TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३१

सौरपुराणं - अध्यायः ३१

सौरपुराणं व्यासकृतम् ।


अध्यायः ३१
सूत उवाच -
ऐलः पुरूरवाश्चाऽऽसीद्राजा परमधार्मिकः ।
उवंश्यां जनयामास षट् पुत्रान्प्रथितौजसः ॥१॥
आयुर्मायुरमायुश्च विश्वायुश्च ततः परः ।
शतायुश्च श्रुतायुश्च षडेते देवयोनयः ॥२॥
आयोः पञ्च सुताः ख्याताः स्वर्भानुतनयात्मजाः ॥
ज्येष्ठस्तेषामभूत्पुत्रो नहुषो लोकविश्रुतः ॥३॥
उत्पन्नाः पितृकन्यायां नहुषात्पञ्च सूनवः ।
विरजायां मुनिश्रेष्ठा ययातिरिति विश्रुतः ॥४॥
द्वे च भार्ये ययातेस्तु प्रथमा शुक्रकन्यका ।
देवयानीति विख्याता द्वितीया वृषपर्वणः ॥५॥
सुताऽसुरस्य शर्मिष्ठा तयोर्वक्ष्यामि संततिम् ।
देवयानी तु सुषुवे यदुं तुर्वसुमेव च ॥६॥
दुह्यं चारुं च पूरुं च शर्मिष्ठा सुषुवे सुतान् ।
अभिषिच्य पुरुं राजा यवीयांसमनिन्दितम् ॥७॥
वैराग्ययुक्तो मतिमान्ययातिः प्रययौ वनम् ।
योऽयं प्रसिद्धः शतजिद्यदोः समभवत्सुतः ॥८॥
हैहयः शतजित्पुत्रो धर्मस्तस्य सुतः स्मृतः ।
धर्मनेत्रः सुतस्तस्य धनकस्तत्सुतोऽभवत् ॥९॥
धनकस्य तु दायादः कृतवीर्यो महायशाः ।
कार्तवीर्यः कृताग्निश्च कृतवर्मा तथा परः ॥१०॥
कार्तवीर्यस्य नृपतेः पुत्राणां च शतं त्वभूत् ।
तत्र पञ्च महात्मानः शूरसेनादयो नृपाः ॥११॥
महादेवाल्लब्धवरा महादेवपरायणाः ।
जयध्वजस्तु मतिमान्नारायणपरायणः ॥१२॥
जयध्वजस्य दायादास्तालजङ्घा इति स्मृताः ।
तेषां ज्येष्ठो वीतिहोत्रः सर्वे ते यादवाः स्मृताः ॥१३॥
विश्रुतस्तस्य दायादस्तस्य पत्नी पतिव्रता ।
रममाणस्तया राजा कदाचिद्यमुनातटे ॥१४॥
अपश्यदुर्वशीं तत्र वीणावादनलालसाम् ।
उर्वशीमब्रवीद्राजा स्मरबाणेन पीडितः ॥१५॥
त्वया‍ऽहं रन्तुमिच्छामि त्वं मां रन्तुमिहार्हसि ।
सा नृपस्य वचः श्रुत्वा दृष्ट्वा तं मदनोपमम् ॥१६॥
क्रीडमाना तदा तेन चिरकालं सहोर्वशी ।
गते वर्षसहस्र तु विरक्तः कामभोमतः ॥१७॥
आहोर्वशीं गमिष्यामि स्वपुरीमिति विश्रुतः ।
भोगेनैतावता नालमवोचदिति सा पुनः ॥१८॥
न गन्तव्यं त्वया राजन्स्थातव्यं प्रीतये मम ।
अब्रवीत्तां ततो राजा पुरीं गत्वा यशस्विनीम् ॥१९॥
आगमिष्याम्यहं क्षिप्रमहं परिसरं तव ।
प्रपतानुज्ञस्ततो राजा जगाम स्वपुरीं प्रति ॥२०॥
दृष्ट्वा पतिव्रतां भार्यामभवद्भयविह्वलः ।
चेष्टितं तस्य सा ज्ञात्वा महिम्ना स्वेन भामिनी ॥२१॥
मा भैषीरिति त प्राह भर्तारं सा पतिव्रता ।
न दोषस्तव राजेन्द्र सर्वं कामस्य चेष्टितम् ॥२२॥
कामेन स्वर्गमाप्नोति कामेन नरकं ततः ।
विधिना सेवितः कामः स्वर्गदः श्वभ्रमन्यथा ॥२३॥
तस्मात्त्वया नरपते विधीं हित्वा स सेवितः ।
तस्मात्पापं महज्जातं कुरु पापविशोधनम् ॥२४॥
भार्यानिगदितं श्रुत्वा ययौ कण्वाश्रमं प्रति ।
ज्ञात्वा तद्वचनाच्छुद्धिं जगाम हिमवद्गिरिम् ॥२५॥
मार्गेऽपश्यत्स गन्धर्वं विश्वावसुमरिंदमम् ।
सकान्तं क्रीडमानं तं शोभितं दिव्यमालया ॥२६॥
दृष्ट्वा माला स राजेन्द्रः सस्माराप्सरसं तदा ।
उर्वश्या एव योग्यैषा माला नान्यस्य कस्यचित् ॥२७॥
एवं संचिन्त्य मनसा मालामाहर्तुमुद्यतः ।
तेन सार्धं महद्युद्धं गन्दह्र्वेण नृपोत्तमः ॥२८॥
कृत्वा गृहीत्वा तां मालां जगामाप्सरसं प्रति ।
अन्विष्यप्राणः सकलां बभ्राम स वसुंधराम् ॥२९॥
वनानि पर्वतान्द्वीपाल्लोकान्सर्वानशेषतः ।
अटित्वाऽपि च नापश्यदुर्वशीं राजपुंगवः ॥३०॥
अनुग्रहान्महेशस्य या तिरोऽप्यस्ति खेचरी ।
भ्रममाणो महलोके सोऽपश्यन्नारदं मुनिम् ॥३१॥
यथावदभिवाद्याथ लज्जितः पार्श्वगोऽभवत् ।
पृष्ट्वा तु कुशलं राज्ञे नारदो मुनिपुंगवः ॥३२॥
अब्रवीन्नारदं राजा चोर्वशीदर्शनोत्सुकः ।
भगवन्नामतः कस्माद्दृष्ट्वा वाऽस्ति हि तत्र तु ॥३३॥
अस्ति चेच्छ्रोतुमिच्छामि ब्रवीतु ब्रह्मणः सुतः ।
राज्ञो मनोगतं सर्वं विज्ञाय भगवान्मुनिः ॥३४॥
यथावत्कुशलं तस्य नारदस्तं तथाऽब्रवीत् ।
यत्राऽऽसीदुर्वशी देवी मेरोर्दक्षिनदेशत् ॥३५॥
सरश्च मानसं नाम तत्राहं मेदिनपिते ।
विरञ्चेः कार्यमुद्दिश्य गत्वा पुनरिहाऽऽगतः ॥३६॥
गमिप्यामि पुनस्तत्र यत्राऽऽस्ते सत्यलोकपः ।
इति श्रुत्वा मुनेर्वाक्यं राजाऽनुज्ञाप्य नारदम् ॥३७॥
तं प्रदेशं गतस्तूर्णं तत्रापश्यत्स चोर्वशीम् ।
मालां निवेदयामास सा तयाऽलंकृताऽभवत् ॥३८॥
रममाणस्तया सार्धं गतं वर्षशतं पुनः ।
कदाचित्तमपृच्छत्सा राजानं मुनिपुंगवाः ॥३९॥
स्वकीयं नगरं गत्वा भवता तत्र किं कृतम् ।
ब्रूहि राजन्महाबाहो यद्यस्मि तव वल्लभा ॥४०॥
इति पृष्टस्तया राजा प्रोवाच तदशेषतः ।
तस्मेरितमथाऽऽकर्ण्य राजानं प्रत्यभाषत ॥४१॥
इति ऊर्ध्वं मया सार्धं स्थातव्यं नैव सुव्रत ।
शापं दास्यति ते कण्वो भार्या तव ममानद्य ॥४२॥
तया चोक्तोऽपि तन्वङ्ग्या न तत्याज ह उर्वशीम् ।
ज्ञात्वाऽथ तस्य निर्वन्धमकरोदात्मनस्तनुम् ॥४३॥
बलिभिः पलिताकीर्णां तां दृष्ट्वा राजसत्तमः ।
तत्क्षणादुर्वशीं त्यक्त्वा तपसे कृतनिश्चयः ॥४४॥
द्वादशाहान्यभूद्राजा कन्दमूलफलाशनः ।
तावत्कालं च वाय्वाशी ततः कण्वाश्रमं ययौ ॥४५॥
दृष्ट्वा मुनिवरं शान्तं शिवध्यानैकतत्षरम् ।
प्रणम् दण्डवद्भक्त्या प्राञ्जलिः पार्श्वसंस्थितः ॥४६॥
यद्वृत्तमात्मनः सर्वं मुनेः सर्वं न्यवेदयत् ।
मुनिर्विदित्वा तत्पापमब्रवीत्पापशोधनम् ॥४७॥
मुनिना प्रोषितो राजा गत्वा वाराणसीं पुरीम् ।
स्नात्वा संतर्प्य जाह्नव्यां दृष्ट्वा विश्वेश्वरं शिवम् ॥४८॥
मुक्तोऽसावेनसो राजा जगाम स्वपुरीं तदा ।
वसूनि ब्राह्मणेभ्यश्च दत्त्वा राज्यमपालयत् ॥४९॥
उर्वश्यां विश्रुताज्जाताः सप्त पुत्रा महौजसः ।
क्रोष्टोर्यदुसुतस्याऽऽसन्वंश्याः सत्कीर्तिशालिनः ॥५०॥
शृणुघ्वं तान्मुनिश्रेष्ठा मुख्यानेव न चापरान् ।
क्रोष्टोर्वंशे क्रथः ख्यातो विदर्भः कोशलस्तथा ॥५१॥
सात्त्वतश्च ततः ख्यातो महाभोजस्ततः परः ।
भोजश्च सत्यवाक्चैव सत्यकः सात्यकिस्ततः ॥५२॥
क्रथकश्च सुषेणश्च सुभोजो नरवाहनः ।
आहूको देवकश्चैव श्रीदेवो देवसुव्रतः ॥५३॥
उग्रसेनश्च कंसश्च वसुदेवो महायशाः ।
उग्रसेनस्य कन्यायां देवक्यां वसुदेवतः ॥५४॥
भृगोः शापवशाद्विष्णुः संभूतस्त्रिदशेश्वरः ।
रोहिणी नामयापत्नी वसुदेवस्य शोभना ॥५५॥
तस्यां संकर्षणो जातो योऽनन्तः शेषसंज्ञितः ।
षोडश स्त्रीसहस्त्राणि पत्नयो माधवस्य याः ॥५६॥
तासु जाता ह्यसंख्याताः पद्युम्नप्रमुखाः सुताः ।
कृष्णोऽपि देवकीसूनुः परमात्मा सनातनः ॥५७॥
कृतकृत्योऽपि योगात्मा मायावी विश्वभुक्स्वयम् ।
तथाऽपि पूजयत्येव भगवन्तमुमापतिम् ॥५८॥
लिङ्गे सर्वात्मकं मत्वा महादेवं पिप्नाकिनम् ।
वरांश्च विविघाल्लब्ध्वा तस्माद्देवान्महेश्वरात् ॥५९॥
अजेयस्त्रिषु लोकेपु देवदेवो जनार्दनः ।
न कृष्णादधिकस्तस्मादस्ति माहेश्वराग्रणीः ॥६०॥
तस्मात्तत्पूओजनाच्छंभुर्भवत्येव सुपूजितः ।
हरेरवज्ञाकरणाद्भवेदीशः पराड्मुखः ॥६१॥
तस्मात्पूज्यः सदा शार्ङ्गी महादेवपरायणैः ।
तद्भक्तैश्च विशेषेण प्रीतये गिरिजापतेः ॥६२॥
एष वः कथितो वंशो यदोः संक्षेपतो द्विजाः ।
सर्वपापक्षयकरः पठतां शृण्वतां भवेत् ॥६३॥१४१९॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे पुरुयदुवंशकथनं नामैकत्रिंशोऽध्यायः ॥३१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:49:41.2370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

filicinean

  • Bot.(relating to the ferns) फिलिसिनी 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.