TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३०

सौरपुराणं - अध्यायः ३०

सौरपुराणं व्यासकृतम् ।


अध्यायः ३०
सूत उवाच -
हिरण्यकशिपोः पुत्रः प्रह्लादो दैत्यसत्तमः ।
अन्धके निहते दैत्ये तत्र राज्यं स्थितः स्वयम् ॥१॥
कृत्वा स सुचिरं कालं राज्यं परमधार्मिकः ।
राज्ये विस्क्तो मतिमाञ्शमादिगुणसंयुतः ॥२॥
राज्ये मतिमतां श्रेष्ठो ह्यभिषिच्य विरोचनम् ।
तपोवनं गतः सोऽथ वासुदेवपरायणः ॥३॥
विरोवनश्च निहतो देवदेवेन चक्रिणा ।
बलिस्तस्याभवत्पुत्रो दैत्यो धर्मपरायणः ॥४॥
बद्ध्वा नीतः स पातालं देवदेवेन चक्रिणा
बाणासुरस्तस्य सुतो भक्तो विश्वेश्वरे शिवे ॥५॥
दत्तं भगवता तस्मै गाणपत्यमनुत्तमम् ।
तारश्च शम्बरश्चैव कपिलः शंकरस्तथा ॥६॥
स्वर्भानुर्वृषपर्वा च बाणस्यैते सुता द्विजाः ।
कश्यपात्सुरसा जज्ञे खेचरान्मुनिपुंगवाः ॥७॥
अनन्ताद्याः काद्रवेया बलिनो बलवत्तराः ।
गन्धर्वाञ्जनयामास तथाऽरिष्टा तु कश्यपात् ॥८॥
विनता जनयामास विख्यातौ गरुडारुणौ ।
पश्वादीन्स्थावरान्तांश्च तथाऽन्यान्सुषुवुर्द्विजाः ॥९॥
स्थावराञ्जङ्गमांश्चैव समुत्पाद्याथ कश्यपः ।
पुनः संतानवृद्ध्यर्थं तताप परमं तपः ॥१०॥
तपःप्रभावात्संभूतौ वत्सरश्चासितः सुतौ ।
नैध्रुवोल वत्सराज्जातो रैम्यश्चैव महामतिः ॥११॥
सुमेधा सुषेवे पुत्रान्नैध्रुवान्कुण्डषायिनः ।
असितादेकपर्णायां समभूद्देवलो मुनिः ॥१२॥
आराध्यदेवलं शंभुं परां सिद्धिमवात्पवान् ।
शाण्डिल्यो देवलाज्जात एतेऽपत्यास्तु काश्यपाः ॥१३॥
तृणबिद्नुस्तु राजर्षिः कन्यामिलविलाभिधाम् ।
पलस्त्याय ददौ तस्यां विश्रवाः समजायत ॥१४॥
पुष्पोत्कटा तथा वाका कैकसी देववर्णिनी ।
चतस्रः पत्नयस्तस्य पौलस्त्यस्य महात्मनः ॥१५॥
कुबेरो देववर्णिन्यां कैकस्यां रावणस्तथा ।
कुम्भकर्णः शूर्पणखा तथैव च बिभीषणः ॥१६॥
पुष्पोत्कटायामभवंस्त्रयः पुत्राश्च कन्यकाः ।
महोदरः प्रहस्तश्च महापार्श्वस्तथाऽपरः ॥१७॥
तथा कुम्भनखी कन्या तस्य विश्ववतो द्विजाः ।
त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः ॥१८॥
वाकायामभवन्पुत्रा राक्षसाः क्रूरकर्मिणः ।
भूता मृगाः पिशाचाश्च सर्वे वै दंष्ट्रिणस्तथा ॥१९॥
पौलस्त्या इति ते सर्वेव मरीचेः कश्यपः सतः ।
भृगोः सकाशादभवच्छुक्रो दैत्यगुरुर्महान् ॥२०॥
प्राप्ता संजीविनी विद्या येन शुक्रेण धीमता ।
महादेवं समाराध्य पुरा बदरिकाश्रमे ॥२१॥
जरामरणनिर्मुक्तो वज्रकायो महामुनिः ।
योगाचार्य इति ख्यातः प्रसादाद्गिरिजापतेः ॥२२॥
अनसूया तु सुषुवे क्रमात्पुत्रत्रमं द्विजाः ।
दत्तात्रेयं चन्द्रमसं तथा दुर्वाससं मुनिम् ॥२३॥
आत्रेया इति ते ख्याता निरपत्यस्तथा क्रतुः ।
वसिष्ठाय ददौ कन्यां नारदो मुनिपुंगवाः ॥२४॥
अरुन्धतीमरुन्धत्यां शक्तिर्नाम बभूव ह ।
शक्तेः पराशरस्त्स्मात्कृष्णद्वैपायनो मुनिः ॥२५॥
द्वैपायनाच्छुको जज्ञे पञ्च पुत्राः शुकस्य ते ।
भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥२६॥
कन्या कीर्तिमती नाम वंशा एते प्रकीर्तिताः ।
कश्यपाददितिर्लेभे भास्करं तेजसा‍ऽधिकम् ॥२७॥
संज्ञा राज्ञी प्रभा छाया भानोर्भार्याः स्मृतास्त्विमाः ।
सूते सूर्यान्मनुं संज्ञा यस्य वंशेऽभवन्नृपाः ॥२८॥
यमं च यमुनां चैव राज्ञी रेवन्तमेव च ।
प्रभा प्रभातमादित्याच्छाया सावर्णिमेव च ॥२९॥
शनिं च तपती चैव विष्टिं चैव यथाक्रपम् ।
इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ॥३०॥
नरिष्यत्नश्च नाभागो हृरिष्टः करुषस्तथा ।
वृषध्वजो महातेजा नव वैवस्वताः समाः ॥३१॥
इला ज्येष्ठा वरिष्ठा च कन्या एतास्त्रयः ) ? ) स्मृताः ।
इक्ष्वाकोश्चाभवत्पुत्रो विकुक्षिरिति विश्रुतः ॥३२॥
तस्य पुत्रशतं त्वासीत्कुकुत्स्थो ज्येष्ठ ईरितः ।
तस्मात्सुयोधनो जज्ञे पृथुस्तस्य सुतोऽ‍भवत् ॥३३॥
विश्वकस्तस्य पुत्रोऽभूद्दमकस्तस्य वै सुतः ।
तस्माच्छर्यातिरभवद्युवनाश्वश्च तत्सुतः ॥३४॥
श्रावस्तिस्तस्य पुत्रोऽभूच्छ्रावस्ती येन निर्मिता ।
तस्मात्कुवलयः ख्यातो धुन्धुमारिस्ततोऽभवत् ॥३५॥
धुन्धुमारेस्त्रयः पुत्रा दृढाश्वाद्या महौजसः ।
दृढाश्चस्य च दायादो हरिश्चन्द्रस्ततोऽभवत् ॥३६॥
रोहितस्तस्य पुत्रोऽभूद्रोहितस्यापि तत्सुतः ।
धुन्धुस्तदहूत्पुत्रो धुन्धोः पुत्रौ बभूबतुः ॥३७॥
सुदेवो विजयश्चैव कुरुको विजयात्स्मृतः ।
वकोऽथ कुरुकाज्जज्ञे तस्माब्दाहुरभूत्सुतः ॥३८॥
सगरस्तस्य पुत्रोऽभूत्पात्रैस्तस्यांशुमान्स्मृतः ।
तस्य पुत्रो दिलीपस्तु तस्माज्जज्ञे भगीरथः ॥३९॥
प्रीतोऽभूत्तषसा शंभुर्ददौ वरमनुत्तम् ।
गङ्गां बभार शिरसा रक्षार्थं जगतां हरः ॥४०॥
दशायुतानां वर्षाणि द्विसहस्त्र शतद्वयम्
महादेवाद्वरं लब्ध्वा राज्यं कृत्वा भगीरथः ॥४१॥
विरक्तो राज्यभोगेभ्यो विश्वं मत्वेन्द्रजालवत् ।
जाबालं समनुप्राष्य यत्तज्ज्ञसनं शिवात्मकम् ॥४२॥
मुनेरनुग्रहाल्लब्ध्वा परां सिद्धिं गतो नृप्रः ।
श्रुतस्तस्याभवत्पुत्रो नाभागस्तत्सुतोऽभवत् ॥४३॥
सिन्धुद्वीपस्ततो जज्ञे अयुतायुस्ततोऽभवत् ।
ऋतुपर्णस्तु तत्पुत्रः सुधामा तत्सुतोऽभवत् ॥४४॥
यस्मै दत्तं भगवता गाणपत्यमनुत्तमम् ।
कल्माषपादस्तत्पुत्रः क्षेत्रजस्तत्सुतोऽ‍श्मकः ॥४५॥
ऋषेर्वसिष्ठाद्विप्रेन्द्रान्नकुलस्तत्सतोऽभवत् ।
नकुलस्याभवत्पुत्रो नाम्ना शतरथो नृपः ॥४६॥
अभूदिलविलस्तस्माद्वृद्धशर्मा ततोऽभवत् ।
तस्माद्विश्वसहो नाम खट्वाङ्गस्तत्सुतोऽभवत् ॥४७॥
दीर्घबाहुस्ततो९ जज्ञे रघुस्तस्याभवत्सुतः ।
रघोरजस्तु विख्यातो राजा दशरथस्ततः ॥४८॥
तस्य पुत्राश्च चत्वारो धर्मज्ञा लोकविश्रुताः ।
रामोऽथ भरतश्चैव तृतीयो लक्श्मणः स्मृतः ॥४९॥
चतुर्थश्चैव शत्रुघ्नो रामो नारायणः स्वयम् ।
धर्मज्ञः सत्यसंकल्पो महादेवपरायणः ॥५०॥
सीता तस्याभवद्भार्था पार्वत्यशसमुद्भवा ।
जनकेन पुरा गौरी तपसा तोषिता यतः ॥५१॥
जनकाय ददौ शंभुः प्रीतो धनुरनुत्तमम् ।
तद्धनुर्भुञ्जयामास जनकस्य गृहे स्थितम् ॥५२॥
दृष्ट्वा पराक्रमं तस्य रामस्य गुणशालिनः ।
जनकः प्रददौ तस्मै सीतां ब्रह्मविदां वरः ॥५३॥
पित्रा कृतोऽभिषेकार्थं रामो राज्यस्य वै यदा ।
वारयामास कैकेयी तदा राज्ञः प्रिया वधूः ॥५४॥
राजंस्त्वया वरो दत्तः पूर्वमेव यतः प्रभो ।
राजानं मत्सुतं तस्माद्भरतं कर्तुमहांसि ॥५५॥
इति तस्या वचः श्रुत्वा राज्ये तमभिषिच्य सः ।
प्रेषयामास तं रामं वनं प्रति सलक्ष्मणम् ॥५६॥
वनं गत्वा निवसतो भार्यां दृष्ट्वाऽथ राक्षसः ।
रावणो नाम पौलस्त्यो नीत्वा लङ्कां पुनर्ययौ ॥५७॥
अदृष्ट्वा तां ततः सीतां दुःखितौ रामलक्ष्मणौ ।
सख्यं वानरराजेन गत्वा दाशरथी द्विजाः ॥५८॥
सुग्रीवस्य सखा वीरो हनुमान्नाम वानरः ।
गत्वाऽथ रावणपुरीमपश्यज्जनकात्मजाम् ॥५९॥
अश्रुपूर्णेक्षणां सीतामिन्दीवरनिभाननाम् ।
विश्वासार्द्यं ददौ तस्यै रामस्यैवाङ्गुलीयकम् ॥६०॥
दृष्टा‍ऽङ्गुलीयकं सीता प्रहृष्टा च तदाऽभवत् ।
समाश्वास्य ततः सीतां प्रययौ राघवान्तिकम् ॥६१॥
रागस्तमागतं दृष्ट्वा प्रहर्षोत्फुल्ललोचनः ।
श्रुत्वा तद्वचनाद्वृत्तं युद्धाय कृतनिश्चयः ॥६२॥
सेतुं कृत्वाऽथ रक्षोभिर्युद्धं कृत्वा महामनाः ।
निहत्य रावणं रामो भ्रातृभिः सह सुव्रतः ॥६३॥
आनयामास तां सीतामशोकवनमध्यगाम् ।
प्रतिष्ठाप्य महादेवं सेतुमध्येऽथ राघवः ॥६४॥
लब्धवान्परमां भक्तिं शिवे शिवपराक्रमः ।
रामेश्वर इति ख्यातो महादेवः पिनाकधृक् ॥६५॥
तस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ।
अभिषिक्तस्ततो राज्ये रामो राजीवलोचनः ॥६६॥
पालयन्पृथिवीं सर्वां धर्मेण मुनिपुंगवः ।
अयजद्देवदेवेशमश्वमेधेन शंकरम् ॥६७॥
तस्य प्रसादात्स्वपदं प्राप्तवानथ राघवः ।
एवं संक्षेपतः प्रोक्तं रामस्य चरितं मया ॥६८॥
इदं विस्तरतो विप्राः प्रोक्तं वाल्मीकिना पुनः ।
कुशश्चैको लवश्चान्यः पुत्रौ रामस्य सुव्रतौ ॥६९॥
सत्यसन्धौ महावीर्यौ महादेवपरायणौ ।
अतिथिश्च कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् ॥
नलस्तस्याभवत्पुत्रो नभस्तस्याभवत्सुतः ॥७०॥
ततश्चन्द्रावलोकश्च तारापीडस्ततोऽभवत् ।
ततश्चन्द्रगिरिर्नाम भानुजित्तत्सुतोऽभवत् ॥७१॥
एते सर्वे नृपाः प्रोक्ता इक्ष्वाकुकुलसंभवाः ।
धर्मात्मानो महासत्त्वाः कीर्तिमन्तो दृढव्रताः ॥७२॥
इमं यः पटते नित्यमिक्ष्वाकोर्वंशमुत्तमम् ।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते ॥७३॥१३५६॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे प्रह्लादराज्यारोहणादीक्ष्वाकुकुलसंभवनृपमालिकान्तकथनं नाम त्रिंशोऽध्यायः ॥३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:49:00.1430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

enthymeme

  • लुप्तावयविका 
RANDOM WORD

Did you know?

सत्यनारायण पूजेला धर्मशास्त्रीय आधार आहे काय? हे व्रत किती पुरातन आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.