TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३३

सौरपुराणं - अध्यायः ३३

सौरपुराणं व्यासकृतम् ।


अध्यायः ३३
सूत उवाच -
विभुर्नामा भवेदिन्द्रो रैवतस्यान्तरे द्विजाः ।
वैकुण्ठाद्याः स्मृता देवा गणाश्चत्वार ईरिताः ॥१॥
हिरण्यरोमा विश्वश्रीरूर्ध्वबाहुस्तथैव च ।
ऐन्द्रबाहुः सुबाहुश्च पर्जन्यश्च महामुनिः ॥२॥
सप्तैत ऋषयः प्रोक्ताः प्रियव्रतकुलोद्भवाः ।
मनोजवः सुरेन्द्रोऽभूचक्षुषेऽप्यन्तरे द्विजाः ॥३॥
आयोः प्रसूता भावाद्याः कथिता देवतागणाः ।
सुमेधा विरजाश्चैव हविष्मानुत्तमो बुधः ॥४॥
अत्रिनामा सहिष्णुश्च सप्तैत ऋषयः स्मृताः ।
पुत्रो विवस्वतो विप्रा मनुर्वैवस्वतः स्मृतः ॥५॥
सांप्रतं वर्तते योऽसौ तत्र देवान्ब्रवीम्यहम् ।
मरुद्गणास्तथाऽऽदित्या रुद्राश्च वसवः स्मृता ॥६॥
पुरंदरस्तु देवेन्द्रो बभूवासुरदर्पहा ।
वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः ॥७॥
विश्वामित्रो भरद्वाजः सप्तैत रुषयो मताः ।
मन्वन्तराण्यतीतानि वर्तमानं मया द्विजाः ॥८॥
कथितान्यथ वक्ष्यामि शृणुध्वं प्रतिसंचरम् ।
चतुर्धा कथितः सोऽपि पुराणेऽस्मिन्द्विजोत्तमा ॥९॥
नित्यो नैमित्तिकश्चैवं प्राकृतात्यन्तिकौ तथा ।
योऽयं भूतक्षयो लोके नित्यं नित्यस्तु स स्मृतः ॥१०॥
कल्पान्ते यस्तु संहारो नैमित्तिक इहोच्यते ।
महदाद्यं विशेषान्तं स यदा याति संक्षयम् ॥११॥
प्राकृतः प्रतिसर्गोऽयं कथ्यते मुनिभिर्द्विजाः ।
आत्यन्तिकस्तु प्रलयो ज्ञानादेव स जायते ॥१२॥
तच्च ज्ञानं महेशस्य भक्तिलभ्यमिति श्रुतिः ।
चतुर्युगसहस्रान्ते संप्राप्ते भूतसंक्षये ॥१३॥
अनावृष्टिस्ततस्तीब्रा जायते शतवार्षिकी ।
वृक्षगुल्मलताः सर्वाः पृथिव्यां यान्ति संक्षयम् ॥१४॥
गभस्तिमाली भगवानथ सप्तरथोऽभवत् ।
रश्मिभिः सागराम्भांसि तदा पिबति भास्करः ॥१५॥
दीप्ताश्च रश्मयस्तेन भवन्ति मुनिपुंगवाः ।
भवन्ति सूर्याः सप्तैते सर्वतो रश्मिसंकुलाः ॥१६॥
तेषां रश्मिप्रतापेन दग्धा भवति मेदिनी ।
द्वीपैश्च पर्वतेः सार्धं सागरैश्च द्विजोत्तमाः ॥१७॥
सूर्यतेजोग्निदग्धानां भूतानां च परस्परम् ।
एकत्वमुपजातानामग्निरेकस्ततोऽभवत् ॥१८॥
ज्वालाभिरखिलं विश्वं निर्दहत्याशु पावकः ।
स दग्ध्वा पृथिवीं सर्वां रुद्रतेजोविजृम्भितः ॥१९॥
दिवं दग्ध्वाऽथ पातालं दन्दहीति द्विजोत्तमाः ।
उत्तिष्ठन्ति शिखास्तस्य शतयोजनमायताः ॥२०॥
तेजसा तस्य कालाग्नेरग्निः संवर्तकः स्वयम् ।
दग्ध्वा स चतुरो लोकान्सयक्षोरगराक्षसान् ॥२१॥
तप्तायःपिण्डवत्सर्वं जगदेतत्प्रकाशते ।
उत्तिष्ठन्ते ततो मेघास्तडिद्भिश्च समन्ततः ॥२२॥
संवर्तकोपमाः सर्वे नानावर्णा भयंकराः ।
जायन्ते भास्कराद्धोरा राविणो मुनिपुंगवाः ॥२३॥
ततो वर्षं प्रमुञ्चन्ति बिन्दुभिर्गजसंनिभैः ।
ब्रह्मणा प्रेरित वृष्टिर्जायते शतवार्षिकी ॥२४॥
जलौघैर्नाशमायान्ति तदा कल्पान्तपावकाः ।
द्वीपैःश्च पर्वतैर्युक्ता पृथिवी पूर्यते जलैः ॥२५॥
विलीयते धरा चैव सर्वा एव द्विजोत्तमाः ।
तस्मिन्नैकार्णवे घोरे देवदेवः प्रजापतिः ॥२६॥
योगनिद्रां समास्थाय शेते ध्यायन्महेश्वरम् ।
एष नैमित्त्कः प्रोक्तः प्रलयो मुनिपुंगवाः ॥२७॥
अतः शृणुष्वं वक्ष्यामि प्राकृतः प्रलयो यथा ।
कालाग्निरुद्रो भगवान्परार्धद्वितये गते ॥२८॥
ब्रह्माण्डं भस्मसात्कृत्वा ताण्डवं नाद्यमास्थितः ।
पीत्वा तत्परमानन्दं समालोक्य गिरीन्द्रजाम् ॥२९॥
एका सा परमा शक्तिर्नित्या हैमवती शिवा ।
एक एव महादेवस्तयोर्हेदो न विद्यते ॥३०॥
तिष्ठत्येका तदा तस्मिन्नके एव महेश्वरः ।
पार्वत्या परया शक्त्या नान्यः कश्चिदिति श्रुतिः ॥३१॥
सहस्रशीर्षा पुरुषः सहस्राकृतिरीश्वरः ।
सहस्रनयनो देवः सहस्रचरणः शिवः ॥३२॥
सहस्राबाहुर्विश्वात्मा त्रिशूली दीप्तलोचनः ।
दंष्ट्राकरालवदनः परब्रह्मतनुः शिवः ॥३३॥
दग्ध्वा ब्रह्मादिकं विश्वं स्वतेजस्यधितिष्ठति ? ॥
पृथिवी विलयं याति स्वगुनैरप्सु संयुता ॥३४॥
जलमग्नौ लयं याति वायौ तेजश्च लीयते ।
व्योग्नि वायुर्लयं याति भूतादौ व्योम लीयते ॥३५॥
इन्द्रियाणि च सर्वानि तैजसे यान्ति संक्षयम् ।
वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः ॥३६॥
अहंकारो लयं याति महति त्रिविधश्च यः ।
महत्तत्त्वं लयं याति विरञ्चौ मुनिपुंगवाः ॥३७॥
अव्यक्ते निलयस्तस्य ब्रह्मणः पद्मजन्मनः ।
एवं भूतैश्च तत्त्वानि संहत्य भगवाञ्शिवः ॥३८॥
आस्ते स भगवानेको न द्वितीयोऽस्ति कश्चन ।
इच्छया पार्वतीशस्य प्रलयो नान्यथा द्विजाः ॥३९॥
ब्रह्मादीनां पुनः सृष्टिरित्याहुस्ततत्त्वदर्शिनः ।
तस्यैव शक्तयस्तिस्रो ब्रह्मविष्णुमहेश्वराः ॥४०॥
सर्वस्मादधिकस्ताभ्यः शूलपाणिरिति श्रुतिः ।
एकमेव महादेवं वदन्ति बहुधा जनाः ॥४१॥
ब्रह्माणं शार्ङ्गिणं रुद्रं वायुमिन्द्रं रविं शशिम् ? ।
अग्निं यमं च वरुणं जनं भेददृशो जनाः ॥४२॥
तत्तद्रूपं समास्थाय भगवानेव शंकरः ।
फलं ददाति सर्वेषां सर्वशक्तिमयः शिवा ॥४३॥
तस्मात्सर्वान्परित्यज्य यजेदेकं महेश्वरम् ।
आदिमध्यान्तरहितं निर्गुणं तमसः परम् ॥४४॥
क्रमेण लभ्यतेऽन्येषां मुक्तिराराधने द्विजाः ।
आराधयन्महेशं तं तस्मिञ्जन्मनि मुच्यते ॥४५॥
एष वः कथितो विप्रा यथावत्प्रतिसंचरः ।
यदीरितं भगवता किमन्यच्छ्रोतुमिच्छथ ॥४६॥१५२१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे नित्यनैमित्तिक प्राकृतात्यन्तिकप्रतिसंचरकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥३3॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:51:37.2670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बनगी

  • स्त्री. 
  • ( सामा . ) बणगी . 
  • ( व . ) लहान फाटा . 
RANDOM WORD

Did you know?

आत्मतत्व ही काय संकल्पना आहे?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.