संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| नागशशाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम नागशशाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत नागशशाख्यायिका Translation - भाषांतर उलूकं पक्षिणं राज्ये विहङ्गन्कर्तुमुद्यतान् । दृष्ट्वा वंशकरः काकः पुरा प्रोवाच दुःकितः ॥४४९॥अमङ्गलो दिनान्धश्च यत्रोलूकः क्षितीश्वरः ।का तत्र कुशले वार्ता स्वस्ति गच्छाम्यहं दिशः ॥४५०॥प्रसिद्धो हि महीनाथः कार्यः सर्वसुखावहः । प्रसिद्ध्याशंसिनो नाम अशशकाः सुखभागिनः ॥४५१॥अनावृष्टिहते काले पुरा द्वादशवार्षिके । विज्ञप्तः क्षुत्कृशैर्नागैश्चतुर्दन्ताधिपो द्विपः ॥४५२॥विनष्टा एव कालेऽस्मिन्पयसो विरहाद्वयम् । इत्युक्त्वा द्रष्तुमगमन्नुदकं निखिलां महीम् ॥४५३॥ अत्तश्चन्द्रसरो ज्ञात्वा जलपूर्णं तथा द्विपः । संहृष्टो वातताराश्रुमृणालवलयाकुलम् ॥४५४॥तत्रोपकण्ठे शशकान्गजेन्द्रचरणैर्हतान् ।दृष्ट्वा शशपति(र्दूतं विलयं प्राहिणोद्गजे ॥४५५॥ स कपोलतलालीनमत्तालिवलयं द्विपम् । विसृष्टः शशिनास्मीति जगादाभ्येत्य निर्भयः ॥४५६॥यल्लाञ्छितः) शशाङ्कोऽहं पाल्यास्ते शशका मम । तेषां क्षयमिमं कृत्वा मत्कोपान्न भविष्यसि ॥४५७॥इत्युक्तिचकितस्याथ द्विपस्यादर्शयज्जले । प्रतिमाचन्द्रममलं गजस्तं प्रणनाम च ॥४५८॥ स च चन्द्रसरो दृष्ट्वा करस्पर्शचलज्जलम् । शशवाक्याद्ययौ नागो न््दुः शशकास्ततः ॥४५९॥।इति नागशशाख्यायिका ॥२४॥ N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP