संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
घटाख्यायिका

घटाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गौडेषु देवशर्माख्यो बभूव ब्राह्मणः पुरा ।
स हृष्टो गर्भिणीं जायां निजामवददुत्सुकः ॥५५०॥
भविष्यत्येव पुत्रस्ते मम वंशविवर्धनः ।
इति श्रुत्वाब्रवीज्जाया भाविषु प्रत्ययः कथम् ॥५५१॥
आशां विधाय भावेषु यो हि भावेषु हृष्यति ।
स सज्जेत सक्तुघटं भङ्क्त्वैव स्वयमग्रतः ॥५५२॥
भिक्षार्जितं सक्तुघटं निधाय ब्राह्मणः पुरा ।
अचिन्तयदनावृष्ट्यां तस्य मूल्यं चतुर्गुणम् ॥५५३॥
तन्मूल्ये छागिकाः कृत्वा ताभिः प्राप्स्यामि गोधनम् ।
कृशिं तेन समाधाय परिणेष्यामि कन्यकाम् ॥५५४॥
महाधनस्य पुत्रो मे सोमशर्मा भविष्यति ।
रोदिष्यति सुते तस्मिन्त्सनपानाय तत्क्षणम् ॥५५५॥
ताडयिष्यामि लगुडैर्गृहिणीमतिकोपनः ।
इति भ्रमेण लगुदोत्क्षेपैर्घटमताडयत् ॥५५६॥
भग्नं सक्तुघटं दृष्ट्वा ततो लज्जां समाययौ ।
इत्यासां नैव कुर्वन्ति बुधा भावेषु भाविषु ।
श्रुत्वेति ब्राह्मणिवाक्यं तूष्णीमासीद्द्विजः क्षणम् ॥५५७॥
इति घटाख्यायिका ॥३८॥

N/A

References : N/A
Last Updated : November 02, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP