TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ७

सौरपुराणं - अध्यायः ७

सौरपुराणं व्यासकृतम् ।

अध्यायः ७
सूत उवाच -
पुनर्जगाम भगवान्कृष्णद्वैपायनः प्रभुः ।
द्रष्टुं दक्षेश्वरं देवं भक्तानां सिद्धिदायकम् ॥१॥
यच्छिवावज्ञया पापं जातं दक्षप्रजापतेः ।
तस्य पापस्य मोक्षाय तस्मिंल्लिङ्गे द्विजोत्तमाः ॥२॥
आराध्य देवदेवेशं बहुन्यब्दशतानि वै ।
तस्य प्रसन्नो भगवान्देवदेवः सहोमया ॥३॥
ददौ माहेश्वरं योगं तस्मै दक्षाय धीमते ।
लब्ध्वा तं परमं योगं तस्मिंल्लिङ्गे लयं गतः ॥४॥
ततः प्रभृति तल्लिङ्गं योगिभिः सेव्यते द्विजाः ।
योगं ददाति सर्वेषां देवो दक्षेश्वरः शिवः ॥५॥
गङ्गायां प्रयतः स्नात्वा दृष्ट्वा दक्षेश्वरं शिवम् ।
प्राप्नोति परमं योगमिति द्वैपायनोऽब्रवीत् ॥६॥
स्नात्वा सत्यवतीसूनुर्गङ्गायां प्रयतो द्विजाः ।
दृष्ट्वा दक्षेश्वरं देवं ययौ पश्चात्त्रिलोचनम् ॥७॥
ऋषय ऊचु -
हेतुना केन दक्षस्य निन्दाऽभूच्छांकरी पुरा ।
कारणं वद तत्सूत श्रोतुं वाञ्छा प्रवर्तते ॥८॥
सूत उवाच -
आसीद्ब्रह्मसुतो दक्षः पुनः प्राचेतसोऽभवत् ।
शप्तो देवेन रुद्रेण क्रोधाच्छंभोरवज्ञया ॥९॥
वैरं निधाय मनसि शंभुना सह सुव्रताः ।
दक्षः प्राचेतसो यज्ञमकरोज्जाह्नवीतटे ॥१०॥
तस्मिन्यज्ञे सणहूताइन्द्राद्या देवतागणाः ।
ऋषयो मुनयः सिद्धा राजानः प्रथिताजसः ॥११॥
ब्रह्मा च विष्णुना सार्धमाहूतस्तेन धीमता ।
देवान्सर्वांश्च भागार्थमाहूतान्पद्मसंभवः ॥१२॥
दृष्ट्वा शिवेन रहितान्दक्षं प्रत्येवमब्रवीत् ।
ब्रह्मोवाच -
अहो दक्ष महामूढ दुर्बुद्धे किं कृतं त्वया ।
देवाः सर्वे समाहूताः शंकरेण विना कथम् ॥१३॥
अन्तर्यामी स विश्वेशः सर्वेषामेव देहिनाम् ।
भोक्ता स सर्वयज्ञानां शंकरः परमार्थतः ॥१४॥
एते च मुनयः सर्वे तव साहाय्यकारिणः ।
न जानन्ति परं भावं महादेवस्य शूलिन ॥१५॥
एते च देवाः शक्राद्या आगता यज्ञभागिनः ।
तन्मायामोहिताः सर्वे न जानन्ति पिनाकिनम् ॥१६॥
यस्य पादरजःस्पर्शाद्ब्रह्मत्वं प्रपतवानहम् ।
शार्ङ्गिणाऽपि सदा मूर्ध्ना धार्यते कः शिवात्परः ॥१७॥
यस्य वामाङ्गजो विष्णुर्दक्षिणाङ्गाद्भवाम्यहम् ।
यस्याऽऽज्ञयाऽखिलं विश्वं सूर्यो भ्रमति सर्वदा ॥१८॥
चन्द्रश्च तारकाश्चैव ग्रहाश्च भुवनानि च ।
धर्माधर्मव्यवस्था च वर्णाश्चैवाऽऽश्रमाणि च ॥१९॥
तिष्ठन्ति शासनात्तस्य देवदेवस्य शूलिनः ।
सा च शक्तिः परा गौरी स्वेच्छाविग्रहचारिणी ॥२०॥
तव पुत्रीति दुर्बुद्धे मन्यसे तमसाऽऽवृतः ।
कस्तां जानाति विश्वेशीमीश्वरार्धशरीरिणीम् ॥२१॥
अहं नाद्यापि जानामि चक्री शक्रस्य का कथा ।
स्वेच्छाविग्रहरूपिण्या गौर्या सह पिनाकघृत् ॥२२॥
भ्रामयत्यखिलं विश्वमिति सत्यं न संशयः ।
स एव बध्नाति पशूनस्मदादीन्महेश्वरः ॥२३॥
स एव मोचको देवः पशूनां न इति श्रुतिः ।
नामसंकीर्तनाद्यस्य भिद्यते पापपञ्जरम् ॥२४॥
कथं न पूज्यते देवस्त्वया दक्ष सुदुर्भते ।
शंभोरवज्ञा यत्राऽऽस्ते स्थातव्यं नैव सूरिभिः ॥२५॥
इत्युक्त्वा प्रययौ ब्रह्मा स्तूयमानो महर्षिभिः ॥२६॥
सूत उवाच -
गते चतुर्मुखे देवे सर्वलोकपितामहे ।
दधीचिरब्रवीद्दक्षं मुनीनामग्रणीः स्वयम् ॥२७॥
दधीचिरुवाच -
कथं देवाधिदेवेशः कर्मसाक्षी सनातनः ।
विश्वेश्वरो महादेवस्त्वया दक्ष न पूज्यते ॥२८॥
वाचकः प्रणवो यस्य ज्ञानमूर्तेरुमापतेः ।
अनुग्रहं विना तस्य कथं जानाति शूलिनम् ॥२९॥
एक एवेति यो रुद्रः सर्वदेवेषु गीयते ।
तस्य प्रसादलेशेन मुक्तिर्भवति किंकरी ॥३०॥
प्रसङ्गात्कौतुकाल्लोभाद्भयादज्ञानतोऽपि वा ।
हर इत्युच्चरन्मर्त्यः सर्वपापैः प्रमुच्यते ॥३१॥
अहो दक्ष तवाज्ञानं तव नाशस्य कारणम् ।
केनापि हेतुना जातमिति मे भाति निश्चितम् ॥३२॥
एवं दधीचेर्वचनं श्रुत्वा दक्षो विचक्षणः ।
दधीचिमब्रवीद्विप्राः शक्रादीनां च संनिधौ ॥३३॥
दक्ष उवाच -
नाहं नारायणाद्देवात्पश्याम्यन्यं द्विजोत्तम ।
कारणं सर्ववस्तूनां नास्तीत्येव सुनिश्चितम् ॥३४॥
दधीचिरुवाच -
उमया सह यो देवः सोम इच्युच्यते बुधैः ।
स एव कारणं नान्यो विष्णोरपि हि वै श्रुतिः ॥३५॥
तस्माद्यः सर्वदेवानामधिकश्चन्द्रशेखरः ।
इज्यते सर्वयज्ञेषु कथं दक्ष न पूज्यते ॥३६॥
यज्ञस्य पालको विष्णुरिति यन्निश्चितं त्वया ।
भविष्यत्यन्यथैवाऽऽशु पश्यतः कमलापतेः ।३७॥
एते च ब्राह्मणाः सर्वे ये द्विषन्ति महेश्वरम् ।
भवन्तु वेदबाह्यास्ते तमोपहतचेतसः ॥३८॥
षाषण्डाचारनिरताः सर्वे निरयगामिनः ।
कलौ युगे तु संप्रपते दरिद्राः शूद्रयाजकाः ॥३९॥
सर्वस्मादधिको रुद्रः पशुपाशविमोचकः ।
पराड्मुखस्तु युष्माकं मा भूदिज्याकरी गतिः ॥४०॥
इति शुप्त्वा ययो विप्रौ दधीचिर्मुनिपुङ्गवः ।
स्वाश्रमं मुनिभिर्जुष्टमोंकारं नर्मदातटे ॥४१॥
एतस्मिन्नन्तरे गौरी परव्योमात्मिका शिवा ।
दक्षयज्ञस्य वृत्तान्तं श्रुत्वा देवऋषेर्मुखात् ॥४२॥
प्राह विश्वाधिकं रुद्रं प्रणतार्तिप्रभञ्जनम् ।
निरीक्ष्यमाणं देवेशी परानन्दैकविग्रहम् ॥४३॥
श्रीदेव्युवाच -
योऽयं प्राचेतसो दक्षः पिता मे पूर्वजन्मनि ।
आवामवज्ञान कथं यज्ञं कर्तुं प्रचक्रमे ॥४४॥
देवाः सर्वे समाहूता विष्णुना सह शंकर ।
आदित्या वसवो रुद्राः साध्याश्चैव मरुद्गणाः ॥४५॥
ऋषयो मुनयः सिद्धा दैतेया दानवाश्च ये ।
राजानश्च महाभागा गन्धर्वाः किंनरास्तथा ॥४६॥
अवज्ञाकारिणस्तस्य यज्ञ शीघ्रं विनाशय ।
तेन मे जायते प्रीतिरंतुला भक्तवत्सल ॥४७॥
एवं देव्या वचः श्रुत्वा देवदेवः पिनाकधृत् ।
असृजत्तत्क्षणाच्छंभुर्वीरभद्रं महाबलम् ॥४८॥
सहस्रसिंहवदनं प्रलयाग्निसमप्रभम् ।
सहस्रबाहुं जटिलं दुष्टानां च भयंकरम् ॥४९॥
भक्तानां वरदं देवं सूर्यसोमाग्निलोचनम् ।
उमाकोपोद्भवा देवी भद्रकाली भयंकरी ॥५०॥
अन्याश्च देव्यो रुद्राश्च शतशो रोमसंभवाः ।
भद्रकाल्या सह तदा वीरभद्रो महाबलः ॥५१॥
प्रहितो देवदेवेन दक्षयज्ञजिघांसया ।
गत्वा स यज्ञं दक्षस्य भस्मसादकरोद्द्विजाः ॥५२॥
दक्षस्तदद्भुतं कर्म दृष्ट्वाऽथ भयविह्वलः ।
गतस्तच्छरणं शीघ्रं वीरभद्रस्य शूलिनः ॥५३॥
उवाच वीरभद्रस्तं दक्ष प्राचेतसं द्विजाः ।
तस्य पापविमोक्षाय कारुण्यामृतवारिधिः ॥५४॥
वीरभद्र उवाच - गच्छ वाराणसीं दक्ष सर्वपापप्रणाशिनीम् ।
अनुग्रहार्थ लोकानां यत्र तिष्ठति शंकरः ॥५५॥
अनुग्रहाद्भगवतो देवदेवस्य शूलिनः ।
अनेनैव शरीरेण तत्र मोक्षं गमिष्यसि ॥५६॥
सूत उवाच -
वीरभद्रस्य वचनं श्रुत्वा दक्षो महामतिः ।
गत्वा वाराणसीं शीघ्र सर्वसङ्गविवर्जितः ॥५७॥
प्रतिष्ठाप्प्र महालिङ्गं गङ्गातिरे मनोरमे ।
आराध्य परया भक्त्या तस्मिंल्लिङ्गे लयं गतः ॥५८॥
दक्षेश्वरस्य महात्म्यं कथितं मुनिपुङ्गवाः ।
त्रिलोचनस्य माहात्म्यं सांप्रतं वर्ण्यते मया ॥५९॥३०९॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे दक्षेश्वरमाहात्म्यादिकथनं नाम सप्तमोऽध्यायः ॥७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T03:47:55.8770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बखातर

  • क्रि.वि. समाधानासाठीं ; मनाच्या खातरी करितां . ब - दील - खातर हज्रतीचे एवढ्यावर ठराव झाला . - र ५ . ३१ . [ फा . ] 
RANDOM WORD

Did you know?

गुरूंचे प्रकार किती? अधिक स्पष्ट करावे?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.