संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ६४ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ६४ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ६४ Translation - भाषांतर ऋषय ऊचु - कथितो भवता सूत विवाहः परमेष्ठिनः ।सेनापत्यं यथा दत्तं श्रुतं सर्वमशेषतः ।भक्तियोगमथेदानीं वद सूत महामते ॥२॥तृप्तिर्नाद्याप्यभूद्यस्माच्छ्रुत्वा चैव पुनः पुनः ।जानासि त्वं भगवतो माहात्म्यं त्रिपुरद्विषः ॥३॥उपासितो यतः सम्यग्भगवान्वादरायणिः ।तत्प्रसादात्त्वया लब्धं ज्ञानं तत्पारमेश्वरम् ॥४॥दुर्लभं सर्वशस्त्रेषु मुनीगां च महात्मनाम् ॥५॥सूत उवाच - यदुक्तं ब्रह्मणा पूर्वं नारदाय महात्मने ।प्रीतेन मनसा तेन तच्छुणुध्वं द्विजोत्तमाः ॥६॥सत्यलोके सुखासीनं ब्रह्माणं तेजसां निधिम् ।रुषिभिर्मुनिभिः सिद्धैर्वेदै साङ्गैरुपासितम् ॥७॥संगीयमानं गन्धर्वैः स्तूयमानं भरुद्गणैः ।दृष्ट्वा प्रणम्य विधिवन्नारदस्तमथाब्रवीत् ॥८॥नारद उवाच - देवदेव जगन्नाथ चतुर्मुख सुरोत्तम ।भक्तियोगस्य माहात्म्यं देवदेवस्य शूलिनः ॥९॥ब्रह्मोवाच - प्रणम्य शंकरं शान्तपप्रमेयमनामयम् ।परं ज्योतिरनाद्यन्तं निर्गुणं तमसः परम् ॥१०॥भक्तियोगं प्रक्ष्यामि शृणु नारद सुब्रत ।भक्तियोगस्य माहात्म्यं यथा शंभोर्मया श्रुतम् ॥११॥भक्तिर्भगवतः शंभोर्दुर्लभा खलु देहिनाम् ।कथंचिद्यदि सा लष्धा तेषा नैवास्ति दुर्लभम् ॥१२॥भक्त्यैव प्राप्यते राज्यमिन्द्रत्वं मत्पदं च यत् ।विष्णुत्वमपि मुक्तिं च नूनं प्राप्नोति नारद ॥१३॥शुभानामशुभानां च कर्मणाम राशिसंचयम् ।करोति भस्मसाद्भभक्तिर्भवस्याग्निर्यथेन्धनम् ॥१४॥म्लेच्छोऽपि वा यदि भवेद्भवभक्तिसमन्वितः ।न तत्समश्चतुर्वेदी नाग्निष्टोमादियज्ञकृत् ॥१५॥अपि पापानि घोराणि सदा कुर्वन्नरो यदि ।लिप्यते नैव पाषैस्तु भक्तो भवति चेच्छिवे ॥१६॥शिवभक्ता महात्मानो मुच्यन्ते त न संशयः ।अपि दुष्कृतकर्माणः प्रसादाच्छूलिनो मुने ॥१७॥सकृत्पूजयते यस्तु भगवन्तमुमापतिम् ।अप्यस्श्वपेधादधिकं फलं भवति नारद ॥१८॥जीवितं चञ्चलं ज्ञात्वा पद्मपत्र इवोदकम् ।मृतेर्दुन्तान्नरकांस्ततः कुर्याच्छिवे मतिम् ॥१९॥शिवे मतिं प्रकुर्वाणः संसारदतिभीषणात् ।मुच्यते मुनिशार्दूल मतिः शर्वेऽतिदुर्लभा ॥२०॥भवव्यालमुखस्थानां भीरूणां देहिनां मुने ।तस्माद्विमोचकस्तेषां महादेव इति श्रुतिः ॥२१॥भक्तिः शिवे यदि भवेन्न कस्मात्कस्यचिद्भयम् ।भवार्णवं तरत्येव प्रसादात्परमेष्ठिनः ॥२२॥स्वर्गार्थिनां मुमुक्षूणां ब्रह्मन्वमपि काङ्क्षिणाम् ।भक्तिरेव विरूपाक्षे नान्यः पन्था इति श्रुतिः ॥२३॥आदिमध्यान्तरहिते पिनाकिनि जगत्पतौ ।सदा मनीषिभिः कार्या भक्तिरेव हि नारद ॥२४॥सर्वमन्यत्परित्यज्य भक्तो भव हरे मुने ।मुक्तो भविष्यसि क्षिप्रं तस्व शंभोरनुग्रहात् ॥२५॥यस्य प्रसादलेशेन ब्रह्मत्वं प्राप्तवानहम् ।विष्णुत्वमपि विष्णुश्च स शिवः कैर्न सेव्यते ॥२६॥शिवे दानं शिवे होमः शिवे स्नानं शिवे जपः ।अक्षयानि फलान्येषामित्याह भगवाञ्शिवः ॥२७॥कुरुक्षेत्रे निवसतां यत्फलं नैमिषे तथा ।प्रयागे च प्रभासे च गङ्गासागरसंगमे ॥२८॥रुद्रकोट्यां गयायां च शालिग्रामेऽमरेश्वरे ।पुष्करे भारभूतेशे गोकर्णे मण्डलेश्वरे ॥२९॥तत्फलं दिवसेनैव भक्त्या भर्गार्चनाद्भवेत् ।नास्ति लिङ्गार्चनात्पुण्यमीधकं भुवनत्रये ॥३०॥लिङ्गेऽर्चितेऽखिलं विश्वमर्चितं स्यान्न संशयः ।मायया मोहितात्मानो न जानन्ति महेश्वरम् ॥३१॥अनुग्रहाद्भगवतो जानन्त्येव हि नारद ।यः पूजितं शिवं दृष्ट्वा प्रणमेद्भक्तिभावतः ॥३२॥पुण्डरीकस्य यज्ञस्य फलं भवति निश्चितम् ।X ( खगघङचछजसंज्ञितष्वादर्शपुस्तकेषु ये पुनरित्यादिर्नारदेत्वन्तः श्लोको नास्ति । )X ये पुनः शान्तमनसः शिवभक्ता जितेन्द्रियाः ॥३३॥मर्त्य [ यम ] स्य वदनं तेऽपि नैव पश्यन्ति नारद ।पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥३४॥शिवलिङ्गे वसन्त्येव तानि सर्वाणि नारद ।तस्मालिङ्गं सदा पूज्यं भक्तिभावेन नित्यशः ॥३५॥स स्नातः सर्वतीर्थेषु सर्वस्मादधिकश्च सः ।यस्तु लिङ्गार्चनं त्यक्त्वा देवानन्यांश्च पूजयेत् ॥३६॥रत्नं विहाय मूढात्मा यथा काचमपेक्षते ।चतुर्दश्यामथाष्टम्यां पौर्णमास्यां तथैव च ॥३७॥आमावास्यां ( यां वा ) त्रयोदश्यां पूजयेदिन्दुशेखरम् ।स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥३८॥शिवलोकमवाप्नोति देहान्ते दुर्लभं मने ।शिवार्चनरतो नित्यं महापातकसंभवैः ॥३९॥दोषैः कृतैर्न लिप्यते पद्मपत्रमिवाम्भसा ।दर्शनाच्छिभक्तानां सकृत्संभाषणादपि ॥४०॥अतिरात्रस्य यज्ञस्य फलं भवति नारद ।ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वाऽन्त्यजजातिजः ॥४१॥शिवभक्तः सदा पूज्मः सर्वावस्थां गतोऽपि वा ।नास्याऽऽचारं परिक्षेत न कुलं न व्रतं तथा ॥४२॥त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद ।कर्मणा मनसा वाचा यस्तु भक्तान्विनिन्दति ॥४३॥निरयान्निष्कृतिर्नास्ति तस्य मूढात्मनो मुने ।शिवभक्तान्वर्जयित्वा सर्वेषां शासको यमः ॥४४॥यः पुनः शिवभक्तानां शिव एव न चापरः ।न शिवाश्रयिणो मौञ्जी न दण्डो न च कुण्डले ॥४५॥नैव काषायवासांसि भक्तिरेवात्र कारणम् ।यदि भक्ताः पशुपतौ पापकर्मसु ये रताः ॥४६॥ यमस्य वदनं तेऽपि नैव पश्यन्ति नारद ।ये पुनः शान्तमनसः शिवभक्ता जितेन्द्रियाः ॥४७॥मर्त्यधर्मं समासाद्य विज्ञेयास्ते गणेश्वराः ।मृतस्य जीवतो वाऽपि शिवभक्तस्य नारद ॥४८॥यमाद्भयं न तस्यास्ति राज्ञश्चैव तु का कथा ।आश्चर्यं कथयिष्यामि शृणु नारद यत्पुरा ॥४९॥उज्जयिन्यां नृपो ह्यासीन्नाम्ना सत्यध्वजो मूने ।धर्मात्मा सत्यसंकल्पः प्रजापालनतत्परः ॥५०॥भुक्त्वा समस्तामवनिं कालेनाथ दिवं गतः ।वसुश्रुत इति ख्यातः पुत्रस्तस्य महात्मनः ॥५१॥महाकालार्चनरतस्तन्निष्ठस्तत्परायणः ।न धर्मेण प्रजाः शास्ति राजधर्मबहिष्कृतः ॥५२॥असाधून्संपरित्यज्य साधून्वै हन्त्यसौ नृपः ।प्रजानां कुशलं नास्ति सर्वत्र परिपन्थिनः ॥५३॥यज्ञांश्च यज्वनां दृष्ट्वा म्लेच्छा विध्वंसयन्ति तान् ।गते वर्षसहस्रे तु राज्ये तस्मिन्वसुश्रुते ॥५४॥मृत्युकालोऽथ संप्राप्तो देहिनामतिभीषणः ।पापिष्ठ इति तं मत्वा संप्राप्ता यमकिंकराः ॥५५॥शिवभक्त इति प्राप्तास्त्रिनेत्रा शूलधारिणः ।शिवदूतैः समानीत विमानं सार्वकामिकम ॥५६॥यमदूतास्त्वतिक्रूराः पाशदण्डासिपानयः ।आहर्तुमुद्यताः सर्वे नृपं तं यमकिंकराः ॥५७॥गणेश्वरास्ततः क्रुद्धा दृष्ट्वा तान्यमकिंकरान् ।त्रिशूलैर्मुद्गरैश्चक्रैर्गदाभिर्मुसलैस्तथा ॥५८॥ताडयित्वा भृशं दूतान्यमशासनपालकान् ।नीतः शिवपुरं दिव्यं पुनरावृत्तिदुर्लभम् ॥५९॥अथ ते किंकराः सर्वे यमं गत्वेदमब्रुवन् ।किंकरा ऊचु - शृणु धर्म यथा वृत्तमीश्वरस्य गणेश्वरैः ॥सर्वानस्मांस्ताडयित्वा नतिः पापो वसुश्रुतः ॥६०॥न यज्ञैर्यजते देवान्न विप्रान्नातिथीनपि ।न धर्मेण प्रजाः पाति कथं शिवपुरं गतः ॥६१॥तत्त्वं धर्म विजानासि धर्मदण्डघरो भवान् ।तस्माद्ब्रवीहि[!] भगवंस्तवाऽऽज्ञाकारिणो वयम् ॥६२॥एवं तेषां वचः श्रुत्वा धर्मराट् सूर्यनन्दनः ।वचः प्रोवाच गम्भीरं किंकरन्प्रति नारद ॥६३॥यम उवाच - देवासुरमनुष्याणां सर्वेषां प्राणिनामपि ।शास्ताऽहं नास्ति संदेहः शिवभक्तमृते किल ॥६४॥माहात्म्यं शिवभक्तानां को वा विन्दति तत्त्वतः ।तेषां नियन्ता भगवान्महादेवो न चापरः ॥६५॥शिवभक्ता महात्मानः सदा शर्वार्चने रताः ।अप्याश्रमाचारहीनांस्त्यजध्वं तान्प्रयत्नतः ॥६६॥वर्णाश्रमाणामाचारा अपि तेन विवर्जिताः ।शंकरे यदि भक्तः स्यान्न शास्यः पूज्य एव हि ॥६७॥भवद्भिः परिहर्तव्याः शिवभक्ताः प्रयत्नतः ।पापकर्मस्वपि रतस्तेषामेनो न विद्यते ॥६८॥बिभेमि शिवभक्तेभ्यः सिंहादिव यथा मृगाः ।श्वेतस्याऽऽहरणे पूर्वमहं देवेन घातितः ॥६९॥ततः प्रभृत्यहं शास्त्रा तद्भक्तानां न किंकराः ।योऽसौ वसुश्रुतो राजा न प्रजाः पालयन्यदि ॥७०॥तथापि शंकरे भक्तो मनोवाक्कायकर्मभिः ।प्रसादात्तस्य देवस्य पापं स्पृशति तं कथम् ॥७१॥सकृत्पश्यति यो देवं महाकालं त्रिलोचनम् ।सर्वपापविनिर्मुक्तो याति शैवं परं पदम् ॥७२॥यः सदाऽर्चयते देवं महाकालं तमीश्वरम् ।गणेश्वरः स मन्तव्यो भवद्भिरिति किंकराः ॥७३॥एवं यमस्य वचनं श्रुत्वा ते ( तु ) यमकिंकराः ।तूष्णीमासाद्य ते सर्वे बभृवुर्विगतज्वराः ॥७४॥तस्मात्पूज्यो महादेवस्तद्भक्तश्च विशेषतः ।भक्तानां पूजनाश्चंभुः प्रीतो भवति नारद ॥७५॥शिवस्य नित्यतृप्तस्य किं नाम क्रियते जनैः ।यत्कृतं शिवभक्तानां तेन प्रीतो भवेच्छिवः ॥७६॥देवान्सर्वान्परित्यज्य भज नारद शंकरम् ॥७७॥३६४०॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे ब्रह्मनारदसंवादादिकथनं नाम चतुःषष्टितमोऽध्यायः ॥६४॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP