TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २

सौरपुराणं - अध्यायः २

सौरपुराणं व्यासकृतम् ।


अध्यायः २
भानुरुवाच -
शृनु पुत्र प्रवक्ष्यामि तत्त्वं यत्र प्रतिष्ठितम् ।
पुराणेऽस्मिन्महाभाग सर्षवेदार्थसंग्रहे ॥१॥
तत्तत्त्वं यद्भगवतो रूपमीशस्य शूलिनः ।
विश्वं तेनाखिलं व्याप्तं नान्येनेत्यव्रवीच्छ्रुतिः ॥२॥
स एवाऽऽत्मा समस्तानां भूतानां मनुजाधिप ।
चैतन्यरूपो भगवान्महादेवः सहोमया ॥३॥
एकोऽपि बहुधा भाति लीलया केवलः शिवः ।
ब्रह्मविष्ण्वादिरूपेण देवदेवो महेश्वरः ॥४॥
पृष्टो ब्रह्मादिभिर्देवैः कस्त्वं देवेति शंकरः ।
अब्रवीदहमेवैको नान्यः कश्चिदिति श्रुतिः ॥५॥
आत्मभूतान्महादेवाल्लीलाविग्रहरूपिणः ।
आदिसर्गे समुद्भूतौ ब्रह्मविष्णू सुरोत्तमौ ॥६॥
तमेकं परमात्मानमादिकर्तारमीश्वरम् ।
प्राहुर्वहुविधं तज्ज्ञा इन्द्रं मित्रमिति श्रुतिः ॥७॥
न तस्मादधिकः कश्चिन्नाणीयानपि कश्चन ।
तेनेदमखिलं पूर्णं शंकरेण महात्मना ॥८॥
मुमुक्षुभिः सदा ध्येयः शिव एको निरञ्जनः ।
सर्वमन्यत्परित्यज्य मुक्त एव विमुच्यते ॥९॥
न तस्य कर्मकार्यं वा बन्धमुक्ती महेशितुः ।
आनन्दरूपया गौर्या क्रीडति स्म महेश्वरः ॥१०॥
अक्षरं परमं व्योम शैवं ज्योतिरनामयम् ।
यस्तन्न वेद किं वेदैर्बाह्मणस्य भविष्यति ॥११॥
+ ( घसंज्ञितपुस्तकेऽस्यं श्लोको नास्ति । )
+ नान्यो वेद्यः स्वयंज्योती रुद्व एको निरञ्जनः ।
तस्मिज्ज्ञातेऽखिलं ज्ञातमित्याहुर्वेदवादिनः ॥१२॥
अहं ब्रह्मा च विष्णुश्च शक्रश्चान्ये दिवौकसः ।
अद्याप्युपायैर्विविधैः शंभोर्दर्शनकाङ्क्षिणः ॥१३॥
न दानैर्न तपोभिर्वा नाश्वमेधादिभिर्मखैः ।
भक्त्यैवानन्यया राजज्ज्ञायते भगवाञ्शिवः ॥१४॥
यतो वाचो निवर्तन्ते अमाप्य मनसा सह ।
भर्गाद्विश्चस्य भरणाद्विश्वयोनेरुमापतेः ॥१५॥
तस्य ज्ञानमयी शक्तिरव्यया गिरिजा शिवा ।
तया सह महादेवः सृजत्यवति हन्ति च ॥१६॥
आचक्षते तयोर्भेदमज्ञा न परमार्थतः ।
अभेदः शिवयोः सिद्धो वह्निदाहकयोरिव ॥१७॥
माया सा परमा शक्तिरक्षरा गिरिजाऽव्यया ।
मायाविश्वात्मको रुद्रस्तज्ज्ञात्वा ह्यमृती भवेत् ॥१८॥
स्वात्मन्यवस्थितं देवं विश्वब्यापिनमीश्वरम् ।
भक्त्या परमया राजज्ज्ञात्वा पाशैर्विमुच्यते ॥१९॥
सकलं तस्य भासैव भाति नान्येन शंकरः ।
तस्मिन्प्रकाशमाने हि नैव भान्त्यनलादयः ॥२०॥
तस्मिन्महेश्वरे गूढे विद्याविद्ये क्षराक्षरे ।
विधातरि जगन्नाथे विश्वं भाति न वस्तुतः ॥२१॥
तस्मिन्गहेश्वरे विश्वमोतं प्रोतं न संशयः ।
तस्मिज्ज्ञातेऽखिलैः पाशैर्मुच्यते मनुजेश्वरः ॥२२॥
ब्रह्मविष्ण्वादयो देवा मुनयो मनवस्तथा ।
सर्वे क्रीडनकास्तस्य देवदेवस्य शूलिनः ॥२३॥
स एवैको न चानेको न द्विरूपः कदाचन ।
तस्याऽऽज्ञयाखिलं विश्वं वर्तते तन्नियन्त्रितम् ॥२४॥
आदिसर्गे महादेवो ब्रह्माणमसुजत्प्रभुः ।
दक्षिणाङ्गाद्विरूपाक्षः सृष्ट्यर्थं लीलया किल ॥२५॥
तस्मै वेदान्पुराणानि दत्तवामग्रजन्मने ।
वासुदेवं जगद्योनिं सत्त्वोद्रिक्तं सनातनम् ॥२६॥
असृजत्पालनार्थं च वामभागान्महेश्वः ।
हृदयात्कालरुद्राख्यं जगत्संहारकारकम् ॥२७॥
असृजद्योगिनां ध्येयो निर्गुणस्तु स्वयं शिवः ।
विश्वं तस्माद्धि संभूतं तस्मिंस्तिष्ठति शंकरे ॥२८॥
लयमेष्यति तत्रैव त्रयमेतत्स्वलीलया ।
स एवाऽऽत्मा महादेवः सर्वेषामेव देहिनाम् ॥२९॥
ज्ञानेन भक्तियुक्तेन ज्ञातव्यः परमेश्वरः ।
न पश्यामि महादेवादधिकं देवतान्तरम् ॥३०॥
वेदा अपि तमेवार्थमाहुः स्वायंभुवेऽन्तरे ॥
वेदा ऊचुः -
पं प्रपश्यन्ति विद्वांसो योगिनः क्षपिताशयाः ।
नियभ्य करणग्रामं स एवाऽऽत्मा महेश्वरः ॥३१॥
ब्रह्मविष्ण्विंन्द्रंचन्द्राद्या यस्य देवस्य किंकराः ।
यस्य प्रसादाज्जीवन्ति स देवः पार्वतीपतिः ॥३२॥
न जानन्ति परं भावं यस्य ब्रह्मादयः सुराः ।
अद्यापि न वयं विद्मः स देवस्रिपुरान्तकः ॥३३॥
शृण्वन्तु देवताः सर्वाः सत्यमस्मद्वचः परम् ।
नास्ति रुद्रान्महादेवादधिकं दैवतं परम् ॥३४॥
न यथा कूर्मरोमाणि शृङ्गं न शशमस्तके ।
न यथाऽस्ति वियत्पुष्पं तथा नास्ति हरात्परम् ॥३५॥
शिवभक्तिमृते यस्तु सुखमाप्तुमिहेच्छति ।
अजागलस्तनादेव स दुग्धं पातुमिच्छति ॥३६॥
महादेवं विजानीयादहमस्मीति पण्डितः ।
अन्यत्किमस्मादप्यस्ति ज्ञातव्यं मुक्तिहेतवे ॥३७॥
ब्राह्मीं नारायणीं रौद्रीं पूजयित्वा महेश्वरीम् ।
यत्प्रपश्यान्ति योगीन्द्रास्तद्विद्याच्छांकरं पदम् ॥३८॥
क्रमाच्चक्राणि चंक्रम्य शङ्खिन्यामुपरि स्थितम् ।
यदभिव्यज्यते ज्योतिस्तद्विद्याच्छांकरं पदम् ॥३९॥
देवयानपथं हित्वा पितृयाणं तथोत्तरम् ।
गगनाद्यो रवः सूक्ष्मः शंकरस्य स वाचकः ॥४०॥
विश्वतश्चक्षुरीशानस्त्रिशूली विश्वतोमुखः ।
जनकः सर्वभूतानामेक एव महेश्वरः ॥४१॥
वालाग्रमात्रं हृत्पद्मे स्थितं देवमुमापतिम् ।
येऽनुपश्यन्तिं विद्वांसस्तेषां शान्तिर्हि शाश्वती ॥४२॥
पृथिव्यां तिष्ठति विभुः पृथिवी वेत्ति नैव तम् ।
रूपं च पृथिवी यस्य तस्मै भूभ्यात्मने नमः ॥४३॥
अप्सु तिष्ठति नैवाऽऽपस्तं विदुः परमेश्वरम् ।
आपो रूपं च यस्यैव नमस्तस्मै जलात्मने ॥४४॥
याऽग्नौ तिष्ठत्ममेयात्मा न तं वेत्ति कदाचन ।
अग्नि रूपं भवेद्यस्य तस्मै वह्न्यात्गने नमः ॥४५॥
तिष्ठत्यजस्त्रं यो वायौ न वायुर्वेत्ति तं परम् ।
वायुर्यस्य भवेद्रूपं तस्मै वाय्वात्मने नमः ॥४६॥
व्योम्नि तिष्ठति यो नित्यं व्योम वेत्ति न तं हरम् ।
व्योम यस्य भवेद्रूपं तस्मै व्योमात्मने नमः ॥४७॥
सूर्ये तिष्ठति यो देवो न सूर्यो वेत्ति शंकरम् ।
यस्य सूर्यो भवेद्रूपं तस्मै सूर्यात्मने नमः ॥४८॥
यश्चन्द्रे तिष्ठति विभुश्चन्द्रो वेत्ति न शाश्वतम् ।
चन्द्रो यस्य भवेद्रूपं तस्मै चन्द्रात्मने नमः ॥४९॥
यजमाने तिष्ठति यो न तं वेत्ति कदाचन ।
यजमानोऽपि यद्रूपं यजमानात्मने नमः ॥५०॥
त्वत्तो वयं समुद्भूतास्त्वय्येव विलयस्तथा ।
प्रमाणपदमारूढास्त्वत्प्रसादातवृषध्वज ॥५१॥
भानुरुवाच -
एवं वेदस्तुतिं श्रुत्वा भनवाग्निरिजापतिः ।
प्रत्यक्षः समभूत्तेषां वेदानां मनुजाधिष ॥५२॥
सूर्यकोटिप्रतीकाशः सहस्राक्षः सहस्रपात् ।
सहस्रशीर्षां पुरुषः सूर्यसोमाग्निलोचनः ॥५३॥
स्थूलात्स्थूलतरः स्थूलः सूक्ष्मात्सूक्ष्मतरः परः ।
वेदानुवाच भगवान्देवदेवो महेश्वरः ॥५४॥
ईश्वर उवाच -
मत्मसादाद्भविष्यध्वं हे वेदा लोकपूजिताः ।
युष्मानाश्रित्य विप्रेन्द्राः कर्म कुर्वन्ति नान्यथा ॥५५॥
ये युष्मान्समतिक्रन्य यत्किंचित्कर्म कुर्वते ।
निष्कलं तद्भवेत्कर्म तेषां युष्मदयंज्ञया ॥५६॥
नित्यं नैमित्तिकं यच्चान्यन्मोक्षसाधनम् ।
युष्मद्वचो नान्यदिति मत्वा धीरो न शोचति ॥५७॥
ये वै युष्माननादृत्य शास्त्रं कुर्वन्ति मानवाः ।
निरये ते विपच्यन्ते यावदिन्राश्चतुर्दश ॥५८॥
श्रेयसे त्रिषु लोकेषु न वेदादधिकं परम् ।
विद्यते नात्र संदेह इति दत्तो वरो मया ॥५९॥
युष्मत्कृतं परं स्तोत्रं ये पठिष्यन्ति वै द्विजाः ।
तेषामध्ययनं पुण्यं मत्प्रसादाद्भविष्यति ॥६०॥
भानुरुवाच -
एवं दत्त्वा वरान्देवो वेदेभ्यो गिरिजापतिः ।
पश्यतामेव वेदानां क्षणादन्तर्हितोऽभवत् ॥६१॥१०६॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवमहिमवर्णनं नाम द्वितीयोऽध्यायः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-04T21:21:05.9070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

व्यश्व II.

  • n. एक जातिविशेष, जिसमें वश अश्र्व्य नामक आचार्य उत्पन्न हुआ था [ऋ. ८.२४.२८] 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.