतुराननम् ॥३५५॥
भक्षयित्वा किमद्यापि वदनं मम वीक्ष्यसे ।
चतुरः प्राह तच्छ्रुत्वा तं जघान मृगेश्वरः ॥३५६॥
अत्रान्तरे महसार्थभ्रष्टं करभकं परम् ।
कटाहवादिनं दृष्ट्वा चतुरः सिंहमब्रवीत् ॥३५७॥
बृहत्प्रस्थं समादाय सोऽयं करभ आगतः ।
धिक्कष्टमन्धकर्णत्वं वनमन्यदितो व्रज ॥३५८॥
तस्मिन्गते यथेष्टं स भक्षयन्वासयन्बहून् ।
प्रमोदमाप दुर्लक्ष्यः स्वार्थसिद्धयै सतां धियः ॥३५९॥
इति चतुराख्यायिका ॥१६॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP