संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ५२ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ५२ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ५२ Translation - भाषांतर सूत उवाच -प्रायश्चित्तं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ।सर्वेषामेव वर्णानां शुद्धिमाहं यथा रविः ॥१॥द्विविधं पापमित्युक्तं प्रकटं गुप्तमेव च ।प्रकटं प्रकटेनैव रहस्येन तथेतरत् ॥२॥वेदशास्त्रार्थविद्वांसो धर्मशास्त्रार्थपारगाः ।कामक्रोधविनिर्मुक्ताः शान्तात्मानो जितोन्द्रियाः ॥३॥समाः शत्रौ च मित्रे च हिंसालोभविवर्जिताः ।एकविंशतिसंख्याकाः सप्त पञ्च त्रयोऽथ वा ॥४॥यं ब्रुयुरुक्तसंख्याकाः स धर्मः स्यादिति श्रुतिः ।ब्रह्महा मद्यपः स्तेयी गुरुतल्पग एव च ॥५॥महापातकिनश्चैते यश्च तैः सह संवसेत् ।यस्तु संवत्सरं त्वेभिः पतितैः सह संवसेत् ॥६॥यानशय्यासर्नैर्नित्यं जानन्वै पतितो भवेत् ।ब्रह्महा द्वादशाब्दानि नियतात्मा वने वसेत् ॥७॥भिक्षाहारेण सततं धृत्वा शवशिरोध्वजम् ।एककालं चरेद्भैक्षं दोषं विख्यापयन्नृणाम् ॥८॥पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ।अकामस्य स्मृता शुद्धिः कामतो मरणान्तिकी ॥९॥ज्वलन्तं प्रविशेदग्निं भृगोः पतनमेव च ।कुर्यादनशनं वाऽपि ब्राह्मणार्थे त्यजेदसून् ॥१०॥गुर्वर्थे वा त्यजेत्प्राणान्ब्रह्महत्यां व्यपोहति ।गत्वा वाराणसीं वाऽपि कालात्तत्र त्यजेदसून् ॥११॥सर्वपापविनिर्मुक्तो याति शैवं परं पदम् ।सुरापस्तु सुरां तप्तामग्निवर्णां पिबेत्ततः ॥१२॥शुद्धो भवति निर्दग्धस्तद्वर्णं वा पयः पिबेत् ।गोमूत्रं वा घृतं वाऽपि तत्पापान्मुच्यते द्विजः ॥१३॥ब्रह्महत्याव्रतं चापि चरेत्तत्पापशान्तये ।अभिगम्य तु राजानं सुवर्णस्तेयवान्द्विजाः ॥१४॥स्वकर्म ख्यापयन्ब्रूयात्तं मां हन्तुमिहार्हसि ।गृहीत्वा मुशलं राजा सकृद्धन्यात्तु तं स्वयम् ॥१५॥वधे तु मुच्यते तेन कृच्छ्रैर्वा विविधैर्द्विजाः ।* ( घङजसंज्ञिपुस्तकेष्विदं श्लोकार्धं नास्ति । ) * अवगूहेत्स्त्रियं तप्तामायसीं गुरुतल्पगः ॥१६॥यस्य यस्य च संपर्कात्तत्संयोगी भवेद्द्विजाः ।तस्य तस्य व्रतं कुर्यात्तत्तत्पापापनुत्तये ॥१७॥स्नात्वाऽश्वमेधावभृथे सर्वे पातकिनो द्विजाः ।शुध्येरंस्तत्क्षआण्देव रविरित्यब्रवीत्स्वयम् ॥१८॥= ( डसंज्ञितपुस्तकेऽयं श्लोको नास्ति । ) = मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।भागिनेयीं समारुह्म कुर्यात्कृच्छ्रातिकृच्छ्रकौ ॥१९॥चान्द्रायणं वा कुर्वीत तस्य पापापनुत्तये ।भ्रातृभार्यां भागिनेयीं गत्वा पापापनुत्तये ॥२०॥चान्द्रायणानि चत्वारि पञ्च वा कथितानि वै ।मातुलस्य सुतां गत्वा सखिभार्यां तथैव च ॥२१॥अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत् ।उदक्यागमने चैव त्रिरात्रेण विशुध्यति ॥२२॥ब्राह्मणो ब्राह्मणीं गत्वा कृच्छूमेकं समाचरेत् ।कन्यकागमने चैव चरेच्चान्द्रायणव्रतम् ॥२३॥रेतः सिक्त्वा जले यस्तु कृच्छ्रं सांतपनं चरेत् ।वेश्याया गमने चैव प्राजापत्यं चमाचरेत् ॥२४॥नान्यासां निष्कृतिर्दृष्टा शास्त्रेषु परमर्षिभिः ।संवत्सरस्य चाभ्यासाद्गुरुतल्पव्रतं स्मृतम् ॥२५॥यदि तत्र प्रजोत्पत्तिर्निष्कृतिर्न विधीयते ।शूद्रा भवति चेदूढा ब्राह्मणस्य यदा तदा ॥२६॥न तस्या गमने पापं प्रजोत्पत्तौ तथैव च ।रण्ढाया गमने चैव चरेत्सांतपनं व्रतम् ॥२७॥संवत्सरेण भवति गुरुतल्पसमो हि सः ।नटीं शैलूषिकीं चैव रजकीं वेणुजीवनीम् ॥२८॥गत्वा चान्द्रायणं कुर्यात्तथा चर्मोपजीवनीम् ।दीक्षिवं क्षत्त्रिमं हत्वा चरेद्ब्रह्महणो व्रतम् ॥२९॥अदीक्षितस्य हनने षडब्दं कृच्छ्रमाचरेत् ।वैश्य तु कामसो हत्वा त्र्यब्दकृच्छ्रं समाचरेत् ॥३०॥निहत्य ब्राह्मणीं विप्रस्त्वद्रवर्षं व्रतं चरेत् ।वर्षषट्कं तु राजन्यां वैश्यां संवत्सरत्रयम् ॥३१॥वत्सरेण विशुद्धः स्याच्छ्रद्रस्त्रीवध एव च ।वेश्यां हत्वा प्रमादेन किंचिद्दानमिहोचितम् ॥३२॥मर्कटं नकुलं काकं वराहं मूवकं तथा ।मार्जारं वाऽथ गण्डूकं श्वानं वै कुक्कुटं खरम् ॥३३॥ पादकृच्छ्रं चरेद्धत्वा कृच्छ्रमश्ववधे स्मृतम् ।तप्तकृच्छ्रं हरितवधे पाराकं गोवधे स्मृतम् ॥३४॥कामतो गोवधे नैव शुद्धिर्दृष्टा मनीषिभिः ।भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ॥३५॥पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ।तृणकाष्ठद्रुमाणां च शुष्कान्नस्यगुडस्यच ॥३६॥चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ।हंसं कारण्डवं चैत्र चक्रवाकं च टिट्टिभम् ॥३७॥शुकं च सारसं चैव उलूकं च कपोतकम् ।चावं च शिशुमारं च बलाकां च बकं तथा ॥३८॥जग्ध्वा चैतान्द्विजः कुर्याद्द्वादशाहमभोजगम् ।नालिकां तण्डुलीयं च जग्ध्वा कृच्छ्रं समाचरेत् ॥३९॥X ( कजसंज्ञितपुस्तकयोरेपु श्लोको न विद्यते । ) X कामतोदुम्बरं जग्ध्वा तप्तकृच्छ्रं समाचरेत् ।अलाबुं किंशुकं जग्ध्वा प्राजापत्यं समाचरेत् ॥४०॥यानि क्षीराण्यपेयानि तेषां पानाद्व्रतं त्विदम् ।गोमूत्रयावकाहारो मासेनैकेन शुध्यति ॥४१॥असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ।प्राजापत्यं चरेत्सम्यग्रेतोविण्मूत्रभक्षणे ॥४२॥विड्वराहखरोष्ट्राणां गोमायोः कषिकाकयोः ।एतेषां भक्षणे चैव द्विजश्चान्द्रायणं चरेत् ॥४३॥ब्राह्मणो ब्राह्मणोच्छिष्टं भुक्त्वा कृच्छ्रं समाचरेत् ।क्षत्त्रिये तत्पकृच्छ्रं स्याद्वैश्ये चैवातिकृच्छ्रकम् ॥४४॥शूद्रोच्छिष्टं द्विजो भुक्त्वा चरेच्चान्द्रायणव्रतम् । सुराभाण्डोदकं पीत्वा चरेच्चान्द्रायणव्रतम् ॥४५॥महापातकिनं स्पृष्ट्वा वेदविक्रयिणं तथा ।रजस्वलां च चाण्डालीमज्ञात्वा यदि भोजयेत् ॥४६॥त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ।तैलाभ्यक्तो द्विजो यस्तु कुर्यान्मूत्रपुरीषके ॥४७॥अहोरात्रेण शुद्धिः स्याच्छ्मश्रुकर्मणि मैथुने ।खरयानं समारुह्य तथा चैवोष्ट्रयानकम् ॥४८॥नग्नो यस्तु विशेदापस्त्रिरात्रेण विशुध्यति ।पापानामधिकं पापं देवतानां च निन्दनम् ॥४९॥मोहाद्वै कुरुते यस्तु कृच्छ्रं चान्द्रायणं चरेत् ।सकृद्यः करुते निन्दां शिवस्य परमेष्ठिनः ॥५०॥तस्य शुद्धिर्न दृष्टाऽस्ति पुराणे मुनिभिः कृता ।कुर्याद्यदि गुरुः शुद्धिं कारुण्यात्परमेष्ठिनः ॥५१॥चान्द्रायणत्रयं ब्रूयान्नान्यथा शुद्धिरिष्यते ।शृणोति गुरुनिन्द्रां यस्तस्य चान्द्रायणत्रयम् ॥५२॥एकासनं चोपविशेद्गुरुणा सह मूढधीः ।प्रायश्चित्तं न तस्यास्ति पापं गुरुतरं हि तत् ॥५३॥प्रायश्चित्तमपीच्छन्ति केचिदज्ञानतः कृते ।कुर्यात्सांतपनं चैव चान्द्रायणचतुष्टयम् ॥५४॥योऽयं शुद्धिविधिः प्रोक्तो गुरोरङ्गीकृतेप्सया ।वाग्दत्तस्याप्रदानेन ब्रह्महत्यासमं भवेत् ॥५५॥प्रायश्चित्तं न तस्यास्ति दत्तैर्ग्रामशतैरपि ।शिवद्रव्यापहरणं गुरोरप्यणुमात्रकम् ॥५६॥कृत्सनं च तथा शंभोर्गुरोरपि तथैव च ।तथा च शिवभक्तानां ज्ञानस्य च विदूषणम् ॥५७॥गिरिजायाश्च विष्णोश्च स्कन्दस्येभमुख्यस्य च ।योगिनां च तथा निन्दा निन्दिनोऽपि तथा द्विजाः ॥५८॥पापन्येतानि सर्वाणि ब्रह्महत्यासमानि वै ।तस्मान्न निन्देदेतांस्तु कर्मणा मनसा गिरा ॥५९॥यदीच्छेच्छाश्वतं स्थानमिति देवोऽब्रवीद्रविः ।प्रायश्चित्तस्य सर्वस्य पश्चात्तापो हि कारणम् ॥६०॥न तेन रहितं पापं गच्छतीति हि निश्चितम् ।प्रायश्चित्ते कृते पश्चात्तस्मिन्पाषे प्रवर्तते ॥६१॥कृतं त्वकृतमेव स्यात्तत्पापं पूर्ववत्स्थितम् ।स्थूलानि यानि पापानि सूक्ष्माणि विविधान्यपि ॥६२॥तानि नाशयति क्षिप्रं मुहूर्तं शिवचिन्तनम् ।सर्वपापापनोदार्थं प्रायश्चित्तं वदाम्यहम् ॥६३॥समाहितो जले मग्नः शिवं ध्यायन्प्रसन्नधीः ।अष्टकृत्वो हर इति जपन्पापैः प्रमुच्यते ॥६४॥कार्तिक्यां शुक्लपक्षस्य या सा पुण्या चतुर्दशी ।तस्यां संपूज्य देवेशं देवदेवमुपापतिम् ॥६५॥जप्त्वाऽथर्वशिरो यस्तु ब्रह्महत्यां व्यपोहति ।तस्यामेव नवम्यां च भगवन्तमुपापतिम् ॥६६॥उद्दिश्य दद्याद्यत्किंचित्सर्वपापैः प्रमुच्यते ।पौर्णमास्याममावास्यां ग्रहणे चन्द्रसूर्ययोः ॥६७॥पञ्चामृतैः सुसंस्नाप्य लिङ्गमूर्तिधरं हरम् ।पूजयित्वा विधानेन सर्वपापैः प्रमुच्यते ॥६८॥मन्दवारयुता पुण्या शुक्लपक्षे त्रयोदशी ।तस्यामुपोष्य विधिना संपूज्य गिरिजापतिम् ॥६९॥ब्रह्महत्यादिभिः पापैर्मुक्तो भवति मानवः ।तृतीया या समाख्याता वैशाखेऽक्षयसंज्ञिता ॥७०॥तस्यां शिवाय यत्किंचिद्दद्याद्वा शिवयोगिने ।सर्वपापविनिर्मुक्तः परां गतिमवाप्नुयात् ॥७१॥ब्रह्महत्यादिभिः पापैर्युक्तो लोकविनिन्दितः ।शंकरं शरणं गत्वा सर्वपापैः प्रमुच्यते ॥७२॥२९२४॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे प्रायश्चित्तविधिकथनं नाम द्विपञ्चाशोऽध्यायः ॥५२॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP