संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः|
चण्डरवाख्यायिका

चण्डरवाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


कुलक्रमागतत्यागो जन्मापूर्वैश्च संगतिः ।
मौर्ख्याच्चण्डरवस्येव विनाशायैव भूपतेः ॥३१०॥
नगरोपान्तनिलयः पुरा चण्डरवाभिधः ।
जम्बुको वृत्तिलोभेन प्रविवेश पुरान्तरम् ॥३११॥
स रात्रौ श्वगणाक्रान्तः पलयनकृतश्रमः ।
नीलीकरससंपाताद्विचित्रं वर्णमाययौ ॥३१२॥
श्रृगाला दुद्रुवुर्दृष्ट्वा तं स्वजातिविलक्षणम् ।
दर्पान्मोहात्समभ्येत्य व्याघ्रादिष्वधिकोऽभवत् ॥३१३॥
तदुपाहृतमांसाद्यैः पुष्टिविस्मृतदुर्गतिः ।
क्रोष्टुकानां विलोक्यैव कदाचिद्वाचमुद्धताम् ।
प्रतिजग्राह नादेन स्वजातिसदृशेन सः ॥३१४॥
तच्छ्रुत्वैव परिज्ञाय तं लज्जाकुटिलाननाः ।
वञ्चिताः स्म खलेनेति जघ्नुस्तं व्याघ्रचित्रकाः ॥३१५॥
इति चण्डरवाख्यायिका ॥१३॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP