TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३९

सौरपुराणं - अध्यायः ३९

सौरपुराणं व्यासकृतम् ।


अध्यायः ३९
सूत उवाच -
गृहं गत्वा स्थिरो भूत्वा यावदाह्वयते द्विजान् ।
तावदेव कलिः पापो ब्राह्मणेषु विवेश ह ॥१॥
कश्चिद्राजानमाश्रित्य ब्रूते तादृशमेव हि ।
अन्योन्यामर्षयोगेण स्रण्डयन्ति परस्परम् ॥२॥
मूकीभावाश्रिताः केचित्केचिद्यथार्थवादिनः ।
यो यथा वक्ति तत्तादृगित्थं केचिदथोचिरे ॥३॥
इति कोलाहले वृत्ते राजचेतसि निर्णये ।
जाते लोके नास्तिकतां बहवः प्रतिपेदिरे ॥४॥
राजा वेत्ति महामूर्खं न तु मायाविनं द्विजम् ।
लोके तु भ्रान्तिमापन्ने राजा चिन्तापरोऽभवत् ॥५॥
ईश्वरं हन्ति दुष्टात्मा वध्योऽयं मम शास्त्रतः ।
परं तु लोके ब्रह्मघ्नं मिथ्या मां तु वदिष्यति ॥६॥
सूत उवाच -
एतस्मिन्समये प्राप्ते लोकपूर्वपितामहाः ।
स्वर्गाभ्द्रष्टा ह्यनेकानि नरकाणि प्रपेदिरे ॥७॥
येषां पुत्राश्च पौत्राश्च प्रतिपौत्रास्तथाऽपरे ।
मातामहादिवर्गाश्च सखिसंबन्धिबान्धवाः ॥८॥
शिवावगणनोद्भूतपातका यमलोकगाः ।
सुकृतं भस्मता यातं मद्याद्गङ्गोदकं यथा ॥९॥
एतस्मिन्नेव काले तु कमलाहृदयंगमः ।
सुप्त आक्रन्दमकरोच्छोणितौवपरिप्लुतः ॥१०॥
लक्ष्मीर्दृष्ट्वाऽथ तद्रूपं विह्वलं भयविह्वला ।
प्राप्ताऽऽश्चर्यं महाघोरं रुरोद भृशदुःखिता ॥११॥
लक्ष्मीउवाच -
वेदान्तवेद्य पुरुषेश्वर देवदेव
त्रैलोक्यनाथ किमिदं त्वयि दृश्यतेऽद्य ।
आकारमात्ररहितः पुरुषः पुराण -
स्त्वय्येव विश्वमिह रज्जुभुजंगमात्रम् ॥१२॥
शैलाः पतन्ति जलधिर्मरुतामुपैति
सूर्यादयो हतरुचः पृथिवी पराणुः
भूतानि चाच्युत विभो विलयं प्रयान्ति
त्वद्रोममात्रमपि नैव चलेत्क्षणार्धम् ॥१३॥
श्रीनारायण उवाच -
उक्तं त्वया तदपि लक्ष्मी तथैव किंतु मत्स्वामिनोऽवगणना न हि शक्यते मे ।
कृत्वाऽपि पूज्यतममूर्तिमिमं गिरीशं
नो मन्यते तदिह वज्रसमं ममैव ॥१४॥
लक्ष्मीरुवाच -
सर्वात्मा सर्ववित्कर्ता वक्ता धर्ताऽव्ययः प्रभुः ।
त्वं साक्षी सर्वलोकानां त्वत्तः परतरोऽस्ति कः ॥१५॥
श्रीनारायण उवाच -
अस्ति सर्वं वरारोहे मयि तत्तथ्यमेव हि ।
श्रीमहेशवराल्लब्धं मदीयं न हि किंचन ॥१६॥
एकः सृजति भूतानि मत्समानि कियन्त्यपि ।
तत्तत्त्वं वेदम्यहं देवि मदीयाः केचनापरे ॥१७॥
वेदवेदाङ्गवेत्तृणां सहस्राण्यग्रजन्मनाम् ।
हननान्मुच्यते जीवो न तु श्रीशिवहेलनात् ॥१८॥
गुर्वङ्गनागमनकृत्सदा मद्यनिषेवकः ।
ब्राह्मणस्वर्णहारी च कदाचिन्मुच्यते जनः ॥१९॥
स्त्रीघ्नो गोध्नो नृपध्नश्च तथा विश्वासघातकः ।
कृतघ्नो नास्तिको लुब्धः कदाचिन्मुच्यते जनः ॥२०॥
न तु श्रीरुद्रसामान्यदर्शी मुच्येत बन्धनात् ।
विरञ्चिविष्णु शक्रेभ्यः सर्वोत्क्रुष्टं न जायते ॥२१॥
विष्नुना यदि वा तुल्यं मुच्यन्ते नैव जन्तवः ।
स्वामी मदीयः श्रीकण्ठस्तस्य दासोऽत्मि सर्वदा ॥२२॥
लक्ष्मीरुवाच -
गच्छामस्तत्र वैकुण्ठ यत्र स्वाम्यस्ति ते विभो ।
कैलासपर्वते रम्ये प्रणमामः सदाशिवम् ॥२३॥
सूत उवाच -
ततस्तौ गरुडारूढौ गत्वा कैलासपर्वतम् ।
नानाविधैः स्तोत्रपदैः संतुष्टं चक्रतुः क्षणात् ॥२४॥
ततो ब्रह्मादयो देवाः सिद्धास्तत्राऽऽगता गिरौ ।
रुद्रः कौतूहलप्रेप्सुः सर्वैस्तैः परिवारितः ॥२५॥
भवानी सहितस्तत्र गतो यत्र प्रतर्दनः ।
सर्वदेवविमानानां मध्ये तिष्ठति शंकरः ॥२६॥
श्रीमहेश उवाच -
कथयन्तु कथं ह्येते मिलिताः सर्वनिर्जराः ।
किं कार्यं किमपूर्वं वा राजा चिन्तातुरः कथम् ॥२७॥
देवा ऊचु -
स्वामिन्प्रतर्दनो राजा विधिलब्धवरोऽभवत् ।
वेदमार्गप्रवक्ता च स्वयं तस्य प्रवर्तकः ॥२८॥
स्रुष्टिरक्षार्थमस्माभिः कपटं कृतमीश्वर ।
सर्वधातुश्च भवतो हेलनं कारितं सुरैः ॥२९॥
तत्क्षमस्व महादेव किंनरोऽयं प्रवर्तितः ।
कल्पितो वैष्णवोऽस्माभिस्तव निन्दापरायणः ॥३०॥
सूत उवाच -
एतस्मिन्नेव काले तु राजा वृत्तान्तमेथिवान् ।
तीव्रं खङ्गं समादाय हतवान्किंनरं क्रुधा ॥३१॥
तत्पक्षपातिनो ये च तेषां शीर्षाणि कंधरात् ।
पृथक्कृतानि पश्वाद्या हता अश्वा अनेकशः ॥३२॥
न तं वारयते कश्चिद्राजानं पुण्यचेतसम् ।
महादेवेन शमितः क्रोधस्तस्य महात्मनः ॥३३॥
ततः कोलाहले शान्ते नन्दी कौतुकपूर्वकम् ।
युयोज हयशीर्षे तच्छरीराणि पृथक्पृथक् ॥३४॥
शीर्षाणि हयगानैश्च सम्यक्संयोज्य बुद्धिमान् ।
उवाच वचनं तथ्यं देवसंसदि शुद्धगीः ॥३५॥
येन वक्त्रेण गिरिशो हेलितस्तन्मुखं हयः ।
मुद्राधारणगर्बेण हेलितस्तत्तनुर्हयः ॥३६॥
* ( जसंज्ञितपुस्तक एव ब्रह्मोवाचेति पदद्वय विद्यते । )
* ब्रह्मोवाच -
गतं तदधुना तथ्यं राजर्षौ राज्यकर्तरि ।
भविष्यं कथयिष्यामि तच्छृणुध्वं समाहिताः ॥३७॥
घोरे कलियुगे प्राप्ते म्लेर्ध्छैर्व्याप्ते भुवस्वले ।
सर्वाचारपरिभ्रष्टा भविष्यन्ति नराधमाः ॥३८॥
तवाऽऽन्ध्रीदेशमध्ये तु दाक्षिणात्यो भविष्यति ।
ब्राह्मणो दुर्भगः कश्चिद्विधवाब्राह्मणीरतः ॥३९॥
तस्य पापिष्ठविप्रस्य व्यभिचारात्सुतोऽनघः ।
भविष्यति गुणान्वेषी दैवादध्ययनोत्सुकः ॥४०॥
पद्मपादुकमाचार्यं वरं वेदान्तवादिनम् ।
अद्वैतागमबोद्धारं प्रणम्य प्रार्थयिष्यति ॥४१॥
विप्रोऽहं मधुशर्माऽस्मि स्वामिन्नां पाठय प्रभो ।
वेदान्तशास्त्रसर्वं च मह्यं पाठय भो गुरो ॥४२॥
आचार्यः करुणामूर्तिर्विनयेत परिप्लुतम् ।
करिष्यति च शिष्याणामग्रण्यं प्रेमवत्सलः ॥४३॥
ततो दिने दिने भक्तिं करिष्यति यथा यथा ।
गुरुर्भवति संतुष्टः सर्वां विद्यां प्रयच्छति ॥४४॥
* ( छसंज्ञितपुस्तकेऽयं श्लोको नास्ति । )
* एकदा गुरुणा दृष्टः स्नानसंध्यादिकाः क्रियाः ।
अकृत्वा भोजनप्रेप्सुर्भविष्यति निराह्निकः ॥४५॥
पृष्टोऽसौ गुरुणा तथ्यं गोलको हि वदिष्यति ।
धर्मः साधारनो नाथ कृतोऽ‍यं केन कुप्यसि ॥४६॥
ततो वक्षत्यथाऽऽचार्यः कस्ते तातः प्रसूश्च का ।
ततो मे ब्राह्मणः स्वामिन्ब्राह्मणी च प्रसूर्मम ॥४७॥
वद मातामहः कस्ते येन प्राप्ता प्रसूस्तव ।
को विधिः कुत्र वा दत्ता तथ्यं शीघ्रं वदान्यथा ॥४८॥
भस्मसात्त्वां करिष्यामि हीनं ब्राह्मणवर्चसा ।
इत्येवं कथिते सर्वं कथयिष्यति तत्त्वतः ॥४९॥
शापं दास्यत्यथाऽऽचार्यः सिद्धान्तो मा स्फुरत्वलम् ।
सिद्धान्ते जडतां तेऽस्तु परमद्वैतदर्शने ॥५०॥
कथं त्वदीया सेवा मे निष्फला स्याद्वद प्रभो ।
इत्यादिबहुनिर्वेदं यदा त्वेष करिप्यति ॥५१॥
+ ( घङचसंज्ञितपुस्तकेषु पश्चादिर्‍यादि संभविष्यतीत्यन्तं सार्धश्लोकद्वयं नास्ति । )
+ पश्चाद्गदिष्यति स्वामी पूर्वपक्षोऽस्तु ते दृढः ।
सिद्धान्ते सर्वथैवाऽऽन्ध्यं मम वाक्यं न चान्यथा ॥५२॥
मधुना तेन शास्त्राणां पूर्वपक्षो विलोकितः ।
भविष्यति च वेदान्तमन्यथा कर्तुमुद्यतः ॥५३॥
यथा यथा कलेर्देवाः प्रचारः संभविष्यति ।
तथा तथाऽयमुन्मार्गः शिवद्वेष्टुभंविष्यति  ॥५४॥
पूर्वं तु द्राविडाद्देशात्कर्णाटकतिलङ्गयोः ।
शनैर्गोदावरीतीरे प्रसृतोऽयं भविष्यति ॥५५॥
पूर्णे कलियुगे प्राप्त आर्यावर्ते चलिष्यति ।
मायावादमसच्छास्त्रं वदिष्यन्ति नराधमाः ॥५६॥
तेषां दर्शनमात्रेण सचैलं स्नानमाचरेत् ।
भद्रात्वं च यथा विष्टे राहोः स्वर्भानुता यथा ॥५७॥
हरित्वं च यथाऽनेके तथैते तत्त्ववादिनः ।
योगनिद्रापरा नित्यमग्निहोत्रस्य निन्दकाः ॥५८॥
वेदान्तसममित्याहुः पुराणानि च ये नराः ।
केवलं वेषमात्रेण नरा नरकगामिनः ॥५९॥
संभाषणे कृते येषां पतेच्च ब्रह्मवर्चसः ।
वरं बौद्धस्तथा जैनः कापालिकमतोऽपि वा ॥६०॥
व्यक्तं वदति वेदानामप्रामाण्यं तु तैः किमु ।
वेदप्रामाण्यवत्कृत्वाऽभिमानी न च वैदिकः ॥६१॥
ईश्वरं वचनाद्वक्ति परं चानीश्वरः खलः ।
सूत उवाच -
एवं जाते ततः सर्वे यथागतमिता गताः ।
प्रतर्दनोऽपि राजर्षिः कृत्वा राज्यमकण्टकम् ॥६२॥
देहान्ते मुक्तिमापन्नः परामद्वैतलक्षणाम् ।
ततः परं भविष्यन्ति तस्य शिष्या अनेकशः ॥६३॥
संन्यासिवेषमात्रेण कुर्वाणा जीविकां निजाम् ।
राजसेवां प्रकुर्वाणाः प्रच्छन्नाः कौलिका अपि ॥६४॥
अगम्यागमने सक्ता अभक्ष्यस्य च भक्षणे ।
अपेयनिरताः केचिन्नानाभोगसमाकुलाः ॥६५॥
यानारूढाः सदा राजसेवायां तत्परा अपि ।
अद्वैतनिन्दानिरताः प्रच्छन्नग्रन्थगौरवाः ॥६६॥
अन्यदर्शनसिद्धान्तं नैव जानन्ति तत्त्वतः ।
तत्र दोषस्य बुद्ध्या वै पठिष्यति कलौ युगे ॥६७॥
अन्यदैवतनामानि यदि हेयानि तत्कथम् ।
वेदं पठन्ति पापिष्ठाः कथं तर्कं वदन्ति हि ॥६८॥
मीमांसाशास्त्रसद्ग्रन्थानालोक्य च पुनः पुनः ।
पूर्वपक्षं च सर्वेषां ग्रहीष्यन्ति समत्सराः ॥६९॥
स्वकीयं न वदिष्यन्ति यतो नास्ति प्रभाकरम् ।
हंसान्परमहंसांश्च निन्दिष्यन्ति च जारजाः ॥७०॥
जातमात्रं नरं कंचिन्मुण्डयित्वा मठाधिपम् ।
काषायवस्त्रमात्रेण करिष्यन्ति नराधमाः ॥७१॥
माठापत्यं च सेवा च धनसंग्रह एव च ।
दासीगयनमीर्ष्या च पञ्चधा तत्त्ववादिनः ॥७२॥
संसारस्तत्त्वमित्येव परं ते तत्त्ववादिनः ।
मायाविलसितं विश्वमिति मायैकवादिनः ॥७३॥
शुद्धं तत्त्वं न जानीन्त विश्वं तत्त्वं वदन्ति च ।
शब्दमात्रेण ते जाताः कलौ हा तत्त्ववादिनः ॥७४॥
भविष्यति यदा विप्राः पापानां प्रभवः कलौ ।
तथा तथा भविष्यन्ति ह्युदीच्यां दभ्भवैष्णवाः ॥७५॥
शिवसामान्यवक्तारं शिवसामान्यदर्शिनम् ।
दृष्ट्वा स्नायात्सचैलः सञ्शिवसामान्यसङ्गिनम् ॥७६॥
मधुदर्शितमार्गेण पापिष्ठा वैष्णवाः कलौ ।
भविष्यन्ति ततो म्लेच्छाः शूद्रा यूथबहिष्कृताः ॥७७॥
तस्माच्छृणुध्वं विप्रेन्द्रा माहात्न्यं पार्वतीपतेः ।
भक्तिं तस्य सदा कर्तुमुद्यता भवत ध्रुवम् ॥७८॥१८९८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे कलिप्रवेशादिकथनं नामोनचत्वारिंशोऽ‍ध्यायः ॥३९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:55:48.2700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

take out probate

  • संप्रमाण मिळवणे 
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.