TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १२

सौरपुराणं - अध्यायः १२

सौरपुराणं व्यासकृतम् ।


अध्यायः १२
ईश्वर उवाच -
मय्यीकचित्तता योग इति पूर्वं निरूपितम् ।
साधनान्यष्टधा तस्य प्रवक्ष्याम्यघुना शृणु ॥१॥
यमाश्च नियमास्तावदासनान्यपि षण्मुख ।
प्राणायामस्ततः प्रोक्तः प्रत्याहरश्च धारणा ॥२॥
ध्यानं तथा समाधिश्च योगाङ्गानि प्रचक्षते ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्या परिग्रहौ ॥३॥
यमाः संक्षेपतः प्रोक्ता नियमाञ्शृणु पुत्रक ।
तपः स्वाध्यायसंतोषः शौचमीश्वरपूजनम् ॥४॥
नियमाः कथिता वत्स योगसिद्धिप्रदायिनः ।
सर्वेषामेव भूतानामक्लेशजननं हि यत् ॥५॥
अहिंसा कथिता सद्भिर्योगसिद्धिप्रदायिनी ।
यथार्थकथनं सत्यमस्तेयमधुना शुणु ॥६॥
चौर्येण वा बलेनाणि परस्वहरणं च यत् ।
स्तेयमित्युच्यते सद्भिरस्तेयं तस्य वर्जनम् ॥७॥
सर्वत्र मैथुनत्यागो ब्रह्मचर्यमिहोच्यते ।
द्रब्याणामप्यनादानमापद्यपि यथेच्छया ॥८॥
अपरिग्रह इत्युक्तो योगसिद्धेस्तु साधनम् ।
चान्द्रायणादिना यस्तु शरीरस्तु च शोषणम् ॥९॥
तत्तपः कथितं पुत्र स्वाध्यायमधुना शृणु ।
प्रणवः शतरुद्रीयं तथाऽयर्वशिरःशिखा ॥१०॥
एतेषां यो जपः पुत्र स्वाध्याय इति कीर्तितः ।
यदृच्छालाभसंतुष्टः संतोष इति पठ्यते ॥११॥
बाह्ये चाभ्यन्तरे चापि शुद्धिः शौचं विधीयते ।
स्तुतिस्मरनपूजाभिर्वाड्मनःकायकर्मभिः ॥१२॥
मयि भक्तिर्दृढा पुत्र एतदीश्वरपूजनम् ।
यमाश्च नियमाः प्रोक्ताः संक्षेपान्न तु विस्तरात् ॥१३॥
यमैश्च नियमैयुक्तो योगी मोक्षाय संस्तुतः ।
स्थिरबुद्धिरसंमूढः पूर्वमासनमभ्यसेत् ॥१४॥
पद्मकं स्वस्तिकं पीठसैढं कौक्कुटकौञ्जरम् ।
कौर्मं वज्रासनं चैवं वैयाघ्रं चार्धचन्द्रकम् ॥१५॥
दण्डं तार्क्ष्यासनं शूलं खङ्गं मुद्गरमेव च ।
मकरं त्रिपथं काष्ठं स्थाणुर्वा हस्तिकर्णिकम् ॥१६॥
भीमं वीरासनं चापि वाराहं मृगवैणीकम् ।
क्रौञ्चं चानालिकं चापि सर्वतोभद्रमेव च ॥१७॥
इत्येतान्यासनान्यत्र सप्तविंशतिसंख्यया ।
योगसंसिद्धिहेतोस्तु कथितानि तवानघ ॥१८॥
एषामेकतरं बद्ध्वा गुरुभक्तिपरायणः ।
द्वन्द्वातीतो जयेत्प्राणानम्यासक्रमयोगतः ॥१९॥
अन्तश्चराणां वायूनां बाह्याभ्यन्तररोधनम् ।
प्राणायाम इति प्रोक्तो द्विविधः स च कथ्यते ॥२०॥
अगर्भश्च सगर्भश्च तयोराद्योऽजयः स्मृतः ।
द्वितीयः सजयः प्रोक्तो ध्रुवं व्याहृतिमातृभिः ॥२१॥
रेचकः शून्यकश्चैव पूरकः कुम्भकस्तथा ।
एवं चतुर्विधो भेदः प्राणायामेऽत्र सूरिभिः ॥२२॥
असूनां नाडयः प्रोक्ता गमागमलयाश्रयाः ।
रेचनाद्रेचकः प्रोक्तः शून्यकस्तु यथास्थिथ ॥२३॥
पूरकः पूरणाद्वायोस्तन्निरोधाच्च कुम्भकः ।
देहिनो दक्षिणे भागे पिङ्गला नाडिका स्मृता ॥२४॥
पितृयोनिरिति ख्याता भानुस्तत्राधिदैवतम् ।
दक्षिणेतरगा या च इडा सा नाडिका स्मृता ॥२५॥
देवयोनिरिति ख्याता चन्द्रस्तत्राधिदैवतम् ।
एतयोरुभयोर्मध्ये सुषुम्ना नाम विश्रुता ॥२६॥
पद्मसूत्रनिभा नाडी कार्याख्या ब्रह्मदैवतम् ।
ततः शून्यं निरालम्बं मध्ये स्वात्मनि योजयेत् ॥२७॥
बाह्यस्थाद्रोधनाद्वायोः शून्यकत्वं विनिर्दिशेत् ।
चन्द्रदैवतया भूयः पिबेदमृतमुत्तमम् ॥२८॥
आप्यायनं भवेत्तेन प्लावनं कल्मषस्य तु ।
आपूर्योदरसंस्थं तु उच्चैर्वायुं निरोधयेत् ॥२९॥
कुम्भकः कुम्भवत्स स्याद्रेचको वर्तितस्य च ।
उत्क्षिप्य प्रयतो वायुमजदेवत्यमानयेत् ॥३०॥
अङ्गुष्ठाग्रात्समारभ्य ब्रह्मरन्ध्रेण मोचयेत् ।
संकोच्य कूचिकाचक्रमूर्ध्वं नीत्वा रसात्रयम् ॥३१॥
संक्षोभ्य शङ्खिनीं सम्यक्ततो ब्रह्मगुहां नयेत् ।
अनेन शोधयेन्मार्गमैश्वरं विमलं मुनिः ॥३२॥
क्रमेणाभ्मासयोगेन योगसंसिद्धिभाग्भवेत् ।
मुमुक्षुणां सदा वत्स योगाङ्गं योगसिद्धये ॥३३॥
विहाय वह्निमार्गं तु अङ्गुल्यास्तु शनैः शनैः ।
सौम्येनाऽऽकर्षयेद्बायुं नाभावाकृष्य धारयेत् ॥३४॥
धारमन्नियतप्राणो योगैश्वर्यसमन्वितः ।
जायते वत्सराद्योगी जरामरणवर्जितः ॥३५॥
वायुमाकर्षयेब्दाह्यं वामया चोदरं भरेत् ।
नाभिनासान्तरा ध्यायंस्त्रिः प्राणांश्च जयेद्ध्रुवम् ॥३६॥
मन स्थैर्यं भवेद्वत्स त्रिषु स्थानेषु धारणातु ।
अङ्गुष्ठनाभिनासाग्रे वायुं योगी जितासनः ॥३७॥
अपानं कटिदेशे तु पृष्ठतो वै विनिर्दिशेत् ।
सदा तत्रैव संधेय एष वायुजयक्रमः ॥३८॥
रेचकः पूरकश्चैव कूम्भकश्च न विद्यते ।
निरालम्वे मनः कृत्वा क्षणात्प्राणजितो भवेत् ॥३९॥
इन्द्रियाणां विचरतां विषयेषु स्वभावतः ।
निग्रहः प्रोच्यते यस्तु प्रत्याहारः स उच्यते ॥४०॥
मद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि ।
प्रत्याहारः स वै प्रोक्तो योगसाधनमुत्तमम् ॥४१॥
कर्मेन्द्रियाणां पञ्चानां पञ्चमाद्येतरेजने ( ? ) ।
यदि तत्र स्थिरो लोको मनो याति तदालयम् ॥४२॥
उद्वातान्दश पञ्चैव कारयेद्धारणां बुधः ।
प्राणवायुं निवार्यैव मनः सूर्येऽन्तरे क्षिपेत् ॥४३॥
देवांश्च सिद्धान्गन्धर्वांश्चारणान्क्झेचरान्गणान् ।
षण्मासाभ्यासयोगेन सूक्ष्मज्योतिः प्रपश्यति ॥४४॥
दृष्टे न स्याज्जरा मृत्युः सर्वज्ञश्च प्रजायते ।
स्फोटाख्या नाडिका प्रोक्ता कूर्मलोकस्तदान्तरे ॥४५॥
उच्चार्य बिन्दुतत्त्वं तु तस्यान्ते गुणवत्स्मरेत् ।
भूतं भव्यं भविष्यं च वर्तमानं च दूरतः ॥४६॥
ज्ञानं यत्तद्भवेन्नोनं स्फोटाख्ये ज्ञानमभ्यसेत् ।
ललाटे मूर्ध्नि हृदये सदाशिवमनुस्मरेत् ॥४७॥
शुद्धस्फटिकसंकाशं जटाजूटेन्दुशेखरम् ।
पञ्चवक्त्रं दशभुजं सर्पयज्ञोपवीतिनम् ॥४८॥
ध्यात्वैवमात्मानि विभुं ध्यानं तत्सूरयो विदुः ।
तत्रोन्मनस्त्वं भवति न शृणोति न पश्यति ॥४९॥
न जिघ्राति न स्पृशति न किंचिद्वा समीक्षते ।
गुह्योदरादिस्थानेषु वायुं नासां विचिन्तयेत् ॥५०॥
ईशोऽहमिति योगीन्द्रः परानन्दैकविग्रहः ।
जरामरणनिर्मुक्तः शिव एव भवेन्मुनिः ॥५१॥
गमनागमनाभ्यां यो हीनो वै विपयोज्झितः ।
एकान्तरोन्मनीभावः समाधिरभिधीयते ॥५२॥
न बृहद्वस्तुनश्चिन्ता न सुक्ष्मस्यापि चिन्तनम् ।
न वहिर्नान्तरं पुत्र ब्रह्मग्रन्थिविभेदनम् ॥५३॥
न स्थूलं न कृशं वाऽपि न ह्रस्वं नापि लोपितम् ।
न शुक्लं नापि वा पीतं न कृष्णं नापि कबुर्रम् ॥५४॥
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ।
आत्मानं सर्वभूतानां परस्तात्तमसंस्थितम् ॥५५॥
सर्वस्याऽऽधारमव्यक्तमानन्दं ज्योतिरव्ययम् ।
प्रधानपुरुषातीतमाकाशं दहरं शिवम् ॥५६॥
तदन्तः सर्वभूतानामीश्वरं ब्रह्मरूपिणम्
ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ॥५७॥
महान्तं पुरुषं ब्रह्म ब्रह्माणं ब्रह्म चाव्ययम् ।
ओंकारान्ते तथाऽऽत्मानं संस्थाप्य परमात्मनि ॥५८॥
आकाशे देवमीशानं ध्यायीताऽऽकाशमध्यगम् ।
कारणे सर्वभावानामानन्दैकरसाश्रयम् ॥५९॥
पुराणं पुरुषं शंभुं ध्यायेन्मुच्येत बन्धनात् ।
शिवभक्तिं विना यस्तु संसारं तर्तुमिच्छति ॥६०॥
मूढो यथा श्वलाङ्गुलैः समुद्रं तर्तुमिच्छति ।
तथा विना शंभुसेवां संसारतरणं न हि ॥६१॥
सर्वसौख्यप्रदः शंभुर्नान्या काचन देवता ।
तस्मात्सर्वप्रयत्नेन महादेवं प्रपूजयेत् ॥६२॥
यद्वा मुहायां प्रकृतं जगत्संमोहनालये ।
विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥६३॥
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।
आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षवः ॥६४॥
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।
पातुं तिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ॥६५॥
नैकलक्षं द्विलक्षं वा त्रिलक्षं न नवात्मकम् ।
सर्वोपाधिविनिर्मुक्तं समाधिरभिधीयते ॥६६॥
बाह्ये चाभ्यन्तरे पुत्र यत्र यत्र मनः क्षिपेत् ।
तत्र तत्राऽऽत्मनो रूपमानन्दमनुभूयते ॥६७॥
संस्थाप्य मयि चाऽऽत्मानं परं ज्योतिषि निर्गुणे ।
मुहूर्तं तिष्ठतः साक्षात्तस्य चानुभवो भवेत् ॥६८॥
सर्वज्ञ परिपूर्णश्च जरामरणवर्जितः ।
मत्प्रसादाद्भवेद्योगी नान्यथा क्रौञ्चसूदन ॥६९॥
तस्मात्सर्वं परित्मज्य कर्मजातं सदुष्करम् ।
मामेकं शरणं गच्छेदज्ञानं नाशयाभ्यहम् ॥७०॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये च संकराः ।
मद्भक्तिभावनापूता यान्ति मत्परमं पदम् ॥७१॥
जगतः प्रलये प्रपते नष्टे च कमलोद्भवे ।
मद्भक्ता नैव नश्यन्ति स्वेच्छाविग्रहधारिणः ॥७२॥
योगिनां कर्मिणां चैव तापसानां यतात्मनाम् ।
अहमेव गतिस्तेषां नान्यदस्तीति निश्चयः ॥७३॥५४८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे शिवस्कन्दसंवादे यमनियमप्राणायामादिकथनं नाम द्वादशोऽध्यायः ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T03:51:25.4530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Registrar in Medicine

  • प्रबंधक, औषधवैद्यक विभाग 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.