संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ३८ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ३८ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ३८ Translation - भाषांतर सूत उवाच - चतुर्ष्वपि च वेदेषु पुराणेषु च सर्वशः ।श्रीमहेशात्परो देवो न समानोऽस्ति कश्चन ॥१॥ब्रह्मा विष्णुर्बलारातिः सर्वे यस्य वशे स्थिताः ।उत्पत्तिः सर्वदेवानां स एव ध्येय उच्यते ॥२॥नास्ति शंभोः परो धर्मो नास्त्यर्थः शंकरात्परः ।शिवादन्यत्सुखं नास्ति मोक्षोनैव हरात्परः ॥३॥यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥४॥स्रष्टृत्वं ब्रह्मणो येन ध्येयत्वं येन शाङ्गिंणः ।विष्णुत्वं येन शक्रस्य तस्मादन्यः परो न हि ॥५॥ऋषय ऊचु - केचिल्लोका महेशानं त्यक्त्वा केशवकिंकराः ।तत्र किं कारणं सूत वद संशयनामक ॥६॥अन्तकाले स्मरन्त्येव प्रायेण गरुडध्वजम् ।विद्यमाने झिवे विष्णोः प्रभौ श्रीपार्वतीपतौ ॥७॥सूत उवाच - यदा यदा प्रसन्नोऽभूद्भक्तिभावेन धृर्जटिः ।विष्णुनाऽऽराधितो भक्त्या तदाऽसौ दत्तवान्वरात् ॥८॥त्वत्तः परं प्रभुं नैव प्रायेण ज्ञास्यति स्फुटम् ।विरलाः केचिदेत्तद्वै निष्ठां वेत्स्यन्ति तत्त्वतः ॥९॥हेतुना तेन विप्रेन्द्राः शिवं जानन्ति केचन ।मायेण विष्णुनामानि गृणन्ति वरदानतः ॥१०॥विष्णोः स्मरणमात्रेण सर्वपापक्षयो भवेत् ।शंभुप्रसाद एवैष नास्ति कार्या विचारणा ॥११॥यः शंभुं तत्त्वतो वेत्ति स तु नारायणः स्वयम् ।यस्तु नारायणं वेत्ति स शक्रो विबुधेश्वरः ॥१२॥य इन्द्रं वेत्ति देवेशं लोकपालो जलाधिपः ।एवं सर्वाल्लोकपालाञ्जानाति स इहामरः ॥१३॥देवाञ्जानाति यष्टव्यान्स ऋषिर्वेदवित्स्वयम् ।ऋषीन्यो वेत्ति सम्यक्त्वात्स एव ब्राह्मणोत्तमः ॥१४॥सर्वदेवमयं विप्रं यो जानाति स वेदवित् ।रहस्यं वेत्ति वेदस्य स एव हरवल्लभः ॥१५॥जन्मादिकारणं शंभुं विष्णुं ब्रह्मादिपूर्वजम् ।न जानन्ति महामूर्खा विष्णुमायाविमोहिताः ॥१६॥आसीत्प्रतर्दनो नाम राजा परमधार्मिकः ।सप्तद्वीपपति पृथ्वीप्रभुरेकः प्रतापवान् ॥१७॥शूरः पुण्यमतिर्भोगी दाता वेदार्थपालकः ।रक्षिता सर्वसेतूनां ब्रह्मण्यो ब्राह्मणप्रियः ॥१८॥तस्य राज्ये सदा देवा गृह्णन्ति हविरुत्तमम् ।न पाषण्डी न वा बौद्धस्तस्य राज्बेऽभवञ्जनः ॥१९॥कदाचित्स पुरीं त्यक्त्वा क्रीडार्थं निर्गतो बहिः ।तदा ददर्श क्षपणं राजा विस्मयमागतः ॥२०॥पृष्टः कस्त्वं कुतो यातः किं कार्यं च तवेप्सितम् ।कुत्र यास्यसि तत्सर्वं किंजातीयो भवान्वद ॥२१॥क्षपणक उवाच - राजन्वणिगहं शान्तो यतिः शीलव्रते स्थितः ।मदीयाञ्चलसंलग्नाः सन्त्यत्र वणिजः परे ॥२२॥राजोवाच - को धर्मः किं नु तत्र त्वं ज्ञायते केन वक्ति कः ।अयं पन्थाः कथं प्राप्तः कस्मान्न प्रकटो भवान् ॥२३॥क्षपणक उवाच - अहिंसा परम ओधर्मस्तत्तत्त्वं यत्तनोर्दमः ।बुध्यते बौद्धजैनाभ्यां वक्ता तस्य जिनो मतः ॥२४॥वेदवेदांङ्गवेत्तारो याज्ञिका वैष्णवा द्विजाः ।माहेश्वरा महापूज्या न व्यक्तोऽहं भयान्नृप ॥२५॥सूत उवाच - ततो राजा परां चिन्तां प्राप्तो दुःखितमानसः ।धिग्राज्यं मम दुर्बुद्धेर्वेदबाह्योऽस्ति मत्पुरे ॥२६॥एतं हन्मि यदा पापं तदेतन्मानिनी प्रजा ।कथायिष्यति शान्तात्मा हतो राज्ञा कुबुद्धिना ॥२७॥एतस्मिन्नहते किं स्याद्भवन्ति बहवस्तथा ।दयाशब्दं पुरस्कृत्य हृधर्मो विचरिष्यति ॥२८॥वेदबाह्याः प्रजा राज्ञा शासितुं नैव शक्यते ।तदा तत्पापभागी स्यादित्याह भगवान्मनुः ॥२९॥सूत उवाच - त्यक्त्वा राज्यं तपस्तेपे ततो राजा प्रतर्दनः ।सावित्रीं मनसा ध्यात्वा नित्यमेकाग्रमानसः ॥३०॥ततः कतिपयाहोभिर्ब्रह्मा प्रत्यक्षतां गतः ।महता तपसा तुष्ट इदं वचनमब्रवीत् ॥३१॥ब्रह्मोवाच - पुत्र प्राप्तोऽस्मि संतोषं वरं वरय सुव्रत ।कथं त्वं खिद्यसे चित्ते राज्यं त्यक्तं कुतस्त्वया ॥३२॥राजोवाच - वेदाः प्रमाणं वक्त्त्येव जानात्येव च यत्प्रजा ।शङ्कामात्रं भवेन्नैव वेदप्रामाण्यगोचरम् ॥३३॥इति याचे वरं देव किमन्येन वरेण मे ।याचे निष्कण्टकं राज्यं सप्तद्वीपावनीपतिः ॥३४॥सूत उवाच - एवमस्त्विति संप्रोच्य ब्रह्माऽन्तर्धानमाययौ ।प्रतर्दनोऽपि राजर्षिः संतुष्टः पृथिवीपतिः ॥३५॥ततः प्रभृति तद्राज्ये सर्वो धर्मो व्यवस्थितः ।वेदवेदाङ्गवेत्तारो ब्राह्मणाः शंसितव्रताः ॥३६॥अग्निहोत्राणि यज्ञाश्च यतयो ब्रह्मचारिणः ।शैवा नानाविधाः पुण्या वैष्णवाः शुभलक्षणाः ॥३७॥तस्य राज्ये महापुण्ये न पाषण्डी न हैतुकी ।वर्णाश्रमाचारवतां क्रियाः सर्वास्तदाऽभवन् ॥३८॥उत्सवा विष्णुभक्तानां शिवपूजा गृहे गृहे ।सर्वे देवान्यानयन्ति न कंचिद्द्वेष्टि मानवः ॥३९॥तर्कवेदान्तमीमांसाव्याख्यानानि गृहे गृहे ।वेदनिर्घोषवद्राज्यं यज्ञस्तम्भाः स्थले स्थले ॥४०॥अनेकभोगसंयुक्ता हृष्टाः पुष्टाः स्त्रियः सतीः ।रक्षन्ति पतयः पुण्या यथा वृद्धपुरस्कृताः ॥४१॥सूत उवाच - एवं वहुतिये काले गते ये दैत्यदानवाः ।पापिष्ठा हीनकर्माणो म्लेच्छास्तेऽपि दिवं गताः ॥४२॥येषां तु संततिः शुद्धं वेदमार्गं हि मन्यते ।ते सर्वे नरकान्मुक्त्वा प्राप्ता एवामरावतीम् ॥४३॥सर्वत्र तुलसीवृन्दं सर्वत्र हरिपूजनम् ।बिल्वदलैस्तु सर्वत्र पूज्यते गिरिजापतिः ॥४४॥कथं तेषां तु पितरो नरके निवसन्ति हि ।तस्मिन्राज्ये समागत्य किं कुर्युर्यमकिंकराः ॥४५॥सूत उवाच - शृनुध्वमृययः सर्वे यदासीत्परमाद्भुतम् ।स्वर्गगामिषु सर्वेषु व्यापाररहिते यमे ॥४६॥पूजिताः सर्वलोकेषु सर्वे देवा वभूविरे ।तदाऽसौ धर्मराड्गत्वा शक्रलोकं महामनाः ॥४७॥उवाच सर्वदेवानां पुरतः प्राञ्जलिः स्थितः ।यम उवाच - चतुरशीतिलक्षणां जीवानां या स्थितिः सदा ॥४८॥तां नष्टामधुना वेद्मि यदि देवः प्रमाणवान् ।यस्यां कीटादियोनौ यः स्थितो जीवोऽतिपापवान् ॥४९॥नरके संयमिन्यां वा तत्पुत्रेण स उद्धृतः ।श्राद्धदेवार्चनादीनि करोति श्रुतिनिश्चयः ॥५०॥इन्द्र उवाच - अस्माकं हीनजीवानां को विशेषो यदा श्रुतिः ।प्रमाणयति तत्त्वेन वयं देवा यदाज्ञया ॥५१॥पुरोहित तव प्रज्ञा शोभना प्रतिभाति मे ।पूर्वं चार्वाकवौद्धादिमार्गाः संदर्शितास्त्वया ॥५२॥तेन मार्गेण विभ्रान्ता वेदमार्गबहिष्कृताः ।दैत्याश्च दानवाश्चैव तथा कुरु द्विजोत्तम ॥५३॥गुरुरुवाच - न चार्वाको न वै बौद्धो न जैनो यवनोऽपि वा ।कापालिकः कौलिको वा तस्मिन्राज्ये विशेत्क्कचित् ॥५४॥वेदाः प्रमाणमित्येव मन्यमाना प्रजा शुभा ।कथं सा चाल्यते तात न शक्यं हि शुभाऽधुना ॥५५॥विधिदत्तवरस्याहमुच्छेत्तुं शक्तिमान्कथम् ।इन्द्रादय ऊचु - दैत्यानां दानवानां च दुर्दर्शानां भवो यदा ॥५६॥तदा शुक्रः स्वयं तेषां कृपया सोद्यमो भवेत् ।तस्मात्त्वं विप्रशार्दूल कस्मादस्मानुपेक्षसे ॥५७॥असाध्यं तव किं मान्य वयं त्वच्छरणं गताः ।अस्माकं दुर्जनाः सर्वे वेदकर्मरताः कृताः ॥५८॥तेषां व्यामोहनाप त्वं कुरु यत्नं कृपानिधे ।देवानां रक्षसां चैव दैत्यानां पापकर्मणाम् ॥५९॥सूत उवाच - एवं ब्रुवत्सु देवेषु बृहस्पतिरुदारधीः ।उपायं चिन्तयामास सृष्टेः संरक्षणाय च ॥६०॥गुरुरुवाच - शृण्वन्तु त्रिदशाः सर्वे ममोपायं वदाम्यहम् ।देवः कश्चिद्यदि भवेत्कपटी वैष्णवः स्वयम् ॥६१॥शङ्खचक्राङ्किततनुस्तुलसीकाष्ठभूषितः ।ऊर्ध्वपुण्ड्रं च बिभ्राणो हरिनामाक्षरं जपन् ॥६२॥देवतामात्रनिन्दी च अकृत्वा मतिमीश्वरे ।शिवद्वेष्टा महापापप्रेरकः शिवनिन्दकः ॥६३॥दम्भेन यदि तद्राज्ये शिवनिन्दा कृता भवेत् ।तदा तत्पूर्वजाः सर्वे नरकं यान्ति दारुणम् ॥६४॥ततो देवेषु सर्वेषु न कश्चिदवदत्तथा ।कथयन्ति स्म चान्योन्यं नैतत्कर्मास्ति सुन्दरम् ॥६५॥कश्चण्डलः शिवं ब्रूयात्साधारण्येन विष्णुना ।यस्य प्रसादाद्वैकुण्ठः प्राप्तवानीदृशं पदम ॥६६॥सूत उवाच - ततः किंनरमाहूय प्रोवाचेदं शचीपतिः ।याहि किंनर मायावी भूत्वा त्वं वैष्णवो भुवम् ॥६७॥तत्र गत्वा जनान्सर्वान्ब्रूहि कोऽस्ति शिवो महान् ।एक एव महाविष्णुर्नान्यो ध्येयः कथंचन ॥६८॥पूर्वं प्रच्छन्नरूपेण स्थित्वा मार्गं प्रदर्शय ।शनैः शनैर्जना एवं भविष्यन्ति च हैतुकाः ॥६९॥वेदः प्रमाणमित्येव वदितव्यं त्वया सदा ।परं त्वेको महाविष्णुः शिवस्तस्य च किंकरः ॥७०॥सूत उवाच - प्रेरितोऽसौ बलात्तेन भीतोऽगच्छच्छनैः शनैः ।दाम्भिकं रूपमास्थाय यथा साधुं वदेज्जनः ॥७१॥सर्ववैष्णवचिह्नानि धृत्वा भ्राम्यति तत्पुरे ।शिष्यान्करोति तान्पूर्वं वदेन्मान्यो न शंकरः ॥७२॥क्कचिद्वदति न ध्येयो न मुख्य इति च क्कचित् ।क्कचिदुत्कृष्टजीवोऽयं क्कचिच्छ्रीविष्णुकिंकरः ॥७३॥इति नानाविधा बुद्धिर्नराणां भेदिता यदा ।तदा शिष्यैः परिवृतो राजगेहं विशत्यपि ॥७४॥चालितो राजलोकोऽपि विरुद्धं नैव दृश्यते ।विष्णुभक्तो महाञ्शान्तो वेदवेदाङ्गपारवान् ॥७५॥उपायनान्यनेकानि हयांश्च स्यन्दनान्वसु ।लोकाः सर्वे ददत्येव गुप्तं पापं न दृश्यते ॥७६॥सूत उवाच - एकस्मिन्समये विप्रा एकादश्यामुपोषिताः ।जनाः प्रातश्चक्रपाणिं नमस्कर्तुं गताः शुभाः ॥७७॥तत्रोपविष्टः शिष्यैः स्वैर्वृतः स्वीयेन तेजसा ।न कंचिन्मन्यते विप्रं यो भस्माङ्कितभालवान् ॥७८॥एतस्मिन्नन्तरे राजा प्राप्तवाञ्श्रीप्रतर्दनः ।वृतो बहुविधैर्विप्रैः कुशहस्तैः शुचिव्रतैः ॥७९॥त्रिपुण्ड्रधारिणः केचिदूर्ध्वपुण्ड्रधरास्तथा ।पठन्तः शिवसूक्तानि विष्णुसूक्तानि चापरे ॥८०॥एतैर्बहुविधैर्विप्रैर्वृतो राजोपविश्य सः ।उवाच वचनं युक्तं कोमलाक्षरसंयुतम् ॥८१॥स्वामिन्नागतवान्साक्षाद्भगवान्हरिपार्षदः ।वेदं पठसि विष्णोश्च भक्तस्तद्वेषधार्यषि ॥८२॥वैष्णवाभास उवाच - वेद एव परं श्रेयो वेदार्थादविकं न हि । प्रमाणं वेद एवैको विष्णुवाक्श्रुतिरेव च ॥८३॥राजन्वेदार्थविज्ञाने बहवो मोहिता जनाः ।शिवपूजारताः सन्तो नानादैवतपूजकाः ॥८४॥एको विष्णुर्न द्वितीयो ध्येयः किं त्वितरैः सुरैः ।क्रूरं च क्रूरकर्माणं शंकरं मन्यते कथम् ॥८५॥त्वदीया ब्राह्मणा एते ऊर्ध्वपुण्ड्राङ्किताः शुभाः ।तान्दृष्ट्वा प्रीतिरत्यर्थं जायते नृषसत्तम ॥८६॥एते त्रिपुण्ड्रमाला ये कररुद्राक्षमालिनः । पठन्तः शिवसूक्तानि दृष्ट्वा वज्रं पतोद्दिवः ॥८७॥दर्भस्योपग्रहः कोऽयं किं वा भस्माङ्गधारणम् ।रुद्राक्षा का च को रुद्रः कानि सूक्तानि तस्य च ॥८८॥विष्णुरेकः परो ध्येयो नान्यो देवः कदाचन ।तदीयायुधचिह्नानि पूज्यो वै वैष्णवः सदा ॥८९॥राजोवाच - अनादिना प्रमाणेन वेदेन प्रोच्यते शिवः ।विष्णोरप्यधिको विप्र संपूज्यो न कथं भवेत् ॥९०॥शिवादिषु पुराणेषु प्रोच्यते शंकरो महान् ।सर्वासु स्मृतिषु ब्रह्मञ्शिवाचारेषु सर्वतः ॥९१॥नानागमेषु पुण्येशु प्रोच्यते ह्यज ईश्वरः ।कठोरं वाक्यमेतत्ते भाति चेतसि मेऽशनिः ॥९२॥वैष्णवाभास उवाच - नैकाभ्रमनसस्ते तु येऽर्चयन्तीह धूर्जटिम् ।श्मशानवासी दिग्वासा ब्रह्ममस्तकधृग्भवः ॥९३॥सर्पहारः कथं सेब्यो विषधारी जटाधरः ।तस्माद्विष्णुः सदा सेव्यः सुन्दरः कमलापतिः ॥९४॥राजोवाच - नानारूपाणि रुद्रस्य के जानन्ति नराधमाः ।त्वं वैष्णव इवाऽऽभाति वेदार्थं नैव वेत्सि रे ॥९५॥सूत उवाच - चिन्तयित्वा ततो राजा विदुषो ब्राह्मणोत्तमान् ।आहूय निर्णयं चास्य करिष्यामीति तत्त्वतः ॥९६॥१८२०॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवमहिमादिकथनं नामाष्टात्रिंशोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP